Page loading... Please wait.
6|4|34 - शास इदङ्हलोः
॥ तस्मै पाणिनये नमः ॥
6|4|34
SK 2486
शास इदङ्हलोः  
सूत्रच्छेदः
शासः (षष्ठ्येकवचनम्) , इत् (प्रथमैकवचनम्) , अङ्-हलोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। हलादौ कितिशिष्टः। शिष्टवान्। ङिति आवां शिष्वः। वयं शिष्मः। इत्त्वे कृते शासिवसिघसीनां च 8|3|60 इति षत्वम्। अङ्हलोः इति किम्? शासति। शशासतुः। शशासुः। क्वौ च शास इत्त्वं भवति इति वक्तव्यम्। आर्यान् शास्ति इति आर्यशीः। मित्रशीः। यस्मात् शासेः अङ् विहितः शासु अनुशिष्टौ इति, तस्य एव इदं ग्रहणम् इष्यते। आङः शासु इच्छायाम् इति अस्य न भवति। आशास्ते। आशास्यमानः। क्विप्प्रत्यये तु तस्य अपि भवति इति वक्तव्यम्। आशीः, आशिषौ, आशिषः। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् 8|2|104 इति निपातनाद् वा सिद्धम्।
`अन्वशिषत्` इति। `सर्त्तिशास्त्यर्तिभ्यश्च` 3|1|56 इति च्लेरङादेशः `शिष्वः, शिष्मः` इति। वस्मसोरुदाहरणे, अदादित्वाच्छपो लुक्। `शासति` इति। `जक्षित्यादयः षट्` 6|1|6 इत्यभ्यस्तसंज्ञा, `अदभ्यस्तात्` 7|1|4 इति झेरदादेशः। `शशासतुः, शशासुः` इति। लिटतुस्युसि रूपे। `क्वौ च शासः` इति। क्वौ परतः शासेरित्त्वं भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्--यद्यपि कृताकृतप्रसङ्गित्वेन नित्यत्वादत्र पूर्वमित्त्वात्? क्विब्लोपस्य विधानम्, तथापि लुप्तेऽपि तस्मिन्? प्रत्ययलक्षणेनात्रेत्त्वं भविष्यति। `वर्णाश्रये प्रत्ययलक्षणं नास्ति` (व्या।प।96) इत्येतत्तु प्रायिकम्। तथा हि--वर्णश्रयेऽपि क्वचिद्भवति। तद्यथा--`अतृणेट्` इति। अत्र `तृ ह इम्` 7|3|92 इतीमागमः। अथ वा वर्णाश्रयमेवेदमित्त्वं न भवति। कथम्? अङ्गग्रहणेनात्र प्रत्ययः सन्निधापितः। स हल्ग्रहणेन विशिष्यते। अत एव वृत्तावुक्तम्--`हलादौ क्ङिति` इति। तेन यद्यपि क्विब्? वर्णात्मकः प्रत्ययः, तथापि नासौ वर्णरूपत्वेनाश्रीयते, किं तर्हि? प्रत्ययरूपत्वेन।`आर्यशीः` इति। सकारस्य रुत्वे कृते `र्वोरुपधाया दीर्घः` 8|2|76 इति दीर्घः।अथ `आशास्ते, आशास्यमानः` इत्यत्र कथमित्त्वं न भवति? इत्याह--`यस्माच्छासेः` इत्यादि द्वाविमौ शासी--एकः परस्मैपदी, अपरस्त्वात्मनेपदी, तत्र यस्मात्? शासेरङ् विहितं तस्येवं ग्रहणम्। स च `शासु अनुशिष्टौ` (धातुपाठः-1075) इत्यस्य `सत्तिशास्त्यर्त्तिभ्यश्च` 3|1|56 इति विधीयते, तत्र `परस्मैपदेषु` 3|1|55 इत्यनुवर्तते, अस्यैव परस्मैपदे सम्भवात्। कथं पुनः सामान्येनोपादाने परस्मैपदिन एव विज्ञायते? अङः संसर्गात्। संसर्गे हि सति विशेषपरिच्छेदो भवति, तथा हि--`सकिशोरा धेनुरानीयताम्` इत्युक्ते किशोरेण संसर्गाद्? वडवायामेव सम्प्रत्ययो भवति। इह शासेरित्त्वं प्रत्यङ निमित्तत्वेनोपात्तः, अतस्तेन संसर्गाद्? विशिष्ठ एव परस्मैपदी शासिः प्रतीयते। ननु चाङेवात्र केवलो निमित्तत्वेन नोपात्तः, किं तर्हि? हलपि, स चात्मनेपदिनोऽपि सम्भवति, तत्? कुतोऽङ्संसर्गाद्? विशिष्टस्य शासेः प्रतीति? नैतदस्ति; साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सन्निहितः सम्बन्धी तत्रैव प्रत्ययो जायते। तथा हि `वृद्धानां किशोरणाञ्च मध्ये धेनवोऽनुबध्यन्ताम्` इत्युक्ते बडवा एव प्रतीयन्ते। तस्मादङहलोरुपदानेऽपि यस्मादङ विहितस्तस्यैव ग्रहणं युक्तम्।यदि तर्हि यतोऽङ विहितस्तस्येदं ग्रहणम्, एवं सति यथाशास्ते, आशास्यमान इत्यत्र न भवति, तथा क्विप्प्रत्ययेऽपि न स्यात्? इत्यत आह--`क्विप्प्रत्यये ति` इत्यादि। `क्षियासीः` इत्यादि। अथ वा नैव तस्या ह्रपि क्विष्प्रत्यय इत्येवं वक्तव्यमिति। विक्लपर्थो वाशब्दः। अथ तशब्दः किमर्थः, आन्तरतम्याद्दीर्घो मा भूदिति चेत्? नैतदस्ति; `भाव्यमानोऽण्? सवर्णान्न गृह्णाति` (व्या।प।35) इति न भविष्यति? एवं तर्हि विस्पष्टार्थः। अथासन्देहार्थः कस्मान्न भवति? `शास यङङलोः` इत्युच्यमाने सन्देहः स्यात्--किमयमिकारः कृतयणादेशो निर्दिष्टः? आहोस्विदीकारः? अथ वा यकार इति? नास्ति सन्देहः, यदयम्? `तदशिष्यं संज्ञाप्रमाणत्वात्` 1|2|53 इति निर्देशं करोति, ततो निश्चीयते--इकारोयम्, न हीकारः, नापि यकार इति॥
अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणातदादिविधिरित्याह - हलादौ च क्ङितीति । क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमितत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यतु वर्णविशिष्टप्रत्ययनिमितं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः । अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमितम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते । एतस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां च इति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यम् आशिषिलिङ्लोटौ इत्यादिनिर्देशात् ॥
सिद्धान्तकौमुदी
शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-(कौमुदी-2410) इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥
शास इदङ्हलोः - शास इदङ्हलोः । "अनिदितां हलः" इत्यत उपधायाः क्ङिति इत्यनुवर्तते । तदा — शास उपधाया इति । शासतीति । जक्षादित्वेन अभ्यस्तत्वाददादेश इति भावः । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । "आशास्ते" इत्यत्र तु नेत्त्वम्, अडओग्यस्य परस्मैपदिन एव ग्रहणादिति भाष्ये स्पष्टम् । शशासेति । शशासिथ । शासिता । शासिष्यति । शास् हि इति स्थिते आह — -
शास इदङ्हलोः - शास इदङ्हलोः । अङि अशिषत् । क्ङिति — शिष्टः । शिष्टवान् । शिष्यात् । शिष्यास्ताम् । अङ्साहचर्यात्परस्मैपद एवेत्वम् । नेह — - आशास्ते । अन्ये तु यस्माच्छासेरङ् संभवति तस्यैवेत्वमिति व्याख्याय व्यतिशिष्टे व्यतिशिढ्वे इत्यात्मनेपदेऽपि इत्वं स्वीकुर्वन्ति ।
लघुसिद्धान्तकौमुदी
शास उपधाया इत्स्यादङि हलादौ क्ङिति। शिष्यः। वृत्यः। आदृत्यः। जुष्यः॥
महाभाष्यम्
शास इदङ्हलोः (3032) (6539 उपसंख्यानवार्तिकम् ।। 1 ।।) - शास इत्त्वे आशासः क्वावुपसंख्यानम् - शास इत्त्वे आशासः क्वावुपसंख्यानं कर्तव्यम् । आशीरिति ।। (नियमार्थत्वोपपादकभाष्यम्) किं पुनरिदं नियमार्थम्, आहोस्विद्विध्यर्थम् ? कथं नियमार्थं स्यात्, कथं वा विध्यर्थम् ? यदि तावच्छासिमात्रस्य ग्रहणम्, ततो नियमार्थम् । अथ हि यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, ततो विध्यर्थम् ।। (नियमासम्भवदर्शकं भाष्यम्) यद्यपि शासिमात्रग्रहणम्, एवमपि विध्यर्थमेव । कथम् ? । अङि हलादावुच्यते, न चात्र हलादिं पश्यामः । ननु च क्विबेव हलादिः । क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । इदमिह सम्प्रधार्यम् ‐ -क्विलोपः क्रियताम्, अङ्हलोरित्त्वमिति । किमत्र कर्तव्यम् ? परत्वादङ्हलोरित्त्वम् । नित्यः क्विलोपः, कृतेऽप्यङ्हलोरित्त्वे प्राप्नोत्यकृतेऽपि । नित्यत्वात् क्विपो लोपे कृते हलाद्यभावान्न प्राप्नोति । एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ।। (नियामकत्वोपपादकभाष्यम्) यदि वा कानि चिद्वर्णाश्रयाण्यपि लक्षणेन भवन्ति, तथा चेदमपि भविष्यति । अथवैवं वक्ष्यामि ‐ - शास इदङ्हलोः । ततः ‐ - क्वौ । क्वौ च शास इद्भवति । आर्यशीः, मित्रशीः । ततः ‐ आङः । आङ्पूर्वाच्च क्वौ शास इद्भवति । आशीरिति । इदमिदानीं किमर्थम् ? नियमार्थम् । आङ्पूर्वाच्छासेः क्वावेव । क्व मा भूत् ? आशास्ते, आशास्यते, आशास्यमाने ‐ -इति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । अविशेषेण शास इद्भवतीत्युक्त्वा ततोऽङीति वक्ष्यामि । तन्नियमार्थं भविष्यति ‐ -अङ्येवाजादौ, नान्यस्मिन्नजादौ ।। (अनिष्टाक्षेपभाष्यम्) इहापि तर्हि नियमादित्वं प्राप्नोति ‐ -आशास्ते, आशास्यते, आशास्यमान इति ।। (समाधानभाष्यम्) यस्माच्छासेरङि्वहितस्तस्य ग्रहणम्, न चैतस्माच्छासेरङि्वहितः । कथमाशीरिति ? निपातनात्सिद्धम् । किं निपातनम् ? क्षियाशीः प्रैषेषु तिङाकाङ्क्षम् 8|2|104 इति ।।