Page loading... Please wait.
6|4|74 - न माङ्योगे
॥ तस्मै पाणिनये नमः ॥
6|4|74
SK 2228
न माङ्योगे  
सूत्रच्छेदः
(अव्ययम्) , माङ्योगे (सप्तम्येकवचनम्)
अनुवृत्तिः
लुङ्-लङ्-लृङ्क्षु  6|4|71 (सप्तमीबहुवचनम्) , अट्  6|4|71 (प्रथमैकवचनम्) , आट्  6|4|72 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
लुङ्-लङ्-लृङ्क्षु माङ् योगे अङ्गस्य अट् आट् न
सूत्रार्थः
माङ्-इत्यस्य उपस्थितौ लुङ्लकारे, लङ्लकारे, लृङ्लकारे च अङ्गस्य अडागमः / आडागमः न भवति ।
"माङ्" इति किञ्चन अव्ययम् । अस्य प्रयोगः निषेधं दर्शयितुम् भवति । माङ्-इत्यस्य उपस्थितौ माङि लुङ् इत्यनेन 3|3|75 इत्यनेन केवलं लुङ्-लकारस्यैव प्रयोगः भवितुम् अर्हति, अन्येषां लकाराणाम् न । तथा च, यदि माङ्-इत्येतेन सह "स्म" इति अन्यत् अव्ययम् अपि प्रयुज्यते, तर्हि स्मोत्तरे लङ् च 3|3|176 इत्यनेन लङ्लकारस्य लुङ्लकारस्य वा एव प्रयोगः भवितुम् अर्हति, अन्येषाम् लकाराणाम् न । अस्मिन् प्रयोगे वर्तमानसूत्रेण अडागमः / आडागमः न क्रियते ।

यथा - "क्लैब्यं मा स्म गमः पार्थ" (भगवद्गीता, 2.3) - अत्र "गम्" धातोः लुङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् "गमः" एतादृशम् सिद्ध्यति ।

गम् + लुङ् [लोट् च 3|3|162 इत्यनेन "विधिं" दर्शयितुम् लोट्लकारे प्राप्ते स्मोत्तरे लङ् च 3|3|176 इत्यनेन अपवादत्वेन लुङ्-लकारः विधीयते ।]
→ गम् + च्लि + ल् [च्लि लुङि 3|1|43 इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् "च्लि"]
→ गम् + अ + ल् [3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु 3|1|55 इति च्लि-इत्यस्य अङ्-आदेशः ।]
→ गम् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इत्यनेन अडागमे प्राप्ते न माङ्योगे 6|4|74 इति अडागमनिषेधः]
→ गम् + अ + सि [तिप्तस्.. 3|4|78 इति सिप्]
→ गम् + अ + स् [इतश्च 3|4|100 इति इकारलोपः]
→ गमः [विसर्गनिर्माणम्]

तथैव - मा भवान् कार्षीत् / मा भवान् करोत् - एतादृशाः प्रयोगाः अपि सिद्ध्यन्ति ।

ज्ञातव्यम् - "मा" इत्येपि अन्यत् एकम् अव्ययम् अस्ति, यस्यापि प्रयोगः "निषेधार्थे" एव भवति । परन्तु अस्मात् अव्ययात् परः कस्यापि लकारस्य प्रयोगः भवितुम् अर्हति । तथा च, अस्य उपस्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः लुङ्/लङ्/लृङ्-लकाराणां विषये अडागमः / आडागमः भवत्येव । यथा, भर्तृहरिः वदति - "अरसिकेषु कवित्वनिवेदनम्, शिरसि मा लिख, मा लिख, मा लिख । अत्र "मा" इत्यस्मात् परः लोट्लकारः प्रयुक्तः अस्ति ।
One-line meaning in English
In presence of the अव्यय माङ्, the अडागमः / आडागमः does not happen even in case of लुङ्लकार, लङ्लकार, and लृङ्लकार
काशिकावृत्तिः
माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्तं तन् न भवति। मा भवान् कार्षीत्। मा भवान् हार्षीत्। मा स्म करोत्। मा स्म हरत्। मा भवानीहिष्ट। मा भवानीक्षिष्ट। मा स्म भवानीहत। मा स्म भवानीक्षत।
`अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इत्याट एवायं प्रतिषेध इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`माङ्योगे लुङलङलृङक्षु परतो यदुक्तं तन्न भवति` इति। एतोनोभयोरप्यडाटोः प्रतिषेध इति दर्शयति। उभावपि तौ लृङ्लङ्लृङ्क्षूक्तौ। कथं पुनद्र्वयोरपि प्रतिषेधो लभ्यते? आटाप्यत्रानुवृत्तेः। न च तस्मिन्ननुवर्तमाने सत्यजादीनामष्यट्? प्राप्नोतीत्येष दोषः प्रसज्यते; मण्डूकपलुतिन्यायेनात्राटोऽनुवृत्तेः। योगविभागाद्वा, अयमटोऽपि प्रतिषेध इत्यवसीयते; यदि ह्राट एव प्रतिषेधोऽभिमतः स्यात्? तदा `आडजादीनां न माङ्योगे` इत्येकमेव योगं कुर्यात। अथ वा--`लुङ्लङ्लृङ्क्षु` 6|4|71 इत्येतावन्मात्रमनुवर्तते, तेन लुडादिषु यदुक्तं तस्य सर्वस्य प्रतिषेधो न विज्ञायते। न चैवमतिप्रसङ्ग; यतः प्रत्यागन्तेरस्मिन्नेव लुङलङ्लृङ्प्रकरणे यत्? कार्यं विहितं तस्यैव प्रतिषेधो लभ्यते, न सर्वस्य प्रकरणान्तरविहितस्य। अत्र तु प्रकरणेऽडाटावेव विहितौ, अतस्तयोरेव प्रतिषेधः। `मा भवान्? कार्षीत्` इति। `माङि लुङ`, 3|3|175 इति लुङः। `मा स्म करोत्` इति। `स्मोत्तरे लङः च` 3|3|176 इति लङः। `माङ्` इति ङ्कारानुबन्धवत उपादानम्--अस्मादादेशी यो माशब्दस्तस्य ग्रहणं मा भूदित्येवमर्थम्; अन्यथा `भवान्? सुखिनं मात्राकार्षींत्` इत्यत्रापि प्रतिषेधः स्यादिति केचित्। लाक्षणिकत्वादेवास्मदादेशस्याग्रहणमित्ययुक्तमेतत्। निपात एव त्वनयोऽङिन्माशब्दोऽस्ति--`मा बालिपथमन्वगाः`। `मा भवतु तस्य पापम्` इति तु यस्य प्रयोगस्तद्योगे प्रतिषेधो मा भूदित्येवमर्थं ङिद्विशिष्टस्य ग्रहणम्। योगग्रहणन्तु--योगमात्रे प्रतिषेधो यथा स्यादिति, तेन व्यवहितेऽपि भवति॥`अमाङ्योगेऽपि न भवतः` इत्यादिना माङ्योगेऽपीत्यस्यार्थमाचष्टे। अत्र च वाक्यद्वयेऽपि `बहुलं छन्दसि` इत्येतत्सम्बध्यते। `बहुलं छन्दसि` इत्येतावतैव सिद्धेऽमाङ्योगेऽपीति वचनं विस्पष्टार्थम्। अनुच्यमाने ह्रेस्मिन्? माङ्योगसय प्रकृतत्वात्? तत्रैव छन्दसि बहुलमडाटौ न भवत इत्याशंक्येत। `जनिष्ठाः` इति। जनेर्लुङ्, थास, इट्, षत्वम्? ष्टुत्वञ्च। `ऊनयीत्, अर्दयीत्` इति। `ऊन परिहाणे` (धातुपाठः-1888) `अद्र्द हिंसायाम्` (धातुपाठः-1828) चुरादी। `ह्रन्तक्षण` 7|2|5 इत्यादिना वृद्धिप्रतिषेधः। `इट ईटि` 8|2|28 इति सिचो लोपः, गुणायादेशौ। `अवाप्सुः` इति। `आप्लु व्याप्तौ` (धातुपाठः-1260) अवपूर्वः। `सिजभ्यस्तविदिभ्यश्च` 3|4|109 इति झेर्जुसादेशः। `मा अभित्थाः` इति। भिदेस्थास्, `झलो झलि` 8|2|26 इति सिचो लोपः। `माऽ‌ऽवः` इति। पूर्वमेव व्युत्पादितम्॥
यद्ययमनन्तरस्याट एव प्रतिषेधः स्यात्, तत्संयुक्तमेव प्रतिषेधं कुर्यात् - आडजादीनाममाङ्योगे इति, असंयुच्य तु प्रतिषेधात्सर्वस्य प्राकरणिकस्य प्रतिषेधा विज्ञायत इत्याह - लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवतीति । तत्र लुङ् उदाहरणं न प्रदर्शितम् माङ्योगे तदासम्भवत् । ङिद्विशिष्टस्योपादानम् - असम्दादेशो यो माशब्दः त्वोमौ द्वितीयायः इति तद्योगे प्रतिषेधो मा भूत् - सुखिनं मा अकार्षीदिति । अथ कथम् - मा बालिपथमन्वगाः ॥ स्वच्छन्दमनुवर्तन्ते न शास्त्रमृषयः किल ॥
सिद्धान्तकौमुदी
अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥
महाभाष्यम्
