Page loading... Please wait.
6|4|64 - आतो लोप इटि च
॥ तस्मै पाणिनये नमः ॥
6|4|64
SK 2372
आतो लोप इटि च  
सूत्रच्छेदः
आतः (षष्ठ्येकवचनम्) , लोप (प्रथमैकवचनम्) , इटि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 आर्धधातुके  6|4|46
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इट्यजादावार्धधातुके क्ङिति च आकारान्तस्य अङ्गस्य लोपो भवति। इटि पपिथ। तस्थिथ। किति पपतुः। पपुः। तस्थतुः। तस्थुः। गोदः। कम्बलदः। ङिति प्रदा। प्रधा। आर्धधातुके इत्येव, यान्ति। वान्ति। व्यत्यरे। व्यत्यले। रातेर् लातेश्च लङि इटि रूपम्। अचि इत्येव, ग्लायते। दासीय।
`इटजादावार्धधातुके क्ङिति च` इति। `अजादावार्धधातुके` इति प्रत्येकमभिसम्बध्यते--इटजादावार्धधातुके, क्ङिति चाजादावार्धधातुक इति। इङ्ग्रहणमक्ङिदर्थम्। `पपिथ` इति। पातेः विबतेर्वा लिट्, सिप्, `परस्मैपदानाम्` 3|4|82 इत्यादिना तस्य थल्? `ऋतो भारद्वाजस्य` 7|2|63 इति नियमादिट्। `गोदः` इति। `आतोऽनुपसर्गे कः` 3|2|3 । `व्यत्यरे, व्यत्यले` ति। `कत्र्तरि कर्मव्यतीहारे` 1|3|14 इत्यात्मनेपदम्? उत्तमपुरुषैकवचनम्--इट्, तस्य `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वम्। तत्रार्धधातुकत्वं नास्तीति न भवति लोपः। `ग्लायते` इति। भावे लकारः। `दासीय` इति। आशिषि लिङः, आत्मनेपदोत्तमैकवचनम्, तस्य `इटोऽत्` 3|4|106 इत्यदादेशः। अत्र सीयुटस्तद्भक्तत्वादिटोजादित्वं नास्तीति सत्यपयार्धधातुकाजादीत्वे लोपाभावः॥
इह अचि क्ङिति, आर्द्धधातुके इति त्रयाणं प्रकृत्वाद्विशेषणविशेष्यभावे च कामचारातेषामन्यतमेनानुभूतान्यतरविशेषणेन, अनुभूतोभयविशेषणेन, अननुभूतविशेषणेन वा इटः समुच्चयसम्भावद् द्वादश पक्षाः सम्भवन्ति । तत्र यदि तावद्विशेषणसम्बन्धात् प्रगेवाचा इटः समुच्चयः, अङ्गाक्षिप्तश्च प्रत्ययो वा विशेष्यते, इट।ल्जादौ च प्रत्यये इति विज्ञायते, तदेड्ग्रहणमनजाद्यर्यं भवति अजादेरिटोऽजादिना प्रत्ययेन समुच्चयासम्भवात् । तदा च ङ्दार्धिधातुकेअजादेरेव विशेषणे व्यवतिष्ठेते, नेटः हलादेरिटः क्ङ्त्वासिम्भावत्, आर्धधातुकत्वाद्, व्यभिचाराच्च । ततश्च दासीयेत्यादौ लोपप्रसङ्गः । अथ किद्विशिब्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोप्रसङ्गः । अथ किद्विशिष्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोऽर्क्ङ्थिमनजाद्यर्थं चेड्ग्रहणं भवति - पपिथ, दासीयेति, अथार्द्धधातुकविशिष्टेनाचा समुच्चयः, ततोऽक्ङिदर्थमनजाद्यर्थमनार्धातुकार्थं चेडग्रहणम् - पपिथ, दासीय, व्यत्यरे - इतीण्मात्रे लोपप्रसङ्गः, तदेवमचा समुच्चये चत्वारः पक्षाः । एवमार्धधातुकेन एवं क्ङ्तेइति द्वादश पक्षाः । तयोरप्युफयविशिष्टयोस्त एव दोषाः, यांस्त्ववोचाम । अथविशेषितेनार्धधातुकेन समुच्चयस्तदा नार्धधातुकार्थमिडग्रहणमिति व्यत्यरे इत्यत्रैव प्रसङ्गः अथ क्ङिद्विशिष्टेनार्धधातुकेन समुच्चयस्तदाऽक्ङिदर्थमनार्धधातुकार्थमिड्ग्रहणम् - पपिथ, व्यत्यरे अथाज्विशिष्टेनाधधातुकेन समुच्चयः, अनजाद्यर्थमनार्धधातुकार्थं चेड्ग्रहणम् - दासीय, व्यत्यरे अथाज्विशिष्टेन क्ङ्ता सिमुच्चयः, ततोऽनजाद्यर्थमाक्डिदर्थं चेड्ग्रहणम् - दासीय, पपिथ । अथार्धधातुकविशिष्टेन किङ्ता समुच्चयः, तदानार्धधातुकार्थमक्ङिदर्थं चेड्ग्रहणम् - व्यत्यरे, पपिथ । तदेवमेकादशपक्षा दुष्टाः । द्वादशः पक्षः शिष्यते - अविशिष्टेन क्ङ्ता सिमुच्चय इति, अत्र च पक्षे अच्यार्धधातुके इति विशेषणद्वयमविशेषाद् द्वावपि क्ङिदिटावुपनिपततीति अक्ङिदर्थमेवड्ग्रहणं भवति । तेन पपिथेत्यादावाल्लोपो भवति दासीय, व्यत्यरे - एइत्यनजादावनार्धधातुके च न भवति । स एष निर्दोषः पक्ष, तमिममाश्रयति - इट।ल्जादावार्धधातुक इति । क्ङिति चेति । अजादावार्धधातुके इत्यनुषङ्गः । दासीयेति । आशिषि लिङ्, उतमैकवचनमिट, इटोऽन् । अत्र सीयुट इड्भक्तत्वादिटोऽजादित्वाभावः ॥
