Page loading... Please wait.
6|4|104 - चिणो लुक्
॥ तस्मै पाणिनये नमः ॥
6|4|104
SK 2329
चिणो लुक्   🔊
सूत्रच्छेदः
चिणः (पञ्चम्येकवचनम्) , लुक् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 असिद्धवदत्राभात्  6|4|22
सम्पूर्णसूत्रम्
चिणः लुक्
सूत्रार्थः
चिण्-विकरणात् उत्तरस्य (तिङ्-प्रत्ययस्य) लुक् भवति ।
"चिण्" इति कश्चन विकरणप्रत्ययः । लुङ्-लकारस्य विषये च्लि लुङि 3|1|43 इत्यनेन च्लि-विकरणप्रत्यये प्राप्ते तस्य केषाञ्चन धातूनां विषये "चिण्" आदेशः भवति । अस्मात् आदेशात् परस्य तिङ्-प्रत्ययस्य अनेन सूत्रेण लुक् विधीयते ।

यथा -

1. जन्-धातोः लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
जन् + लुङ् [लुङ् 3|2|110 इति लुङ्]
→ जन् + ल् [इत्संज्ञालोपः]
→ अट् + जन् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + जन् + च्लि + ल् [च्लि लुङि 3|1|43 इति लुङ्लकारस्य विकरणप्रत्ययः "च्लि"]
→ अ+ जन् + चिण् + ल् [ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् 3|1|61 इति जन्-धातोः परस्य च्लि-प्रत्ययस्य वैकल्पिकः चिण्-आदेशः]
→ अ+ जन् + इ + ल् [अत उपधायाः 7|2|116 इत्यनेन उपधावृद्धौ प्राप्ते; जनिवध्योश्च 7|3|35 इत्यनेन चिण्-प्रत्यये परे उपधावृद्धिनिषेधः]
→ अ + जन् + इ + तिप् [तिप्तस्... 3|4|78 इति तिप्-प्रत्ययः]
→ अ + जन् + इ [चिणो लुक् 6|4|104 इत्यनेन चिण्-प्रत्ययात् उत्तरस्य तिङ्-प्रत्ययस्य लुक् भवति]
→ अजनि

2. गद् -धातोः कर्मणि-प्रयोगे लुङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
गद् + लुङ् [लुङ् 3|2|110 इति लुङ् ]
→ अ + गद् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + गद् + च्लि + ल् [च्लि लुङि 3|1|43 इति लुङ्लकारस्य विकरणप्रत्ययः "च्लि"]
→ अ + गद् + च्लि + त [तिप्तस्... 3|4|78 इति भावकर्मविवक्षायाम् आत्मनेपदस्य प्रथमपुरुषैकवचनस्य "त" प्रत्ययः]
→ अ + गद् + चिण् + त [चिण्भावकर्मणोः 3|1|66 इति कर्मणिप्रयोगे च्लि-इत्यस्य तकारादौ प्रत्यये परे चिण्-आदेशः]
→ अ + गाद् + इ + त [अत उपधायाः 7|2|116 इति उपधावृद्धिः]
→ अगादि [चिणो लुक् 6|4|104 इति प्रत्ययस्य लुक्]

ज्ञातव्यम् - अस्मिन् सूत्रे "तिङ्-प्रत्ययस्य" लुक् भवति इति स्पष्टरूपेण नोच्यते । परन्तु इदम् सूत्रम् अङ्गाधिकारे आगच्छति, अतः अङ्गात् परस्य "प्रत्ययस्यैव" लुक् भवितुम् अर्हति । अस्मिन् विषये काशिकान्यासे उच्यते - "अथ प्रत्ययस्य एतत् कुतः लभ्यते? अङ्गस्य 6|4|1 इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात् ।"
One-line meaning in English
The तिङ् प्रत्यय that follows the चिण् विकरणप्रत्यय undergoes a लुक्.
