Page loading... Please wait.
6|4|113 - ई हल्यघोः
॥ तस्मै पाणिनये नमः ॥
6|4|113
SK 2497
ई हल्यघोः  
सूत्रच्छेदः
(लुप्तप्रथमान्तनिर्देशः) हलि (सप्तम्येकवचनम्) , अघोः (षष्ठ्येकवचनम्)
अनुवृत्तिः
क्ङिति  6|4|98 (सप्तम्येकवचनम्) , सार्वधातुके  6|4|110 (सप्तम्येकवचनम्) , आतः  6|4|112 (षष्ठ्येकवचनम्) , श्ना-अभ्यस्तयोः  6|4|112 (षष्ठीद्विवचनम्)
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
श्ना-अभ्यस्तयोः आतः हलि सार्वधातुके क्ङिति ई, अघोः
सूत्रार्थः
श्ना-विकरणस्य तथा अभ्यस्तस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये ङित्-प्रत्यये च परे ईकारादेशः भवति । परन्तु घु-संज्ञकस्य न भवति ।
किम् नाम अभ्यस्तम् ? यदा द्वित्वं क्रियते तदा उभयोः शब्दयोः उभे अभ्यस्तम् 6|1|5 इत्यनेन अभ्यस्तसंज्ञा भवति । अस्य अभ्यस्तसंज्ञकस्य आकारस्य , तथा क्र्यादिगणस्य "श्ना" विकरणप्रत्ययस्य आकारस्य हलादि-सार्वधातुके कित्-प्रत्यये परे ङित्-प्रत्यये परे श्नाऽभ्यस्तयोरातः 6|4|112 इत्यनेन लोपे प्राप्ते वर्तमानसूत्रेण अपवादत्वेन ईकारादेशः भवति । यथा -

1. क्र्यादिगणस्य डुक्रीञ् (द्रव्यविनिमये) अस्य धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति -
क्री + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ क्री + तस् [तिप्तस्... 3|4|78 इति तस्-प्रत्ययः । सार्वधातुकमपित् 1|2|4 इति तस्-प्रत्ययस्य ङित्-भावः]
→ क्री + श्ना + तस् [क्र्यादिभ्यः श्ना 3|1|81 इति विकरणम् श्ना]
→ क्री + नी + तस् [ई हल्यघोः 6|4|113 इति श्ना-इत्यस्य आकारस्य ईकारः]
→ क्रीणीतः [विसर्गनिर्माणम्, अट्कुप्वाङ्नुम्व्यवायेऽपि 8|4|2 इति णत्वम्]

2. माङ् (माने शब्दे च) इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य इयम् प्रक्रिया भवति -
मा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ मा + त [तिप्तस्... 3|4|78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः । सार्वधातुकमपित् 1|2|4 इति त-प्रत्ययस्य ङित्-भावः]
→ मा + शप् + त [कर्तरि शप् 3|1|68 इति शप्]
→ मा + त [जुहित्यादिभ्यः श्लुः 2|4|75 इति विकरणस्य श्लुः (लोपः)]
→ मा मा + त [श्लौ 6|1|10 इति द्वित्वम्]
→ मि मा + त [ भृञामित्‌ 7|4|76 इति अभ्यासस्य इकारादेशः]
→ मि मी + त [ई हल्यघोः 6|4|113 इति अभ्यस्तस्य आकारस्य हलि परे ईकारादेशः]
→ मिमीते [टित आत्मनेपदानां टेरे 7|4|79 इति एकारः]

परन्तु अस्य सूत्रस्य प्रसक्तिः "घु"संज्ञकस्य विषये नास्ति, एतत् स्पष्टीकर्तुम् अस्मिन् सूत्रे "अघोः" इति उक्तम् अस्ति ।