न माङ्योगे (3072) (अडाट्प्रतिषेधाधिकरणम्) (प्रतिषेधप्रतियोगिजिज्ञासाभाष्यम्) कस्यां प्रतिषेधः ? आटः प्राप्नोति ।। अटोऽपि त्विष्यते । तत्तर्ह्यटो ग्रहणं कर्तव्यम् ।। (अट्साधकभाष्यम्) न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति ।। (अडनुवर्तनाक्षेपभाष्यम्) यदि तदनुवर्तते, आडजादीनाम् (72) अट् चेत्यडपि प्राप्नोति ।। (समाधानभाष्यम्) अस्तु, अटि कृते पुनराट् भविष्यति ।। (प्रत्याक्षेपभाष्यम्) इहापि अटि कृते पुनराट् प्राप्नोति ‐ -अकार्षीत्, अहार्षीत् ।। (प्रत्याक्षेपसमाधानभाष्यम्) अड्वचनान्न भविष्यति ।। (पुनः प्रत्याक्षेपभाष्यम्) इहापि तर्हि अड्वचनान्न स्यात् ‐ -ऐहिष्ट, ऐक्षिष्ट ।। (समाधानभाष्यम्) आड्वचनाद्भविष्यति ।। (आक्षेपभाष्यम्) इहापि तर्हि आड्वचनात् प्राप्नोति ‐ -अकार्षीत्, अहार्षीत् ।। (समाधानभाष्यम्) अकृतेऽटि योऽजादिरित्येवमेतद्विज्ञास्यते । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? अड्वचनसार्मथ्यात् । यदि हि कृतेऽटि योऽजादिस्तत्र स्यात्, अड्वचनमनर्थकं स्यात् ।। (प्रकारान्तरेण समाधानभाष्यम्) अथवा ‐ -उपदेश इति वर्तते । अथवा ‐ -आर्धधातुक इति वर्तते । अथवा ‐ -लुङ्लङिति द्विलकारको निर्देशः । लुङादिषु लकारादिषु योऽजादिरिति ।। (समाधानाक्षेपभाष्यम्) सर्वथा ‐ -ऐज्यत ‐ -औप्यत इति न सिध्यति । एवं तर्हि ‐ - (समाधाने श्लोकवार्तिकम्) अजादीनामटा सिद्धम् अजादीनामटैव सिद्धं नार्थ आटा ।। (वार्तिकाक्षेपभाष्यम्) एवं तर्हि वृद्ध्यर्थमाट् वक्तव्यः ।। (समाधाने श्लोकवार्तिकम्) वृद्ध्यर्थमिति चेदटः । अटो वृद्धिं वक्ष्यामि ।। (वार्तिकावतरणभाष्यम्) यदि तर्ह्यटो वृद्धिरित्युच्यते ‐ - (समाधानाक्षेपे श्लोकवार्तिकम्) अस्वपो हसतीत्यत्र अस्वपो हसतीत्यत्रापि रोरुत्वे कृते वृद्धिः प्राप्नोति ।। (समाधाने श्लोकवार्तिकम्) धातौ वृद्धिमटः स्मरेत् ।। धातावटो वृद्धिं वक्ष्यामि ।। तत्तर्हि धातुग्रहणं कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते ‐ -अटः, अचि वृद्धिर्भवति । ततः ‐ -उपसर्गादृति ‐ - वृद्धिर्भवति । ततः ‐ -धातौ इत्युभयोः शेषः ।। (वार्तिकावतरणभाष्यम्) इह तर्हि ‐ -आटीत्, आशीत् ‐ -अतो गुणे 6|1|97 इति पररूपं प्राप्नोति ।। (समाधाने श्लोकवार्तिकम्) पररूपं गुणे नाटः आटो नेति वक्ष्यामि । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् ।। (प्रकारान्तरेण समाधानश्लोकवार्तिकम् ।।) ओमाङोरुसि तत्समम् । यद्यप्येतदुच्यते, अथ वै तर्हि उस्योमङ्क्ष्वाटः प्रतिषेधश्चोदितः, स न वक्तव्यो भवति ।। (आक्षेपभाष्यम्) छन्दोऽर्थं तर्ह्याट् वक्तव्यः ‐ -आरैगु कृष्णा, त्रित एवमायुनक्, ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः ।। (समाधाने श्लोकवार्तिकम्) छन्दोऽर्थं बहुलं दीर्घः छन्दसि दीर्घो बहुलं दृश्यते । तद्यथा ‐ -पूरुषः, नारक इति ।। (आक्षेपभाष्यम्) एवं तर्हि ‐ -आयन्, आसन् ‐ -इणस्त्योर्यण्लोपयोः कृतयोरनजादित्वाद्वृद्धिर्न प्राप्नोति ।। (समाधाने श्लोकवार्तिकम्) इणस्त्योरन्तरङ्गतः ।। अन्तरङ्गत्वात् वृद्धिर्भविष्यति । तस्मान्नार्थ आट्ग्रहणेन ।। (संग्रहः) अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । अस्वपो हसतीत्यत्र धातौ वृद्धिमटः स्मरेत् ।। 1 ।। पररूपं गुणे नाट ओमाङोरुसि तत्समम् । छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ।। 2 ।।