काशिकावृत्तिः
चिण उत्तरस्य प्रत्ययस्य लुग् भवति। अकारि। अहारि। अलावि। अपाचि। अकारितराम्, अहारितमाम् इत्यत्र तलोपस्य असिद्धत्वात् तरप्तमपोर् न लुग् भवति। चिणो लुकित्येतद् विषयभेदाद् भिद्यते।
`चिण उत्तरस्य प्रत्ययस्य` इति। अथ प्रत्ययस्यैतत्कुतो लभ्यते? `अङ्गस्य` 8|4|1 इत्यनेन प्रत्ययस्य सन्निधापितत्त्वात्। यदि चिण उत्तरसय प्रत्ययस्य लुग्भवति, अकारितराम्, अकारितमामित्यत्र तरप्तममोर्लुक्? कस्मान्न भवति? इत्याह--`अकारितराम्` इत्यादि। योऽसौ तशब्दस्य लुक्, तस्य तरप्तमपोर्लुकि कत्र्तव्ये `असिद्धवदत्राभात्` 6|4|22 इत्यसिद्धत्वम्। अतस्तशब्देन व्यवदानाच्चिणोऽनन्तरौ तरप्तमपौ न भवत इति तयोर्लुग्न भवति। ननु चान्यस्यान्यास्मेन्नसिद्धवचनादेकस्य तत्रैवासिद्धत्वं नोपपद्यते? इत्यत आह--`चिणो लुगित्येतत्` इत्यादि। `चिणो लुक्` इत्यभेदेनापि श्रुतमिदं लक्षणं विषयस्य लक्ष्यस्य भेदाद्भिद्यते, व्यक्तौ पदर्थे प्रतिव्यक्ति लक्षणं भिद्यत इति कृत्वा, तेन भेदे सत्युपपद्यत एवासिद्धत्वम्। अकारि, अहारीति स्थिते अतिशयविवक्षायां तरप्तमपौ `तिङश्च` 5|3|56 इत्यनेन, तदन्तात् `किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे` 5|4|11 इत्यामौ कृते, अकारितमाम्, अकारितमामिति भवति॥
चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङिति इति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्यस्य लुग्विधीयमानस्तरपो न भविष्यति ॥
सिद्धान्तकौमुदी
चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट । 489 तायृ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट । 490 शल चलनसंवरणयोः 491 वल 492 वल्ल संवरणे संचरणे च । ववले । ववल्ले । 493 मल 494 मल्ल धारणे । मेले । ममल्ले । 495 भल 496 भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले । 497 कल शब्दसंख्यानयोः । कलते । चकले । 498 कल्ल अव्यक्ते शब्दे । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च । 499 तेवृ 500 देवृ 501 षेवृ 502 गेवृ 503 म्लेवृ 504 पेवृ 505 मेवृ 506 ग्लेवृ सेवने । परिनिविभ्यः --(कौमुदी-2275) इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके । 507 रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः रेवते ॥ अथावत्यन्ताः परस्मैपदिनः ॥ 508 मव्य बन्धने । ममव्य । 509 सूर्क्ष्य 510 ईर्क्ष्य 511 ईर्ष्य ईर्ष्यार्थाः 512 हय गतौ । अहयीत् । यान्तात्वान्नवृद्धिः । 513 शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके । 514 हर्य गतिकान्त्योः । जहर्य 515 अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥
चिणो लुक् - चिणो लुक् । "चिण" इति पञ्चमी । तदाह — चिणः परस्येति । चिणः परश्च अर्थात्तशब्द एव भवति । चिणभावे च्लेः सिचि रूपमाह् — अप्यायिष्टेति रूपम् । शल चलने इत्यारभ्य तेवृ इत्यतः प्राग्लान्ताः । तेवृ इत्यारभ्य रेवत्यान्ता वकारान्ताः । षेवृदातोः षोपदेशत्वात्सत्वे सेवत इत्यादि रूपम् । परिषेवत इत्यत्रसात्पदाद्यो॑रिति निषेधे प्राप्ते आह — परिनिविभ्य इति । सिषेवे इति । आदेशसकारत्वात्षत्वमिति भावः । अयं सोपदेशोऽपीति । षेवृधातुरित्यर्थः । तद्भाष्यविरुद्धमिति । सेक्सृप्सृस्तृसृजस्तृस्त्यानामेव भाष्ये षोपदेशपर्युदासादिति भावः । रेवृ प्लवगताविति । प्लवेति न धात्वन्तरमिति सूचयन्नाह — प्लवगतिः- प्लुतगतिरिति । अयपयेत्यादिरेवत्यन्ता गताः । अवत्यन्ता इति । "अव रक्षणे" इत्येतत्पर्यन्ता इत्यर्थः । मव्येत्यारभ्य अलभूषणेत्यतः प्राग्यकारान्ताः । अल भूषणेत्यारभ्य खोरृ प्रतीघाते इत्यतः प्राग्लकारान्ताः ।
