Page loading... Please wait.
7|1|25 - अद्ड् डतरादिभ्यः पञ्चभ्यः
॥ तस्मै पाणिनये नमः ॥
7|1|25
SK 315
अद्ड् डतरादिभ्यः पञ्चभ्यः   🔊
सूत्रच्छेदः
अद्ड् (प्रथमैकवचनम्) , डतरादिभ्यः (पञ्चमीबहुवचनम्) , पञ्चभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
नपुंसकात्  7|2|23 (पञ्चम्येकवचनम्) , स्वमोः  7|2|23 (षष्ठीद्विवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
डतरादिभ्यः पञ्चभ्यः अङ्गात् स्वमोः अद्ड्
सूत्रार्थः
नपुँसकलिङ्गवाचिभ्यः डतरप्रत्ययान्तशब्देभ्यः परस्य, डतमप्रत्ययान्तशब्देभ्यः परस्य, तथा - "अन्य", "अन्यतर", "इतर" एतेभ्यः परस्य सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति ।
सर्वादिगणे पाठिताः "डतर-डतम-अन्य-अन्यतर-इतर" एतेषाम् पञ्चानाम् उल्लेखः अस्मिन् सूत्रे "डतरादिभ्यः पञ्चभ्यः" इत्यनेन कृतः अस्ति । एतेषु "डतर" तथा "डतम" एतौ प्रत्ययौ, अतः सर्वे डतरप्रत्ययान्तशब्दाः डतमप्रत्ययान्तशब्दाः च अनयोः शब्दयोः गृह्यन्ते । एते शब्दाः तथा "अन्य", "अन्यतर", "इतर" - एते त्रयः शब्दाः त्रिषु लिङ्गेषु भवन्ति । नपुँसकलिङ्गे एतेषां परस्य सुँ-प्रत्ययस्य तथा च अम्-प्रत्ययस्य "अद्ड्" अयम् आदेशः भवति । अस्मिन् आदेशे डकारः इत्संज्ञकः अस्ति, अतः केवलंम् "अत्" इत्येव अवशिष्यते । यथा -

अन्य + सुँ / अम्
→ अन्य + अद् [स्वमोर्नपुँसकात् 7|1|23 इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन अतोऽम् 7|1|24 इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन अद्ड् डतरादिभ्यः पञ्चभ्यः 7|1|25 इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।]
→ अन्य् + अद् [टेः 6|4|143 इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।]
→ अन्यद् / अन्यत् [वाऽवसाने 8|4|56 इति विकल्पेन चर्त्वम्]

एवमेव कतरत्, कतमत्, स्वल्पतमत्, अन्यतरत्, इतरत् - एतानि रूपाणि अपि सिद्ध्यन्ति ।

प्रश्नः - अद्ड् इत्यत्र अन्ते इत्संज्ञकः डकारः किमर्थम् स्थापितः अस्ति?
उत्तरम् - यदि अस्मिन् प्रत्यये डकारः न अभविष्यत्, तर्हि टेः 6|4|143 इत्यनेन अङ्गस्य अन्तिम-अकारस्य लोपः अपि न अभविष्यत् । अस्यां स्थितौ "अन्य + अद्" इत्यत्र प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यनेन पूर्वसवर्णदीर्घे कृते "अन्याद्"
इति रूपं अभविष्यत् । तत् तथा मा भूत्, तथा च डित्वात् भस्य टिसंज्ञकस्य अन्तिमवर्णस्य अपि लोपः भवेत्, एतत् साधयितुम् डकारः स्थापितः अस्ति ।
One-line meaning in English
The सुँ / अम् प्रत्यय occurring after the words ending in डतर and डतम प्रत्यय, and after the words "अन्य", "अन्यतर", "इतर" gets the अद्ड् आदेश.
