Page loading... Please wait.
6|4|18 - क्रमश्च क्त्वि
॥ तस्मै पाणिनये नमः ॥
6|4|18
SK 3329
क्रमश्च क्त्वि   🔊
सूत्रच्छेदः
क्रमः (षष्ठ्येकवचनम्) , च (अव्ययम्) , क्त्वि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलि इत्येव, क्रमित्वा। प्रक्रम्य, उपक्रम्य इति बहिरङ्गो ऽपि ल्यबादेशो ऽन्तरङ्गानपि विधीन् बाधते इति पूर्वम् एव दीर्घत्वं न प्रवर्तते।
`अनुनासिकस्य क्विझलोः` 6|4|15 इत्यादिना नित्ये प्राप्ते विकल्पार्थ वचनम्। `उपधायाः` इति। कुत एतत्? `अचश्च` 1|2|28 इत्यस्योपस्थानादुपधाया एव क्रमोऽच्त्वात्। `क्रमित्वा` इति। `उदितो वा` 7|2|56 इति पक्ष इडागमः। `प्रक्रम्य` इति। `समासेऽनञ्पूर्वेक्त्वो ल्यप्` 7|1|37 । ननु दीर्घत्वं कत्वाप्रत्ययमपेक्षत इत्यन्तरङ्गम्। ल्यबादेशस्त्वनेकपदाश्रयत्वात्? समासमपेक्षमाणो बहिरङ्गो भवति। तत्रान्तरङ्गत्वाल्लयबदेशात्? प्रागेव झलादौ दीर्घत्वं कस्मान्न भवति? इत्याह--`बहिरङ्गोऽपि` इत्यादि। `अदो जग्धिर्ल्यप्ति किति` 2|4|36 इत्यत्र ज्ञापितमेतत्--`बहिरङ्गो ल्यबादेशोऽन्तरङ्गान्? विधीन्? बाधते` इति॥
अनुनासिकस्य क्विझलोः क्ङिति इति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृतम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् । क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ॥
सिद्धान्तकौमुदी
क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च (कौमुदी-3050) इति वेट् । पवित्वा । पूत्वा ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
क्रमश्च क्त्वि - झलादावितीति ।जान्तनशा॑मिति सूत्रे वक्तव्यमित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.