Page loading... Please wait.
6|4|143 - टेः
॥ तस्मै पाणिनये नमः ॥
6|4|143
SK 316
टेः  
सूत्रच्छेदः
टेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
लोपः  6|4|134 (प्रथमैकवचनम्) , डिति  6|4|142 (सप्तम्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22 भस्य  6|4|129
सम्पूर्णसूत्रम्
भस्य टेः डिति लोपः
सूत्रार्थः
भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति ।
यदि भसंज्ञकात् परः डित्-प्रत्ययः आगच्छति, तर्हि तस्य भसंज्ञकस्य टि-संज्ञकस्य लोपः जायते ।

यथा, "अन्य" इत्यस्य सर्वनामशब्दस्य नपुँसकलिङ्गस्य प्रथमैकवचनस्य रूपसिद्धौ -
अन्य + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
→ अन्य + अद् [स्वमोर्नपुँसकात् 7|1|23 इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन अतोऽम् 7|1|24 इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन अद्ड् डतरादिभ्यः पञ्चभ्यः 7|1|25 इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।]
→ अन्य् + अद् [अकारादि-प्रत्यये परे अङ्गस्य यचि भम् 1|4|18 इति भसंज्ञा । टेः 6|4|143 इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।]
→ अन्यद् / अन्यत् [वाऽवसाने 8|4|56 इति विकल्पेन चर्त्वम्]

अस्य सूत्रस्य विषये काशिका वदति - "डिति अ-भस्य अपि अनुबन्धकरणसामर्थ्यात् टिलोपो भवति" । इत्युक्ते, यदि कस्मिंश्चित् प्रत्यये डकारः इत्संज्ञकः अस्ति, तस्य किमपि अन्यत् प्रयोजनम् च नास्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य भसंज्ञायाम् न सत्याम् अपि टिलोपः भवति - डित्वस्य निर्देशसामर्थ्यात् ।

यथा, "कुमुद" शब्दात् कुमुदनडवेतसेभ्यो ड्मतुप्‌ 4|2|87 इत्यनेन ड्मतुप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे इयम् प्रक्रिया जायते -
→ "कुमुद" + ड्मतुप् [कुमुदनडवेतसेभ्यो ड्मतुप्‌ 4|2|87 इति मतुप्-प्रत्ययः]
→ "कुमुद" + मत् [डकारस्य चुटू 1|3|7 इति इत्संज्ञा, उकारस्य उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा । पकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा । द्वयोः तस्य लोपः 1|3|9 इति लोपः । ]
→ कुमुद् मत् [टेः 6|4|143 इति टिसंज्ञकस्य अकारस्य लोपः]
→ कुमुद्वत् [ झयः 8|2|10 इति मकारस्य वकारादेशः]
अस्याम् प्रक्रियायाम् यद्यपि "कुमुद्" शब्दस्य भसंज्ञा न भवति, तथापि डित्करणस्य सामर्थ्यात् अत्र टेः 6|4|143 इत्यस्य प्रसक्तिः अस्ति ।
One-line meaning in English
The "टि"component of a भसंज्ञक अङ्ग is removed when followed by a डित् प्रत्यय.
काशिकावृत्तिः
टिसंज्ञकस्य डिति प्रत्यये परतः लोपो भवति। कुमुद्वान्। नड्वान्। वेतस्वान्। उपसरजः। मन्दुरजः। त्रिंशता क्रीतः त्रिंशकः। डिति अभस्य अपि अनुबन्धकरणसामर्थ्यत् टिलोपो भवति।
`कुमुद्वान्` इत्यादि। कमुदनडवेतसेभ्यश्चातुरर्थिको ड्मतुप्? 4|2|86 । `उपसरजः` इति। `सप्तम्यां जनेर्डः` 3|2|97 एवं `मन्दुरजः` इत्यत्रापि। अत्र हि `ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|62 इति पूर्वपदस्य ह्यस्वत्वम्। `तिंरशकः` इति। पूर्ववत्? ड्वुन्। ननु च `भस्य` 6|4|129 इत्यनुवत्र्तते, न च ड्मतुपि डप्रत्यये च धातोर्विहिते पूर्वस्य भसंज्ञा प्राप्नोति, उभयोरनजादित्वात्? अस्वादित्वाच्च यथायोगम्, तत्? कथमत्र लोपो भवति? इत्याह--`डित्यभस्यापि` इत्यादि। यदि टिलोपो न स्यात्, तदा डित्त्वमनर्थकं स्यात्। अथैवं कस्मान्न विज्ञातुम्। एवं तर्हि `प्रावृट्शरत्कालदिवां जे` 6|3|15 इति कृतटिलोपस्य जनेर्निर्देशो नोपपद्येत? तस्मादत एव निर्देशादवसीयते--भवति धातुप्रत्ययडकारस्येत्संज्ञेति। तस्याञ्चासत्यां यदि टिलोपो न स्यात्, तस्यास्तदा वैयथ्र्यं स्यात्। ड्मतुपोऽपि यदि डकारस्य लोपो न स्यात्, तदन्तेन तन्नामादेशो न गम्येत, तत्र च `देशे तन्नाम्नि` 4|2|66 इति वत्र्तते। तस्मादवश्यं तत्रापि डकारस्येत्संज्ञया भवितव्यम्, तस्याञ्च तत्सामथ्र्याट्टिलोपेन॥
डित्यभस्यापीति । श्रवंणार्थस्तु डकारो न भवति, ड्मतुपि तावद् देशे तन्नाम्नि इति वर्तते, न च डकारवता प्रत्ययेन तन्नामा गम्यते देशः । डेऽपि प्रावृट्शरत्कालदिवां जे इति निर्द्दिष्टत्वान्न (वणार्थो डकारः । मन्दुरज इति । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः ॥
सिद्धान्तकौमुदी
डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः (कौमुदी-164) इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् (कौमुदी-193) इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ॥ ।एकतरात्प्रतिषेधो वक्तव्यः (वार्तिकम्) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (एकतरात्प्रतिषेधो वक्तव्यः)। एकतरम्॥
महाभाष्यम्
टेः (3141) (अभस्यापि टिलोपसाधकभाष्यम्) अभस्योपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् उपसरजः, मन्दुरज इति । डित्यभस्याप्यनुबन्धकरणसार्मथ्याद्भविष्यति ।।