काशिकावृत्तिः
डतरादिभ्यः परयोः स्वमोः अद्डित्ययम् आदेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्यः इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्नदीर्घो मा भूत्। इह तु कतरत् पश्य इति स्थनिवद्भावादमि पूर्वंत्वेन अपि सिध्यति। एवं तर्हि तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्। अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु। अड्डित्त्वाड् डतरादीनां न लोपो न अपि दीर्घता।
द्विडाकारोऽयं निद्र्दशः--तत्रैको डतरसम्बन्धी द्वितीयस्त्वादेशम्बन्धी। डतरादयश्चैते सर्वाद्यन्तःपातिनो गृह्रन्ते; न तु `द्वयोरेकस्य डतरच्` 5|3|92 इत्येवमादयः प्रत्ययाः। कुत एतत्? नेतराच्छन्दसि` 7|1|26 इति प्रतिषेधात्। प्रत्ययग्रहणे हीतरशब्दात्? प्राप्तेरेव नास्तीति प्रतिषेधोऽनर्थकः स्यात्। तेषां डतरादीनां मध्येऽन्त्यानि त्रीणि प्रातिपदिकानि; डतरडतमौ च प्रत्ययौ; तत्र प्रत्यग्रहणपरिभाषया (भो।प।सू।7) तदन्तयोग्र्रहणं भवति। `कतरत्` इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्` 5|3|92 । `कतमत्` इति। `वा बहुनां जातिपरिप्रश्ने डतमच्` 5|3|93 । `कतरत्? तिष्ठतीत्यत्र` इत्यादि। असति हि ङित्करणे कतरत्? तिष्ठतीत्यत्र `अकः सवर्णे दीर्घः` 6|1|97 इत्यनुवत्र्तमाने `प्रथमयोः पूर्वसवर्णः` 6|1|98 इति दीर्घः स्यात्, अतः स मा भूदित्येवमर्थं ङित्करणं क्रियते। अत्र हि कृते दीर्घत्वप्रसङ्गो न भवति; टिलोपेनाऽकोऽपह्मतत्वात्। किं पुनः कारणम्--प्रथमैकवचनस्यैव ङित्करणस्य दीर्घाभावः प्रयोजनमुच्यते, न तु द्वितीयैकवचनस्य? इत्यत आह--`इह तु` इत्यादि। अमो हि स्थाने य आदेशस्तस्य `स्थानिवदादेशोऽनल्विधो` 1|1|55 इति स्थानिवद्भावादमि पूर्वत्वेनापि सिध्यति--कतरदित्येतत्, तस्मात्? तत्र ङित्करणस्य दीर्घत्वाभावः प्रयोजनमिति नोच्यते। `तकारादेश एव कस्मान्न क्रियते` इति। यद्यत्र दीर्घत्वं नेष्यते तदा तकारादेश एव कत्र्तव्यः। तत्राप्ययमर्थः--दीर्घनिवृत्त्यर्थं ङित्करणं न कत्र्तव्यमिति। `हे कतरत्` इत्यादि। यदि तकारादेश एव क्रियते तदा तस्य स्थानिवद्भावेन सम्बुद्धिभावोऽस्तीति `एङ् ह्यस्वात्? सम्बुद्धेः` 6|1|67 इति लोपः प्राप्नोति, अतः स मा भूदित्येवमर्थं तकारादेशो न क्रियते। `अपृक्तश्च` इत्यादि। `हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तम्` 6|1|67 इत्यतश्चेदपृक्तग्रहणं सम्बुद्धिलोपेऽनुवत्र्तते तदामो दोषः--हे कुण्डेत्यत्र। निवृत्तेऽपृक्ताधिकारे डतरादिषु दोषः--हे कतरदिति। तस्माड्डित्करणादेवाकारलोपे कृते ह्यसवाभावान्न लोपः, न च दीर्घतेति॥
