Page loading... Please wait.
6|4|2 - हलः
॥ तस्मै पाणिनये नमः ॥
6|4|2
SK 2559
हलः  
सूत्रच्छेदः
हलः (पञ्चम्येकवचनम्)
अनुवृत्तिः
दीर्घः  6|3|111 (प्रथमैकवचनम्) , सम्प्रसारणस्य  6|3|139 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
हलः सम्प्रसारणस्य अङ्गस्य दीर्घः
सूत्रार्थः
हल्-वर्णात् परः यदि सम्प्रसारण-निर्मितः वर्णः तस्मिन्नेव अङ्गे आगच्छति, तर्हि तदन्तस्य अङ्गस्य दीर्घः भवति ।
सम्प्रसारणम् इत्युक्ते यण्-वर्णस्य इक्-वर्णे परिवर्तनम् । इग्यणः सम्प्रसारणम् 1|1|45 अनेन सूत्रेण यकारस्य इकारः, वकारस्य उकारः, ऋकारस्य रेफः, ऌकारस्य च लकारः यः विधीयते, तदेव सम्प्रसारणम् । एतादृशः सम्प्रसारणनिर्मितः इक्-वर्णः यदि हल्-वर्णात् परः आगच्छति, तर्हि तदन्तस्य अङ्गस्य दीर्घादेशः भवति । इत्युक्ते, अङ्गान्ते विद्यमानस्य तस्य इक्-वर्णस्य दीर्घः भवति ।

यथा - ग्रहिज्यावयिव्यधि... 6|1|16 अनेन सूत्रेण ग्रह्, ज्या, वय्, ... एतेषां धातूनाम् कित्-प्रत्यये परे सम्प्रसारणम् भवति । अतः "ज्या (वयोहानौ)" अस्य धातोः क्त-प्रत्यये परे यकारस्य सम्प्रसारणम् इकारः भूत्वा "जि + त" इति जायते । अत्र जकारः हल्-वर्णः अस्ति, अस्मात् परः इकारः सम्प्रसारणेन निर्मितः अस्ति, सः च अङ्गस्य अन्ते अपि वर्तते । अतः वर्तमानसूत्रेण अत्र इकारस्य दीर्घादेशः ईकारः जायते । अग्रे तकारस्य ल्वादिभ्यः 8|2|44 अनेन सूत्रेण नकारे कृते "जीनः" इति अन्तिमरूपं सिद्ध्यति ।

तथैव, ह्वेञ् (स्पर्धायां शब्दे च) अस्मात् धातोः क्त-प्रत्यये कृते प्रक्रिया एतादृशी भवति -
ह्वेञ् + क्त
→ ह्वा + त [आदेच उपदेशेऽशिति 6|1|45 इति एकारस्य आकारः]
→ ह् उ आ + त [वचिस्वपियजादीनां किति 6|1|15 इति वकारस्य सम्प्रसारणम् उकारः ]
→ हु + त [सम्प्रसारणात् अनन्तरम् सम्प्रसारणाच्च 6|1|108 इति उकार-आकारयोः पूर्वसवर्णः उकारः]
→ हूतः [हलः 6|4|2 इति उकारस्य दीर्घादेशः]

ज्ञातव्यम् -

1) येन विधिस्तदन्तस्य 1|1|72 अनया परिभाषया "सम्प्रसारणस्य अङ्गस्य" अस्य अर्थः "सम्प्रसारणान्तस्य अङ्गस्य" इति स्वीक्रियते ।

2) हल्-वर्णः तथा सम्प्रसारणम्, उभौ अपि अङ्गे विद्यन्ते चेदेव अयं दीर्घादेशः भवति । यदि हल्-वर्णः अङ्गभूतः नास्ति, तर्हि अयं दीर्घादेशः न दृश्यते । यथा - "निर् + वेञ्" अस्मात् धातोः क्त-प्रत्यये परे वकारस्य सम्प्रसारणे उकारे कृते "निर् + उ + त" इति प्राप्ते, अग्रे उकारस्य दीर्घादेशः न भवति । किमर्थम्? क्त-प्रत्ययस्य अङ्गम् केवलं धातुः, उपसर्गः न । इत्युक्ते, उकारात्-पूर्वः विद्यमानः हल्-वर्णः ( = रेफः) अङ्गस्य अवयवः नास्ति । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिरेव नास्ति ।

3) यदि इक्-वर्णः सम्प्रसारणनिर्मितः नास्ति तर्हि अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - जि (जये) + क्त = जित । अत्र इकारः औपदेशिकावस्थायाम् एव अस्ति, सम्प्रसारणनिर्मितः नास्ति, अत अत्र तस्य दीर्घादेशः न भवति ।