चिणो लुक् - चिणो लुक् । परस्य लुक् स्यादिति ।तदशब्दस्ये॑ति कैश्चित्पठते, तदार्थिकार्थकथनम्, तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् — प्रत्ययस्य लुकश्लुलुपः॑ इति वचनात्तशब्दस्यैवेति स्पष्टत्वात् । अयमिति । षेवृ धातुः । भाष्यविरुद्धमिति । यदि सोपदेशः स्यात्तदा स्त्यायतिरिवाऽयमपि षोपदेश लक्षणे पर्युदस्येत, तदकरणान्नास्ति सोपदेश इति भावः । प्लवगताविति । केचित् प्लवेति धात्वन्तरमित्याहुस्तद्धि मनोरमायां दूषितम् ।प्लवे॑ति धात्वन्तरत्वेविभाषऽ‌ऽङि रुप्लुवो॑रित्यत्र प्लुवः पक्षे घञ्विधानं व्यर्थं स्यात्, ल्पेवेत्येतस्माद्धञि आप्लावशब्दस्य सिद्धत्वात् । तथारुआवतिश्रणोती॑ति सूत्रेण प्लवेतरभ्यासोकारस्येत्वविधानमपि व्यर्थं स्यात्, तद्धि पक्षे अपिप्लवदिति रूपसिद्ध्यर्थं क्रियते, तच्च रूपं प्लवधातोःसन्यतः॑ इत्यनेन सिद्धमिति किं तदुपादानेनेति । ममव्येति ।यस्य हलः॑ इति लोपस्तु न भवति,यस्येति सङ्घातग्रहण॑मिति सिद्धान्तितत्वात् । वर्णंग्रहणे त्वर्थवद्ग्रहणपरिभाषाया अप्रवृत्त्या पुत्रकाम्येत्यादावपि लोपः स्यादिति दिक् । लुटि — मव्यिता । आशिषि — मव्यात् ।हलो यमा॑मिति धातुयकारस्य वा लोपः । सूक्ष्र्य ईर्क्ष्य । णलि — सुषूक्ष्र्य । ईक्ष्र्याचकार । ईष्र्याचकार । एभ्यः क्विपिलोपो व्योटरिति यलोपे,स्कोः॑ इति कलोपे जश्त्वचत्र्वयोः — सूर्ट् इत्येव रूपम् । हय गतौ । जहाय । हय्यात् । शिथिलीकरणमिति ।सोममभिषुणोती॑त्यादौ दर्शनात् । सुराया इति । तत्प्रकरणेसंधानं स्यादभिषवः॑ इत्यमरोक्तेः ।
लघुसिद्धान्तकौमुदी
चिणः परस्य लुक् स्यात्॥
महाभाष्यम्
चिणो लुक् (3102) (लुकोऽधिकरणम्) (6578 उपसंख्यानवार्तिकम् ।। 1 ।।) - चिणो लुकि तग्रहणम् - चिणो लुकि तग्रहणं कर्तव्यम् । इह मा भूत् ‐ -अकारितराम्, अहारितराम् ‐ -इति ।। (6579 एकदेशिवार्तिकम् ।। 2 ।।) - चिणो लुकि तग्रहणानर्थक्यं सङ्घातस्याप्रत्ययत्वात् - चिणो लुकि तग्रहणमनर्थकम् । सङ्घातस्य लुक् कस्मान्न भवति ? सङ्घातस्याप्रत्ययत्वात् । प्रत्ययस्य लुक्श्लुलुपो भवन्तीत्युच्यते, न च सङ्घातः प्रत्ययः ।। तलोपे तर्हि कृते परस्य प्राप्नोति । (6580 सिद्धान्तवार्तिकम् ।। 3 ।।) - तलोपस्य चासिद्धत्वात् - असिद्धस्तलोपस्तस्यासिद्धत्वान्न भविष्यति ।। (6581 प्रकारान्तरेण तकारानर्थक्ये वार्तिकम् ।। 4 ।।) - कार्यकृतत्वाद्वा - अथवा कृतश्चिणो लुगिति कृत्वा पुनर्न भविष्यति । तद्यथा ‐ -वसन्ते ब्राह्मणोऽग्नीनादधीतेति सकृदाधाय कृतः शास्त्रार्थ इति कृत्वा पुनः प्रवृत्तिर्न भवति । विषम उपन्यासः । युक्तं यत्तस्यैव पुनः प्रवृत्तिर्न स्यात्, यत्तु तदाश्रयं प्राप्नोति न तच्छक्यं बाधितुम् । तद्यथा ‐ -वसन्ते ब्राह्मणोऽग्निष्टोमादिभिः क्रतुभिर्यजेत ‐ -इति अग्न्याधाननिमित्तं वसन्ते वसन्त इज्यते । तस्मात्पूर्वोक्तावेव परिहारौ ।। (प्रकारान्तरबोधकभाष्यम्) अथवा क्ङितीति वर्तते । क्व प्रकृतम् ? गमहनजनखनघसां लोपः क्ङित्यनङि 6|4|98 इति । तद्वै तत्र सप्तमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । चिण इत्येषा पञ्चमी क्ङितीति सप्तम्याः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्य 1|1|67 इति ।।