सूत्रच्छेदः
ये (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
उतः
6|4|107 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , प्रत्ययात्
6|4|107 (षष्ठ्येकवचनम्, षष्ठ्या विपरिणम्यते) , म्-वोः
6|4|107 (सप्तमीद्विवचनम्) , लोपः
6|4|107 (प्रथमैकवचनम्) , करोतेः
6|4|108 (पञ्चम्येकवचनम्) , नित्यम्
6|4|108 (प्रथमैकवचनम्)
सम्पूर्णसूत्रम्
करोतेः अङ्गस्य उतः प्रत्ययस्य ये नित्यं लोपः
सूत्रार्थः
कृ-धातोः विहितः यः प्रत्ययान्तः उकारः तस्य यकारे परे नित्यम् लोपः भवति ।
डुकृञ् (करणे) इति तनादिगणस्य धातुः । अस्मात् परस्य "उ" इति विकरणप्रत्ययस्य यकारे परे अनेन सूत्रेण नित्यं लोपः विधीयते । यथा, कृ-धातोः विधिलिङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपस्य प्रक्रिया इयम् -
कृ + लट् [
विधिनिमन्त्रणा... 3|3|161 इति लिङ्]
→ कृ + तिप् [
तिप्तस्.. 3|4|78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ कृ + उ + ति [
तनादिकृञ्भ्यः उः 3|1|73 इति उ-प्रत्ययः]
→ कर् + उ + ति [
सार्वधातुकार्धधातुकयोः 7|3|84 इति गुणः]
→ कुर् + उ + ति [
अत उत् सार्वधातुके 6|4|110 इत्यनेन अकारस्य उकारादेशः]
→ कुर् + उ + त् [
इतश्च 3|4|100 इति इकारलोपः]]
→ कुर् + उ + यासुट् त् [
यासुट् परस्मैपदेषूदात्तो ङिच्च 3|4|103 इति यासुट्-आगमः]
→ कुर् + उ + यास् सुट् त् [
सुट् तिथोः 3|4|107 इति सुट्-आगमः]
→ कुर् + उ + या त् [
लिङः सलोपोऽनन्त्यस्य 7|2|79 इति सकारयोः लोपः]
→ कुर् यात् [
ये च 6|4|109 इति यकारलोपः]
→ कुर्यात्
One-line meaning in English
The उकार occurring at end of a प्रत्यय that is attached to the verb root कृ is removed when followed by a यकार.
काशिकावृत्तिः
यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति। कुर्यात्, कुर्याताम्, कुर्युः।
`चकारो लोपस्यानुकर्षणार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
कृञ उलोपः स्याद्यादौ प्रत्यये परे । कुर्यात् । आशिषि । क्रियात् । कृषीष्ट । अकार्षीत् ।तनादिभ्यः--
(कौमुदी-2547) इति लुकोऽभावे ह्रस्वादङ्गात्
(कौमुदी-2369) इति सिचो लोपः । अकृत । अकृथाः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
आ च हौ - चादिदीताविति । अत एव भट्टिः प्रायुङ्क्त — जहिहि जहीहि जहाहि रामभार्या॑मिति ।
लघुसिद्धान्तकौमुदी
कृञ उलोपो यादौ प्रत्यये परे। कुर्यात्, कुर्वीत। क्रियात्, कृषीष्ट। अकार्षीत्, अकृत। अकरिष्यत्, अकरिष्यत॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.