4) "तृतीय" इत्यस्य पूरणप्रत्ययान्तशब्दस्य प्रक्रियायाम् त्रेः सम्प्रसारणम् च 5|2|55 इत्यनेन "त्रि" शब्दात् "तीय" प्रत्ययः तथा च अस्मिन् प्रत्यये परे "त्रि" शब्दस्य सम्प्रसारणं कृत्वा "तृ" इति सिद्ध्यति । अत्र निर्मितः ऋकारः हल्-वर्णात् परः अस्ति, अतः वर्तमानसूत्रेण तस्यापि दीर्घादेशः भवति, यः न इष्यते । अस्य समाधानार्थम् वर्तमानसूत्रे "अण्" इत्यस्य अनुवृत्तिः स्वीकर्तव्या इति भाष्यकारः वदति । इत्युक्ते, सम्प्रसारेण निर्मितः यः अण् वर्णः (= अवर्णः / इवर्णः / उवर्णः), तस्यैव अनेन सूत्रेण दीर्घादेशः भवति, ऋकारऌकारयोः न - इति अत्र आशयः । एवं क्रियते चेत् "तृतीय" इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः एव न विद्यते । पक्षे, अस्मिन् सूत्रे "अण्" इति न स्वीकृत्य "तृतीय" इत्यत्र निपातनात् दीर्घादेशः न कर्तव्यः - इति अपि विधानम् भाष्यसम्मतम् एव ।
One-line meaning in English
The इक् letter which has been generated using सम्प्रसारणम् and which occurs at end of an अङ्ग becomes दीर्घ when there is a हल् letter which occurs just before this इक् in that अङ्ग.
काशिकावृत्तिः
अङ्गावयवाद् धलो यदुत्तरं सम्प्रसारणम् तदन्तस्य अङ्गस्य दीर्घो भवति। हूतः। जीनः। संवीतः। हलः इति किम्? उतः। उतवान्। अङ्गावयवातिति किम्? निरुतम्। तदन्तस्य इति किम्? विद्धः। विचितः। अणः इत्येव, तृतीयः। तृतीया इति वा निपातनादत्र दीर्घाभावः। अङ्गग्रहणम् आवर्तयितव्यम् हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च।
अण्ग्रहणं सम्प्रसारणग्रहणं दीर्घग्रहणञ्चैतत्? तरयमनुवत्र्तते। कुतः पुनः प्रकृतमण्ग्रहणम्? `ढ्रलोपे पूर्वस्य दीर्घोऽणः` 6|3|110 इत्यतः। ननु तत्? `इकः काशे` 6|3|122 इतीग्ग्रहणेन व्यवच्छिन्नम्, तत्? कथमिहानुवत्र्तते? नैष दोषः, इग्ग्रहणेन ह्रणेव विशिष्यते--अण्णिगित। ततो विरोधाभावन्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा--`अवाचा, स्वराचा` इत्यत्र दीर्घत्वं न स्यात्। `चौ` 6|3|137 इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्ग्रहणं तु निवृत्तमित्येषोऽपयदोषः। अथ वा--यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्, तथापीह मण्डूकप्लुतिन्यायेनानुवत्र्तते। ननु यथा `शेषे` 4|2|91 इत्येतल्लक्षणं विधिरधिकारश्च, तथा `अङ्गस्य` 6|4|1 इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं `हलः` इत्येतद्वचनम्। अतो न कत्र्तव्यमेवेति मन्यमान आह--`हल इति किम्` इति। किमर्थं `हलः` इत्येतत्? सूत्रमारभ्यत इत्यर्थ। `उतः, उतवान्` इति। असत्यस्मिन्? सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्। भवति ह्रेतदपि व्यपदेशिवद्भावेन सम्प्रसारणान्तमङ्गम्, तस्मात् `हलः` इति सूत्रं कत्र्तव्यम्। `विद्धः` विचितः` इति। `व्यध ताडने` (धातुपाठः-1181) `व्यच व्याजीकरणे` (दा।