Page loading... Please wait.
7|1|22 - षड्भ्यो लुक्
॥ तस्मै पाणिनये नमः ॥
7|1|22
SK 261
षड्भ्यो लुक्   🔊
सूत्रच्छेदः
षड्‍भ्यः (पञ्चमीबहुवचनम्) , लुक् (प्रथमैकवचनम्)
अनुवृत्तिः
जश्-शसोः  7|1|20 (षष्ठीद्विवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
षड्भ्यः अङ्गात् जश्-शसोः लुक्
सूत्रार्थः
षट्-संज्ञकात् अङ्गात् परस्य जस्/शस्-प्रत्यययोः लुक् भवति ।
षट्-इयम् संज्ञा द्वाभ्याम् सूत्राभ्याम् दीयते -
1. ष्णान्ता षट् 1|1|24 इत्यनेन षकारान्ताः नकारान्ताः च संख्यावाचिनः शब्दाः षट्-संज्ञकाः भवन्ति । यथा - पञ्चन्, षष् सप्तन्, अष्टन्, नवन्, दशन्, एकादशन् - आदयः ।
2. डति च 1|1|25 इत्यनेन डति-प्रत्ययान्तशब्दाः षट्-संज्ञकाः भवन्ति । यथा - कति ।

एतेभ्यः परस्य जस्-शस्-प्रत्यययोः वर्तमानसूत्रेण "लुक्" भवति । लुक्-इत्युक्ते प्रत्ययस्य लोपः । यथा

1. पञ्चन् + जस् / शस्
→ पञ्चन् [षड्भ्यो लुक् 7|1|22 इति लुक्]
→ पञ्च [प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन पञ्च-शब्दस्य सुप्तिङन्तं पदम् 1|4|14 इति पदसंज्ञा । नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यनेन प्रातिपदिकान्तस्य पदस्य अन्तिमनकारस्य लोपः ।]

एवमेव सप्तन्, नवन्, दशम् एतेषामपि प्रक्रिया भवति ।

2. षष् + जस् / शस्
→ षष् [षड्भ्यो लुक् 7|1|22 इति लुक्]
→ षड् [झलां जशोऽन्ते 8|2|39 इति जश्त्वम्]
→ षड्, षट् [खरि च 8|4|55 इति वैकल्पिकं चर्त्वम्]

3. अष्टन् + जस् / शस्
→ अष्ट + जस् / शस् [अष्टनः आ विभक्तौ 7|2|84 इत्यनेन अष्ट-शब्दस्य वैकल्पिकः आकारादेशः न भवति ।]
→ अष्टन् [षड्भ्यो लुक् 7|1|22 इति जस्/शस्-प्रत्यययोः लुक्]
→ अष्ट [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः]

यदि अष्टन्-शब्दस्य जस्/शस्-प्रत्यये परे आकारादेशः भवति, तर्हि षड्भ्यो लुक् 7|1|22 इति जस्/शस्-प्रत्यययोः लुक्-प्राप्ते अपवादत्वेन अष्टाभ्य औश् 7|1|21 इति औश्-आदेशः भवति । अग्रे वृद्धि-एकादेशं कृत्वा "अष्टौ" इति रूपं सिद्ध्यति ।

ज्ञातव्यम् - अस्मिन् सूत्रे जस्/शस्-प्रत्यययोः लोपः "लुक्" नाम्ना कृतः अस्ति । "लुक्" इत्यस्य प्रयोगस्य प्रयोजनम् अस्ति लुप्तप्रत्ययेन निर्दिष्टस्य अङ्गकार्यस्य न लुमताङ्गस्य 1|1|63 इति प्रतिषेधः । यथा, नपुँसकलिङ्गस्य विषये सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन सामान्यरूपेण नकारान्तस्य अङ्गस्य यः उपधादीर्घः विधीयते, तादृशं अङ्गकार्यम् अत्र न भवति ।
One-line meaning in English
The जस्/शस्-प्रत्यय following a षट्-संज्ञक अङ्ग are removed.
काशिकावृत्तिः
षट्संज्ञकेभ्य उत्तरयोः जश्शसोर् लुक् भवति। षट् तिष्ठन्ति। षट् पश्य। पञ्च। सप्त। नव। दश। षट्प्रधानात् तदन्तादपि भवति। उत्तमषत्। यत्र तु उपसर्जनं षट् ततो न भवति, प्रियषषः, प्रियपञ्चानः इति।
`पञ्च, सप्त` इति। `नलोपः प्रातिपदिकान्तस्य` 8|2|7 इति नलोपः। `षट्परधानात्? तदन्तादपि भवति` इति। अत्र पूर्वको हेतुर्वकतव्यः। `यत्र तु` इत्यादि। अर्थस्येदं ग्रहणं बहुलवचनादवसितम्। स चार्थो द्विविधः--प्रधानोऽप्रधानश्च। तत्र `प्रदाने कार्यसम्प्रत्ययः` (व्या।प।120) इति यत्रार्थस्य प्राधान्यं तत्रैव भवति, न तु यत्रार्थस्याप्राधान्यं तत्र। एष च हेतुः प्रियाष्टान इत्यत्रौश्त्वाभावेऽपि वेदितव्यः। `प्रियषषः` इति। प्रियाषडेषामिति बहुव्रीहिः। अत्रान्यपदार्थस्य प्राधान्यम्, षडर्थस्तु तत्र गुणभावादप्रधानः॥
षट्प्रधानादिति । षट्संज्ञकानामर्थः प्रधानं यत्र तस्मादित्यर्थः । प्रियषष इति । अन्यपदार्थप्रधानोऽयं बहुव्रीहिः, सर्वनामसंख्ययोरुपसंख्यानम् इति षषः पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥
सिद्धान्तकौमुदी
षड्भ्यः परयोर्जश्शसोर्लुक्स्यात् ॥
षड्भ्यो लुक् - षड्भ्यो लुक् । जस्शसोरित्यनुवर्तते । तदाह — षड्भ्यः परयोरित्यादिना ।
षड्भ्यो लुक् - पङ्भ्यो लुक् ।सर्वनाम्नः स्मै॑ इतिवत्षषोलु॑गिति वक्तव्ये बहुवचननिर्दिशोऽत्रार्थप्राधान्यसूचनार्थः, कृत्रिमाकृत्रिमन्यायेन स्वरूपनिराससिद्धेः । तेनषडर्थगतसङ्ख्याभिधायिनोरेव जश्शसोर्लु॑गित्यर्थपर्यवसानात्प्रियपञ्चन इत्यादौ नातिप्रसङ्गः ।जश्शसोः शि ॑रित्यातोऽनुवर्तनादाह-जश्शसोर्लुक्स्यादिति ।
लघुसिद्धान्तकौमुदी
जश्शसोः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.