किम् नाम "घु"? दाधा घ्वदाप् 1|1|20 इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् "घु"संज्ञा भवति । एतेषु डुदाञ् (दाने), दाण् (दाने), तथा डुधाञ् (धारणपोषणयोः) एतेषु एव आकारः अस्ति, अतः एतेषाम् त्रयाणाम् विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । तेषां विषये अस्य प्रयोगः न करणीयः - एतत् स्पष्टीकर्तुम् अस्मिन् सूत्रे "अघोः" इति उक्तम् अस्ति । यथा, दा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य इयम् प्रक्रिया भवति -
दा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ दा + तस् [तिप्तस्... 3|4|78 इति तस्-प्रत्ययः । सार्वधातुकमपित् 1|2|4 इति झि-प्रत्ययस्य ङित्-भावः]
→ दा + शप् + तस् [कर्तरि शप् 3|1|68 इति शप्]
→ दा + तस् [जुहित्यादिभ्यः श्लुः 2|4|75 इति विकरणस्य श्लुः (लोपः)]
→ दा दा + तस् [श्लौ 6|1|10 इति द्वित्वम्]
→ द दा + तस् [ह्रस्वः 7|4|59 इति अभ्यासस्य ह्रस्वः]
→ दद् + तस् [श्नाऽभ्यस्तयोरातः 6|4|112 इति आकारस्य लोपः]
→ दद् + तः [विसर्गनिर्माणम्]
→ दत्तः [खरि च 8|4|55 इति चर्त्वम्]
अस्याम् प्रक्रियायाम् "द दा + तस्" इत्यस्य आकारस्य ईकारादेशः न भवति, यतः ई हल्यघोः 6|4|113 इत्यस्य अत्र प्रसक्तिः एव नास्ति ।
तथैव, धा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् "धत्तः" इति जायते ।
One-line meaning in English
The आकार of the विकरण श्ना and also of an अभ्यस्त is converted to ई when followed by a हलादि सार्वधातुक कित् and ङित् प्रत्यय. But this does not happen for the verb roots that get the term "घु".
काशिकावृत्तिः
श्नान्तानाम् अङ्गानाम् अभ्यस्तानां च घुवर्जितानाम् आतः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः। लुनीतः। पुनीतः। लुनीथः। पुनीथः। लुनीते। पुनीते। अभ्यस्तानाम् मिमीते। मिमीषे। मिमीध्वे। संजिहीते। संजिहीषे। संजिहीध्वे। हलि इति किम्? लुनन्ति। मिमते। अघोः इति किम्? दत्तः। धत्तः। क्ङिति इत्येव, लुनाति। जहाति।
`लुनीतः, पुनीतः; `लुनीथ, पुनीथ` इति। तस्थसौ। `मिमीते` इति। आत्मनेपदैकवचनम्। `मिमीषे` इति। `थासः स` 3|4|80 । `मिमीध्वम्` इति। ध्वम्। `लुनन्ति, पुनन्ति` इति। झिप्रत्ययः। ननु च यद्यप्यजादावपीत्त्वं स्यात्, लोपोऽनवकाशः स्यात्? अतोऽनवकाशत्वाल्लोप ईत्त्वं बाधिध्यते, तत्? किं `हलि` इत्यनेन? नैतदस्ति; असति हल्ग्रहणे वचनादुभयं स्यात्। घुसंज्ञकेष्वाल्लोपः प्रसज्येत। तस्मात्? `हलि` इति वक्तव्यम्। `दत्त्#H` इति। `खरि च` 8|4|54 इति चत्त्र्वम्। `धत्तः` इति। धाञो द्विर्वचने कृते `अभ्यासे चर्च्च` 8|4|53 इत्यभ्यासस्य जशत्वे च `दधस्तथोश्च` 8|2|38 इति भष्भावेन दकारस्य धकारः, धातोस्त्वाकारलोपे कृते जश्त्वचर्त्त्वे॥
लुनन्तीति । असति हल्ग्रहणे ईत्वलोपयोः पर्यायः स्यात् एकविषयत्वात् । घुसंज्ञकेष्वेव वा लोपः स्यात् । अत्रापि पूर्ववत् सार्वधातुकमेव सम्भवति ॥
सिद्धान्तकौमुदी
श्नाभ्यस्तयोरातईत्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः---(कौमुदी-2483) इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त । 1089 ओहाङ् गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । 1090 ओहाक् त्यागे । परस्मैपदी । जहाति ॥
ई हल्यघोः - ई हल्यघोः । "ई" इति लुप्तप्रथमाकम् । "श्नाब्यस्तयोरातः" इत्यनुवर्तते ।गमहने॑त्यतः क्ङितीति, "अत उत्सार्वधातुके" इत्तः सार्वधातुके इत्यतः सार्वधातुके इति चानुवर्तते । तदाह — श्नाभ्यस्तयोरित्यादिना । आल्लोप इति ।अजादौ क्ङिति सार्वधातुके॑ इति शेषः । मिमते इति । अभ्यस्तत्वाददादेशः । मिमीषे मिमाथे मिमीध्वे । मिमे मिमीवहे मिमीमहे । ममे ममाते ममिरे । ममिषे ममाथे ममिद्वे । ममे ममिवहे ममिमहे । माता । मास्यते । मिमीताम् मिमाताम् मिमतात् । मिमीष्व मिमाथाम् मिमीध्वम् । मिमै मिमावहै मिमामहै । अमिमीत अमिमाताम् अमिमत । अमिमीथाः अमिमाताम् अमिमीध्वम् । अमिमि अमिमीवहि अमिमीमहि । मिमीत मिमीयाताम् मिमीरन् । मिमीथाः । मिमीयाथाम् मिमीध्वम् । मिमीय मिमीवहि मिमीमहि । मासीष्ट । अमास्त अमासाताम् अमासत । अमास्थाः अमासाथाम् अमाध्वम् । अमासि अमास्वहि अमास्महि । अमास्यत । ओ हाङ्गातविति । अनिट् । ओकारः ककारश्च इत् । जहातीति । श्लौ द्वित्वे अभ्यासचुत्वमिति भावः । तसादौ "श्नाभ्यस्तयोरातः" इति नित्यमीत्त्वे प्राप्ते —
ई हल्यघोः - ई हल्यघोः । श्नाभ्यस्तयोरिति । लुनीते । पुनीते । क्ङितीति किम् । लुनति । अघोः किम । धत्तः । दत्तः । मिमीते इति ।घुमास्थे॑तीत्त्वमिह न प्रवर्तते, तत्राद्र्धधातुक इत्यनुववृत्तेः । अन्यथा मातः माथः, गाते गासे इत्यादावतिप्रसङ्गात् । अत एव काशिकायामुक्तमाद्र्धधातुक इत्यधिकारो न ल्यपीति योगं यावदिति ।
लघुसिद्धान्तकौमुदी
श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः। जहीतः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.