पा।1293) निष्ठा, ग्रह्रादिसूत्रेण 6|1|16 सम्प्रसारणम्। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि `विध्यत्यधनुषा` 4|4|83 `ग्रहिज्यावयिव्यधिवष्टिविचति` 6|1|16 इति निर्देशात्? हलन्तस्य यत्? सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्। `तृतीयः` इति। `द्वेस्तीयः` 5|2|53 इति `त्रेः सम्प्रसारणञ्च` 5|4|55 इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्? कस्मान्नास्त्यण्? यस्मात्? `ढ्रलोपे` पूरवस्य दीर्घोऽणः` 6|3|110 इत्यत इहाण्ग्रहणमनुवत्र्तते, तत्र च पूर्वेणैव णकारेण प्रत्याहारग्रहणम्, न च तत्र ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्। `तृतीयेति वा` इत्यादि। अथ वा `अण` इत्येतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; `कर्त्तुकरणयीस्तृतीया` 2|3|18 इति निपातनात्। `हलः` इत्येतसय त्रयोऽर्थाः सम्भाव्यन्ते, हल उत्तरस्य सम्प्रसारणान्तस्याङग्सय् दीर्घो भवति--अयमेकोऽर्थः, अङ्गवयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति--इति द्वितीयः, तृतीयस्तु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्, दुरुतमित्यत्रापि स्यात्। भवति ह्रेतदपि हल उत्तरं समप्रसारणान्तमङ्गम्। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्। अत्राप्याङ्गवयवाद्धल उत्तरं सम्प्रसारणमिति। अथ `विध्यत्यधनुषा` 4|4|83 , `ग्रहिज्यावयिव्यधिवष्टिविचति` 6|1|16 इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण द्रशितः। अत्रापि देश्यमिदमाशङ्क्यते--ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्। तच्च हलो विशेषणं वा स्यात्, अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्ट सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्? विशेषितो न स्यात्। तस्माद्द्वितीयमङ्गग्रहणं कत्र्तव्यं स्यात्। न ह्र#एकेन शक्यमेतदुभयं प्रतिपादयितुम्। अतोऽस्य देश्यस्य निरासायाऽ‌ऽवृत्तिन्यायमाश्रित्याह--`अङ्गग्रहणम्` इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्, तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्? विशिष्यते, आवृत्तेन त्वङ्गस्य दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति॥
हल इति किमिति । केनेदानीमुदाहरणेषु दीर्घसिद्धः एषं मन्यते - यथा शेषे इति लक्षणं चाधिकारश्च, तथाङ्गस्येत्येतदपि, ततश्चाभिमते विषये दीर्घो भविष्यतीति । अतिप्रसङ्ग इति तूतरम् । विद्धः, विचित इति । व्यधताडने, व्यच व्याजीकरणे, ग्रहिज्या इत्यादिना सम्प्रसारणम् । अण इत्येवेति । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यतः । न च तस्य इकः काशे इतिग्ग्रहणेन विच्छेदः । तत्र हि विरोधाभावादिग्ग्रहणेनाणेव विशेष्यते - इकोऽण इति । अथेदानीम् चौ इत्यारभ्याण इत्येवानुवर्तिष्यते, नेक इति । तृतियेति वा निपातनादिति । मा नामाण इत्येतदनुवृतत्, द्वितीयतृतीयचतुर्थेति योऽयं निर्द्देशस्तस्मादेव निपातनादनणो दीर्घत्वं न भविष्यतीत्यर्थः । नन्वेकमङ्गग्रहणं प्रकृतं तद्धलो यदि । विशेषणं स्यात्कार्यित्वमङ्गस्येह न लभ्यते ॥ ततश्च विद्धमित्यादावपि दीर्घः प्रसड।ल्ते । अथ निर्दिश्यते कार्थी नाहलः स्याद्विशेषणम् ॥ ततो निरुतमित्यादावपि दीर्घत्वमापतेत् । सकृच्छुतस्य चैकस्य युज्यते नोभयार्थता ॥ अत आह - अङ्गग्रहणमित्यादि । आवर्तमानं वस्वेकमप्यनेकस्य शेषताम् । भजते भाजनं यद्वन्नृणामसहभोजने ॥
सिद्धान्तकौमुदी
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्ताङ्गस्य दीर्घः स्यात् । इति दीर्घे कृते प्वादीनां ह्रस्वः (कौमुदी-2258) । जिनाति । जिज्यौ । जिज्यतुः । 1501 री गतिरेषणयोः । रेषणं वृकशब्दः । 1502 ली श्लेषणे । विभाषा लीयतेः (कौमुदी-1509) इत्येज्विषये आत्वं वा । ललौ । लिलाय । लाता । लेता । 1503 व्ली वरणे । व्लिनाति । 1504 प्ली गतौ । वृत् । ल्वादयो वृत्ताः । प्वादयोऽपीत्येके । 1505 व्री वरणे 1506 भ्री भये । भरण इत्येते । 1507 क्षीष् हिंसायाम् । एषां त्रयाणां ह्रस्वः । केषांचिन्मते तु न । 1508 ज्ञा अवबोधने । ज्ञाजनोर्जा (कौमुदी-2511) जानाति । दीर्घनिर्देशसामर्थ्यान्न ह्रस्वः । 1509 बन्ध बन्धने । बध्नाति । बबन्धिथ । बन्धा । बन्धारौ । भन्त्स्यति । बधान । अभान्सीत् । पूर्वत्रासिद्धम् (कौमुदी-12) इति भष्भावात्पूर्वं झलो झलि (कौमुदी-2281) इति सिज्लोपः । प्रत्ययलक्षणेन सादिप्रत्ययमाश्रित्य भष्भावो न । प्रत्ययलक्षणं प्रतिसिज्लोपस्यासिद्धत्वात् । अबान्धाम् । अभान्त्सु । 1510 वृङ् संभक्तौ । वृणीते । वव्रे । ववृषे । ववृढ्वे । वरिता । वरीता । अवरिष्ट । अवरीष्ट । अवृत । 1511 श्रन्थ विमोचनप्रतिहर्षयोः ॥ इतः परस्मैपदिनः ॥ श्रन्थाति । ।श्रन्थिग्रन्थीत्यादिना कित्त्वपक्षे एत्वाभ्यासलोपावप्यत्र वक्तव्यौ इति हरदत्तादयः (वार्तिकम्) ॥ श्रेथतुः । श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते । श्रेथिथ । अस्मिन्नपि पक्षे णलि । शश्राथ । उत्तमे तु । शश्राथ शश्रथेति माधवः । तत्र मूलं मृग्यम् । 1509 मन्थ विलोडने 1513 श्रन्थ 1514 ग्रन्थ सन्दर्भे । अर्थभेदाच्छ्रन्धेः पुनः पाठः । रूपं तूक्तम् । 1515 कुन्थ संश्लेषणे । संक्लेशे इत्येके । कुथ्नाति । चुकुन्थ । कुथेति दुर्गः । चुकोथ । 1516 मृद क्षोदे । मृद्नाति । मृदान । 1517 मृड । अयं सुखेऽपि । ष्टुत्वम् । मृड्णाति । 1518 गुध रोषे । गुध्नाति । 1519 कुष निष्कर्षे । कुष्णाति । कोषिता ॥