अद्ड्डादेशो भवतीति । वविक्षितादेशरुपप्रतिपादनाय ष्टुअत्वं न कृतम् । कथं पुनर्ज्ञायते - डिदयमादेश एइति यदि हि डिन्नस्यात् डतरादिभ्यः पञ्चभ्योऽत् इत्येव ब्रूयात् । किं पुनः कारणं सावेव दीर्घनिवृत्तिः प्रयोजनमुच्यते, न त्वमि इत्याह - इह त्विति । एवं तर्हीति । पूर्वसूत्रविहितमममनुवर्त्य डतरादिभ्य इति पञ्चम्याः षष्ठी प्रकल्प्य तस्यैवामो दकारो विधास्यत इति चोद्यार्थः । हे कतरदित्यत्र सम्बुद्धिलोपो मा भूदिति । अयं च दोष पूर्वस्मिन्नपि पक्षे समानः । ननु च सम्बुद्धिलोपे हल्ड।लब्भ्यः इत्यतोऽपृक्तग्रहणमनुवर्तयिष्यते, इह च आदेः परस्य इत्यमोऽकारस्य दकारे कृते मकारस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नायमपृक्तः, एवमदादेशो नापृक्तः, यद्यपृतग्रहणमनुवर्तते, हे काण्डेत्यामोऽपि न स्यादिति दोषः । तदिदमुक्तम् -- अथ निवृतमपृक्तग्रहणम्, ततो निवृते डतरादिषु दोषः - हे कतरदित्यादौ लोपः स्यादिति । अतो डित्वादद्डादेशविधानातस्य च डित्वान्न सम्बुद्धिलोपः, नापि पूर्वसवर्णदीर्घत्वमित्यर्थः । यदि पुनः पूर्वसूत्रबिहितमममनुवर्त्य तस्यैवादादेशो विधीयते शक्यं डित्वमकर्तुम् ॥
सिद्धान्तकौमुदी
एभ्यः क्लीबेभ्यः स्वमोरद्डादेशः स्यात् ॥
अद्ड् डतरादिभ्यः पञ्चभ्यः - अद्ड्डतरादिभ्यः । "अद्ड्-डतरादिभ्य" इति छेदः । दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः । डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः । अत्र डक्त्रडतमौ प्रत्ययौ । अतस्तदन्तग्रहणं ।स्वमोर्नपुंसका॑दिति सूत्रमनुवर्तते तदाह — एभ्य इत्यादिना ।
अद्ड् डतरादिभ्यः पञ्चभ्यः - अद्ड्डतरादिभ्यः । पञ्चभ्य इति किम्, नेमं तिष्ठति । नेमं पश्य । डतरादयोडतरडतमेतरान्यतरे॑ति सर्वादिषु पठिताः । अद्डादेशः स्यादिति । जिघृक्षितादेशस्वरूपप्रतिपादमाय ष्टुत्वं न कृतम् ।
लघुसिद्धान्तकौमुदी
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥
महाभाष्यम्
अद्ड्डतरादिभ्यः पञ्ञ्चभ्यः ।। अद्भावे पूर्वसवर्णप्रतिषेधः ।। अद्भावे पूर्वसवर्णस्य प्रतिषेधो वक्तव्यः कतरत्तिष्ठति । करतत्परश्य(1) ।।. सिद्धमनुनासिकोपधत्वात् ।। सिद्धमेतत् ।। कथम् ? ।। (ठअनुनासिकोपधत्वात्(2)) अनुनासिकोपधोऽच्छब्दः करिष्यते ।। दुक्करणाद्वा ।। अथवा दुग् डतरादीनामिति वक्ष्यामि ।। डित्करणाद्वा ।। । अथवा डिदच्छब्दः करिष्यते ।। स तर्हि डकारः कर्तव्यः ? ।। न कर्तव्यः । क्रियते न्यास एव । द्विडकारको निर्देशः, ‐ अद्ड्डतरादिभ्य इति । (अद्ड्डतरादिभ्यः) ।।