Page loading... Please wait.
6|4|41 - विड्वनोरनुनासिकस्यात्‌
॥ तस्मै पाणिनये नमः ॥
6|4|41
SK 2982
विड्वनोरनुनासिकस्यात्‌   🔊
सूत्रच्छेदः
विट्-वनोः (सप्तमीद्विवचनम्) , अनुनासिकस्य (षष्ठ्येकवचनम्) , आत् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति। अब्जा गोजा ऋतजा अद्रिजा। गोषा इन्दो नृषा असि। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृ̄णाम्। जनसनखनक्रमगमो विट् 3|2|67 इति विट् प्रत्ययः। सनोतेरनः 8|3|108 इति षत्वम् गोषा इन्दो नृषा असि इत्यत्र। वन विजावा। अग्रेजावा। अन्येभ्यो ऽपि दृश्यन्ते 4|3|75 इति वनिप् प्रत्ययः। अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणम् अनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनाम् एव स्यात्।
`अब्जाः` इति। अप्सु जायत इत्युपपदसमासः, पकारस्य जश्त्वम्--बकारः। `गोषा` इति। `षणु दाने` (धातुपाठः-1464) `विजवा` इति। `जन जनने` (धातुपाठः-1105), `जनी प्रादुर्भावे` (धातुपाठः-1149) इति वा। `अग्रेगाव` [`अग्रेजावा` इति काशिका पाठः] इति। `तत्पुरुषे कृति बहुलम्` 6|3|13 इति सप्तम्या अलुक्। अथानुनासिकग्रहणं किमर्थम्, यावतानुदात्तोपदेशेत्यादेः 6|4|37 सूत्रादनुनासिकगरहणमनुवर्तत एव? इत्याह--`अनुनासकस्येति वर्तमाने`--इत्यादि। तद्धि प्रकृतमनुनासिकग्रहणमनुदात्तोपदेशग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्माददमन्यदनुनासिकग्रहणं क्रियते--अनुनासिकमात्रस्य यथा स्यात्। अथेह दीर्घोच्चारणं किमर्थम्? ह्यस्व एवोच्येत, ह्यस्वेऽपि कृते सत्यकः सवर्णे दीर्घत्वेन सिद्ध्यत्येव; `अतो गुणे` 6|1|94 पररूपत्त्वं प्राप्नोति, अतो न सिद्धयतीत्येतन्नाशङ्कनीयम्, अकारविधानसामथ्र्यात्; यदि हि `अतो गुणे` पररूपत्वं स्यात्, तदा प्रकृतं लोपग्रहणमेव विदध्यात्? ततो ह्यस्व एव कर्तर्व्यः। नैतदस्ति; ह्यत्वे हि सति `घुण धूर्णने` (धातुपाठः-437) [`भ्रमणे`--धातुपाठः-] इत्यस्माद्वनिपि विहिते `ध्वावा` इति न सिद्ध्येत्? ततो दीर्घस्यैव विधानं युक्तम्॥
अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ॥
सिद्धान्तकौमुदी
अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥
विड्वनोरनुनासिकस्यात् - विड्वनोरनुनासिकस्याऽ‌ऽत् । विड्वनोरिति सप्तमी । अनुनासिकस्य — आदिति छेदः । विजावेति । जनेर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति । ओणेर्वनिप् । णकारस्य आकारः । अवादेशः । विजिति । "उदाह्यियते" इति शेषः । रोट् रेडिति ।रुष, रिष हिंसायाम् विच् ।वेरपृक्तस्ये॑ति वलोपः । सुगण्णिति । गमएर्विच् ।
विड्वनोरनुनासिकस्यात् - अवावेति । अनुनासिकस्य आत्वे अवादेशः । सौ दीर्घनलोपौ । रोट् रेडिति । रुष रिष हिंसायाम् । उपधागुणः । जश्त्वचर्त्वे ।
लघुसिद्धान्तकौमुदी
अनुनासिकस्याऽत्स्यात्। विजायत इति विजावा॥ ओणृ अपनयने॥ अवावा। विच्॥ रुष रिष हिंसायाम्॥ रोट्। रेट्। सुगण्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.