हलः - दिग्योगे पञ्चम्येषा । हलः परस्येति लभ्यते ।संप्रसारणस्ये॑ति सूत्रमनुवर्तते । अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्त्त्यते । एकमवयवषष्ठन्तं हल इत्यत्रान्वेति । अङ्गावयवाद्धल इति लभ्यते । द्वितीयं तु स्थानषष्ठन्तं संप्रसारणेन विशेष्यते । तदन्तविधिः । "ढ्रलोपे" इत्यतो दीर्घ इत्यनुवर्तते । तदाह — अङ्गावयवादित्यादिना । उदाहरणं तु — वीतः, शूनः, जीनः । हल इति किम् । उतः उतवान् । अङ्गावयवात् किम् । निरुतम् । तदन्ताङ्गस्येति किम् । विध्यति । एषामिति । व्रीभ्रीक्षीषामित्यर्थः । ल्वादय एव वृत्ताः, न तु प्वादय इति मते इति भावः । ज्ञा अवबोधने । शिति जादेशं स्मारयति — ज्ञाजनोर्जेति । दीर्घनिर्देशे॑ति । प्वादित्वेऽपि आकारोच्चारणसामथ्र्यान्न ह्यस्व इति भावः । बन्ध बन्धने । अनिट् । नोपधः । बन्धातीति ।अनिदिता॑मिति नलोप इति भावः । भारद्वाजनियमात्थलि वेडिति मत्वाऽ‌ऽह — बबन्धिथ बबन्द्धेति । अकित्त्वान्नलोपो न । अनिट्पक्षे तुझषस्तथो॑रिति थस्य धः । बन्धेति । तासि.झषस्तथो॑रिति तकारस्य धः । भन्त्स्यतीति । "एकाचः" इति बस्य भष् । धस्य चर्त्वेन तः । बधानेति । "हलः श्नः शानज्झौ" इति शानच् । अभान्त्सीदिति । हलन्तलक्षणावृद्धिः । भष्भावः । अबान्द्धामित्यत्र सकारपरकत्वाद्भष्भावमाशङ्क्याह — पूर्वत्रत्यादि । ननु कृते सिज्लोपे प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्भष् दुर्वार इत्यत आह — प्रत्ययलक्षणेनेति । अबान्द्धामिति ।झषस्तथो॑रिति तस्य धः । श्रन्थ विमोचने । श्रन्थिग्रन्थीत्यादिनेति ।श्रन्थिग्रन्थिदम्भिस्वञ्जीना लिटः कित्त्वं वे॑ति व्याकरणान्तरेणेत्यर्थः । अस्मिन्नपि पक्षे इति ।पितामपीदं कित्त्व॑मिति सुधाकरमतेऽपि प्रथमपुरुषणलि — शश्राथ । उत्तमपुरुषणलि तु शश्राय शश्रयेति माधव आहेत्यर्थः । तत्र मूलमिति ।कित्त्वपक्षे एत्त्वाभ्यालोपा॑वित्यारभ्य "माधव" इत्यन्तसंदर्भे मूलं नास्तीत्यर्थः । संयुक्तहल्मध्यस्थत्वादेवंविधवार्तिकाऽदर्शनाच्चेति भावः । कुष निष्कर्षे ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अङ्गावयवाद्धलः परं यत्संप्रसारणं तदन्तस्य दीर्घः। जीनः॥
महाभाष्यम्
हलः (3000) (दीर्घाधिकरणम्) (वार्तिकावतरणभाष्यम्) इह कस्मान्न भवति ‐ -तृतीयः ? (6510 अतिव्याप्तिनिवारकवार्तिकम् ।। 1 ।।) - अण्प्रकरणादृकारस्याप्राप्तिः - अण्प्रकरणादृकारस्य दीर्घत्वं न भविष्यति । अण इति वर्तते । क्व प्रकृतम् ? ढ्रलोपे पूर्वस्य दीर्घोऽणः 6|3|111 इति ।। (वार्तिकावतरणभाष्यम्) तद्वै इकः काशे 6|3|123 इत्यनेनेग्ग्रहणेन व्यवच्छिन्नं न शक्यमनुवर्तयितुम् ।। (6511 अण्ग्रहणानुवृत्तिसाधकवार्तिकम् ।। 2 ।।) - इग्ग्रहणस्य चाण्विशेषणत्वात् - अण्विशेषणमिग्ग्रहणम् ‐ अण इक इति ।। (अण्ग्रहणानुवृत्तौ दोषनिवारकभाष्यम्) यदि तर्ह्यण्विशेषणमिग्ग्रहणं, चौ दीर्घो भवति ‐ इतीह न प्राप्नोति ‐ -अवाचा, अवाचे । नैष दोषः । अण्ग्रहणमनुवर्तते, इग्ग्रहणं निवृत्तम् ।। एवमपि कर्तृचः, कर्तॄचा, कर्तॄचे ‐ -अत्र न प्राप्नोति । यथालक्षणमप्रयुक्ते ।। (वार्तिकान्यथासिद्धिसाधकभाष्यम्) अथवा ‐ -उभयं निवृत्तम् । कस्मान्न भवति ‐ -तृतीय इति ? निपातनात् । किं निपातनम् ? द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् 2|2|3 इति ।।