Page loading... Please wait.
7|1|20 - जश्शसोः शिः
॥ तस्मै पाणिनये नमः ॥
7|1|20
SK 312
जश्शसोः शिः   🔊
सूत्रच्छेदः
जश्-शसोः (षष्ठीद्विवचनम्) , शिः (प्रथमैकवचनम्)
अनुवृत्तिः
नपुंसकात्  7|1|19 (पञ्चम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
नपुँसकात् अङ्गात् जस्-शसोः शिः
सूत्रार्थः
नपुँसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति ।
नपुँसकलिङ्गवाची यः शब्दः, तस्मात् परयोः प्रथमाद्वितीयाबहुवचनस्य "जस् / शस्" प्रत्यययोः "शि" इति आदेशः भवति । अनेकाल्त्वात् अनेकाल्शित्सर्वस्य 1|1|55 इत्यनेन अयम् सर्वादेशः भवति । ("शि" इत्यत्र शकारः प्रारम्भे इत्संज्ञकः नास्ति यतः लशक्वतद्धिते 1|3|8 इत्यनेन केवलं प्रत्ययादिस्थस्यैव शकारस्य इत्संज्ञा भवति, न हि आदेशस्य । अतः जस्/शस्-इत्येतयोः स्थाने प्रारम्भे "शि" इति आदेशः भवति, ततः स्थानिवद्भावात् "शि" इत्यस्य प्रत्ययसंज्ञा भवति, ततश्च शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा लोपश्च विधीयते) ।

अस्मिन सूत्रे प्रोक्तः "शि" अयम् आदेशः शि सर्वनामस्थानम् 1|1|42 इति "सर्वनामस्थान" संज्ञकः भवति, अतः नपुँसकलिङ्गशब्दात् जस्-शस्-प्रत्यययोः परयोः सर्वनामस्थानविशिष्टं कार्यं दृश्यते ।उदाहरणानि एतानि -

1. फल + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ फल + शि [जश्शसोः शिः 7|1|20 इति शि-आदेशः । शि सर्वनामस्थानम् 1|1|42 इति प्रत्ययस्य सर्वनामस्थानसंज्ञा ]
→ फल + इ [शकारस्य इत्संज्ञा, लोपः ]
→ फल नुम्+ इ [नपुँसकस्य झलचः 7|1|72 इति अजन्तस्य अङ्गस्य सर्वनामस्थाने परे नुमागमः]
→ फल न् + इ [इत्संज्ञालोपः]
→ फलानि [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]

2. पयस् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]
→ पयस् + शि [जश्शसोः शि 7|1|20 इति शि-आदेशः । शि सर्वनामस्थानम् 1|1|42 इति सर्वनामस्थानसंज्ञा ।]
→ पयन्स् + इ [शकारस्य इत्संज्ञा, लोपः । नपुँसकस्य झलचः 7|1|72 इति अङ्गस्य नुमागमः]
→ पयान्स् + इ [सान्तमहतः संयोगस्य 6|4|10 इत्यनेन नकारस्य उपधावर्णस्य दीर्घादेशः]
→ पयांसि [नश्चापदान्तस्य झलि 8|3|24 इति नकारस्य अनुस्वारः]

3. जगत् + शस् [द्वितीयाबहुवचनस्य जस्-प्रत्ययः]
→ जगत् + शि [जश्शसोः शि 7|1|20 इति शि-आदेशः । शि सर्वनामस्थानम् 1|1|42 इति सर्वनामस्थानसंज्ञा ।]
→ जगन् त् + इ [शकारस्य इत्संज्ञा, लोपः । नपुँसकस्य झलचः 7|1|72 इति अङ्गस्य नुमागमः]
→ जगन्ति

4. वारि + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ वारि + शि [जश्शसोः शि 7|1|20 इति शि-आदेशः । शि सर्वनामस्थानम् 1|1|42 इति सर्वनामस्थानसंज्ञा ।]
→ वारि + इ [शकारस्य इत्संज्ञा, लोपः । नपुँसकस्य झलचः 7|1|72 इति अङ्गस्य नुमागमः]
→ वारि न् + इ [इकोऽचि विभक्तौ 7|1|73 इति नुमागमः]
→ वारी + नि [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन नकारान्तस्य अङ्गस्य उपधायाः सर्वनामस्थाने परे दीर्घः]
→ वारीणि [अट्कुप्वाङ्नुम्वयवायेऽपि 8|4|2 इति णत्वम्]
One-line meaning in English
The जस्/शस्-प्रत्ययs that follow a नपुँसकलिङ्ग word get "शि" आदेश.
काशिकावृत्तिः
नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययम् आदेशो भवन्ति। कुण्डानि तिष्थन्ति। कुण्डानि पश्य। दधीनि। मधूनि। त्रपूणि। जतूनि। जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति।
बहुवचनस्य वस्नसौ। उक्तविधयोरिति। षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः।
कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥
सिद्धान्तकौमुदी
क्लीबादनयोः शिः स्यात् ॥
जस्शसोः शिः - बहुवचनस्य वस्नसौ । उक्तविधयोरिति । षष्ठआदिविशिष्टयोर्युष्मदस्मदोरित्यर्थः ।
जस्शसोः शिः - जश्शसोः । जसा साहचर्यादिह सुबेव शस् गृह्रते । तेनेह न — -कुण्डशो ददाति ।
लघुसिद्धान्तकौमुदी
क्लीबादनयोः शिः स्यात्॥
महाभाष्यम्
जश्शसोः शिः जसः शी ।। किमर्थं शीभावः शिभावश्चोच्यते, न शिभाव एवोच्येत ? ।। का रूपसिद्धिः ‐ ते ये के ।। आद्गुणेन सिद्धम् ।। नैवं शक्यम् ‐ -ःथ्द्य;ह हि त्रपुणी जतुनी, दीर्घश्रवणं न स्यात् ।। एवं तर्हि शीभाव एवोच्येत(2) ।। नैवं शक्यम् । इह हि कुण्डानि वनानि इति ह्रस्वस्य श्रवणं(3) न प्रसज्येत । तस्माच्छीभावः शिभावश्च ।। ( जसः शी ) ।।