रिउआव्यविमवां वकारसय पूर्णेणैव सिद्धम्। उपधायास्तु न सिध्यतीति तदर्थमेषां ग्रहणम्। ज्वरत्वरयोस्तु वकारस्यापि पूर्वेण न सिध्यति; अनयोरकाररेफाभ्यां झलादेः क्विपश्च व्यवधानात्। तस्मात्? तयोर्वकारार्थमुपधार्थञ्च ग्रहणम्। `जूः, जुरौ, जुरः` इति। `ज्वर रोगे` (धातुपाठः-776) वकारस्योपधायाश्चोठि कृते `सम्प्रसारणाच्च`
6|1|104 इति पूर्वरूपत्वम्। `जर्त्तिः` इति। क्तिन्। `तूः` इति। `ञि त्वरा सम्भ्रमे` (धातुपाठः-775) `तूर्णः`[`तूर्त्तिः--काशिका-`तूर्णः` इति नास्ति] इति। `रदाब्यां निष्ठातो नः`
8|2|42 इति नत्वम्। `स्रूः इति। `रिउआवुगतिशोषणयोः` (धातुपाठः-1109)। सवरणदीर्घः। `रुआउवौ, रुआउवः` इति। `अचि श्नुधातु`
6|4|77 इत्यादिनोवङ। `ऊः` इति। `अव रक्षणे` [रक्षण कान्तिप्रीतितृपत्यवगमप्रवेशश्रवणस्वणस्वम्यर्थयाचनक्रियेच्छादीप्त्यवापत्यालिङ्गनहिंसादानभागवृद्धिषु--धा।पा] (धातुपाठः-600)। `मूः` इति। `मव बन्धने` (धातुपाठः-599)।इह ज्वरादिसम्बन्धिन्या उपदाया ऊङ्विधीयते, उपधा चालोऽन्त्यात्पूर्वो वर्णः, अन्त्यत्वञ्चापेक्षितम्; तत्र यथा--श्रेयान्, श्रेयांसावित्यत्र सकारात्? पूर्वे ये वर्णास्तेषामन्त्यो यो नकारस्तस्मात्? पूर्वो वर्ण उपदा, तथा ज्वरादीनामपि यो पूर्वौ वर्णौ तयोर्योऽन्त्यो वर्णस्तस्मात्? पूर्व उपधा, सा च ज्वरादीनां सम्बन्धिनी; तदवयवत्वात्, ततश्च तस्या अप्युपदाया ऊठा भवितव्यमिति कस्याचित्? भ्रान्तिः स्यात्। अतस्तां निराकर्तुं यस्या उपदाया ऊठा भवितव्यं तां दर्शयितुमाह--`ज्वरत्वरयोरुपधा वकारात्परा` इत्यादि। यस्या उपधाया ऊठा भवितव्यम्, सोहोपधाशब्देन विवक्षिता। किं पुनः कारणस्या वृत्तिकारोपदर्शिताया उपधाया ऊङ्भवति, नान्यस्याः? क्वझल्भ्यां क्ङिता चोपधाविसेषणात्। अत्र क्विप्प्रत्ययेन झलादिना क्ङिता चोपधा विशिष्यते--ज्वरादीनां योपधा क्वौ झलादौ च परतस्तस्या उपधाया ऊङ्भवतीति। अत्र `येन नाव्यवधानं तेन व्यवहितेऽपि` (व्या।प।46) इत्यादिना यत्रैकेन वर्णेन व्यवधानं वृत्तिकारेणोक्ताया उपदायाः सम्भवति, तस्या एवोङ्भवति,