Page loading... Please wait.
6|3|93 - समः समि
॥ तस्मै पाणिनये नमः ॥
6|3|93
SK 421
समः समि  
सूत्रच्छेदः
समः (षष्ठ्येकवचनम्) , समि (लुप्तप्रथमान्तनिर्देशः) (प्रथमैकवचनम्)
अनुवृत्तिः
अञ्चतौ अप्रत्यये  6|3|92 (सप्तम्येकवचनम्)
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
अप्रत्यये अञ्चतौ उत्तरपदे समः समि
सूत्रार्थः
"सम्" उपसर्गात् परं यदि "अञ्च्" धातोः लुप्तप्रत्ययान्तरूपम् आगच्छति, तर्हि "सम्" इत्यस्य "समि" इति आदेशः भवति ।
अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानाम् आदौ अर्थं पश्यामः -
1) अप्रत्ययः = अविद्यमानः प्रत्ययः यस्मात् सः । इत्युक्ते, यस्मात् शब्दात् विहितस्य प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति, प्रत्ययः च न श्रूयते, तादृशः शब्दः । क्विप् प्रत्ययः क्विन्-प्रत्ययः च सर्वापहारिणौ प्रत्ययौ स्तः, अतः एताभ्यां कश्चन प्रत्ययः यस्य अन्ते अस्ति, सः शब्दः अत्र अभिप्रेतः अस्ति । (स्मर्तव्यम् - अत्र "अप्रत्ययः = न प्रत्ययः / प्रत्ययविहीनः" इति अर्थः नास्ति, केवलं "अविद्यमानः / अश्रूयमाणः प्रत्ययः यस्मात्, सः" इत्येव अर्थः स्वीकर्तव्यः । )
2) अञ्चतौ = इयम् परसप्तमी । अञ्चुँ (गतिपूजनयोः) अस्य धातोः अयं निर्देशः कृतः अस्ति । अत्र "अप्रत्यये" इति "अञ्चतौ" इत्यस्य विशेषणम् अस्ति, अतः अत्र तादृशस्य अञ्च्-धातोः ग्रहणं क्रियते यस्मात् सर्वापहारी क्विप् / क्विन् प्रत्ययः प्रयुक्तः अस्ति ।
3) उत्तरपदे = उत्तरपदस्य उपस्थितौ । एतत् सूत्रम् अलुगुत्तरपदे 6|3|1 अस्मिन् अधिकारे अस्ति, अतः अत्र उत्तरपदस्य उपस्थितिः आवश्यकी । अत्र "उत्तरपदे" इति "अञ्चतौ" इत्यस्य विशेषणम् अस्ति । अतः अञ्च्-धातोः अप्रत्ययान्तरूपम् यत्र उत्तरपदरूपेण उपस्थीयते, तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति ।
4) समः = सम्-उपसर्गस्य स्थाने । इयं स्थानषष्ठी ।
5) समि = अयम् आदेशः अस्ति ।

अतः सूत्रस्य सम्पूर्णः अर्थः एतादृशः भवति -
यदि अञ्च्-धातोः लुप्तप्रत्ययान्तरूपम् (कस्मिंश्चित् शब्दे) उत्तरपदरूपेण आगच्छति, तथा च, (तस्मिनन्नेव शब्दे) "सम्" इति उपसर्गः पूर्वपदरूपेण उपस्थितः अस्ति, तर्हि "सम्" उपसर्गस्य "समि" इति आदेशः भवति ।

यथा, "सम् + अञ्च् + क्विन्" इत्यत्र क्विन्-प्रत्ययस्य सम्पूर्णरूपेण लोपः भवति । ततः वर्तमानसूत्रेण "सम्" इत्यस्य "समि" इति आदेशः भवति । अग्रे अनिदितां हलः उपधायाः क्ङितो 6|4|24 इत्यनेन नलोपं कृत्वा "सम्यच्" इति प्रातिपदिकं सिद्ध्यति । अस्यैव अग्रे "सम्यङ्, सम्यञ्चौ, सम्यञ्चः" एतादृशानि रूपाणि सिद्ध्यन्ति ।
One-line meaning in English
If the "सम्" उपसर्ग is followed by an लुप्तप्रत्ययान्त-अञ्च् word, then "सम्" is converted to "समि".
काशिकावृत्तिः
सम् इत्येतस्य समि इत्ययम् आदेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे। सम्यक्, सम्यञ्चौ, सम्यञ्चः।
पूर्वेणातिप्रसक्तस्य सभावस्य प्रकृतिभावेन निवृत्तिः क्रियते। नेति वक्तव्ये प्रकृत्येति वचनं वैचित्र्यार्थम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
वप्रत्ययान्तेऽञ्चतौ परे । सम्यङ् । सम्यञ्चौ । सम्यञ्चः । समीचः । समीचा ॥
समः समि - समः समि ।समी॑ति लुप्तप्रथमाकम् । "अञ्चतावप्रत्यये" इत्यनुवर्तते । तदभिप्रेत्य शेषपूरणेन सूत्रे व्याचष्टे — अप्रत्ययेति । समीच इति । "अचः" इति लोपे "चौ" इति दीर्घः ।
समः समि - समः समि ।समी॑त्यविभक्तितो निर्देशः । एवंतिरसस्तिरी॑त्यपि । सङ्गतमञ्चतीति — सम्यङ् । समीच इति । अल्लोपेचौ॑ इथि दीर्घः । सह अञ्चतीति ।
लघुसिद्धान्तकौमुदी
वप्रत्ययान्तेऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥ ,
महाभाष्यम्
समः समि (2952) (पूर्वपदादेशाधिकरणम्) (क्विग्रहणानर्थक्यबोधकभाष्यम्) किमर्थमञ्चतिनह्यादिषु क्विग्रहणं क्रियते । इह मा भूत् ‐ - समञ्चनम्, उपनहनम् । नैतदस्ति प्रयोजनम् । उत्तरपदे इति वर्तते । न चान्तरेण क्विपमञ्चतिनह्यादय उत्तरपदानि भवन्ति । तत्रान्तरेण क्विब्ग्रहणं क्विबन्त एव भविष्यति । तदादिविधिना प्राप्नोति । अत उत्तरं पठति ‐ - (6486 क्विब्ग्रहणस्य ज्ञापकत्वबोधकवार्तिकम् ।। 1 ।।) - अञ्चतिनह्यादिषु क्विब्ग्रहणानर्थक्यं यस्मिन् विधिस्तदादावल्ग्रहणे - अञ्चतिनह्यादिषु क्विब्ग्रहणमनर्थकम् । किं कारणम् ? यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेष्वेतद्भवति । न चेदमल्ग्रहणम् । एवं तर्हि सिद्धे सति यदञ्चतिनह्यादिषु क्विब्ग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ - अन्यत्र धातुग्रहणे तदाविधिर्भवतीति । किमेतस्य ज्ञापने प्रयोजनम् ? अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इत्यत्र अयस्कृत् अयस्कार इत्यपि सिद्धं भवति ।।