सिद्धान्तकौमुदी
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि (कौमुदी-2243) इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥
आतो लोप इटि च - दधा — अतुसिति स्थिते — आतो लोपः । "आद्र्धदातुके" इत्यधिकृतम् ।दीङो यु॑डित्यतोऽचि क्ङितीति चानुवर्तते । अचीत्याद्र्धधातुकविशेषणत्वात्तदादिविधिः । क्ङिति अजाद्याद्र्धधातुके इटि च आतो लोप इति लभ्यते । फलितमाह — अजाद्योरिति । इट आद्र्धधातुकत्वं तु तदवयवत्वाद्बोद्ध्यम् । क्ङितीति च इटो न विशेषणम्, इड्ग्रहणसामथ्र्यात् । इडित्यनेन उत्तमपुरुषैकवचनम्, इडागमश्च गृह्रते । अजाद्योः किम् । ग्लैधातोः कर्मणि लटि यकि — ग्लायते । आद्र्धधातुकयोः किम् । यान्ति वान्ति । दधौ इत्यत्र तु क्ङित्त्वाऽभावान्नाल्लोपः । सति तस्मिन् औत्वं न स्यात् । ननु धा — अतुसिति स्थिते द्वित्वात्पर्तवादाल्लोपे सति एकाच्त्वाऽभावाद्द्वित्वं न स्यादित्याशङ्क्य परहरति — द्वित्वादित्यादिना । धेट्धातुरनिट् । भारद्वाजनियमात्थलि वेडित्याह — दधिथ दधाथेति । इट्पक्षे आल्लोपः । दधथुः । दध । दधौ इति सिद्धवत्कृत्याह — दधिवेति । वसि आत्त्वे क्रादिनियमादिटि आल्लोप इति भावः । एवं दधिमेत्यपि ज्ञेयम् । धातेति । लुटि आत्त्वे तासादीति भावः । धास्यति । धयतु । अधयत् । धयेत् ।
आतो लोप इटि च - आद्र्धधातुक इत्यनुवर्तते ।दीङो युडचि क्ङिती॑त्यतोऽचि क्ङितीति च । तदेतत्फलितमाह — -अजाद्योराद्र्धधातुकयोरिति । अजाद्योः किम् । ग्लायते । यक् — जाग्लायते । यङ् — दासीय । डुदाञो लिङुत्तमैकवचनमिट् । आद्र्धधातुकयोः किम् । यान्ति । वान्ति । व्यतिरे । कर्मव्यतिहारे रा दाने धातोर्लङुत्तमैकवचनमिट् । [व्यतिरै । लट इट्] दधिश्चेति । एवं च अजाद्याद्र्धधातुकस्य कित्त्वेन दधिव दधिमेत्यादिष्वातो लोपसिद्धावपि दधिथ पपिथेत्यादि रूपसिद्धये सूत्रेऽस्मिन्निटीति ग्रहणमावश्यकमिति ज्ञेयम् । यदि तु इडागम एवात्र गृह्रते व्याख्यानात्तदाऽचि क्ङितीत्येतदाद्र्धधातुकस्यैव विशेषणं , न तूभयोः ।
लघुसिद्धान्तकौमुदी
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥
महाभाष्यम्
आतो लोप इटि च (3062) (लोपाधिकरणम्) (इट्ग्रहणाक्षेपभाष्यम्) इड्ग्रहणं किमर्थम् ? (6564 इट्ग्रहणप्रयोजनवार्तिकम् ।। 1 ।।) - इट्ग्रहणमक्ङिदर्थम् - इट्ग्रहणं क्रियते, अक्ङिति लोपो यथा स्यात् । पपिथ, तस्थिथेति ।। (उपसंख्यानभाष्यम्) सार्वधातुके चादीत्यार्धधातुकाधिकारादुपसंख्यानं कर्तव्यम् । इषमूर्जमहमित आदीति ।। (उपसंख्यानसमर्थकभाष्यम्) ननु च यथैव क्ङिति इति वर्तमाने इट्ग्रहणमक्ङिदर्थम्, एवं आर्धधातुके इत्यपि वर्तमाने इट्ग्रहणं सार्वधातुकार्थं भविष्यति । न सिध्यति । किं कारणम् ? नहि क्ङिता अज् विशेष्यते ‐ -अचि भवति, कतरस्मिन् ? अचीति । किं पुनः कारणमचा क्ङिद्विशेष्यते ? यथा इडप्यज्ग्रहणेन विशेष्येत । अस्ति चेदानीं क्वचिदिडनजादिः, यदर्थो विधिः स्यात् । अस्तीत्याह । दासीय, धासीय ‐ -इति ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि उपसंख्यानं कर्तव्यम् ? न कर्तव्यम् । आर्धधातुकत्वात् सिद्धम् । कथमार्धधातुकत्वम् ? उभयथा छन्दसीति वचनात् । अन्येऽपि हि धातुप्रत्यया उभयथा छन्दसि दृश्यन्ते ।।