Page loading... Please wait.
6|3|45 - उगितश्च
॥ तस्मै पाणिनये नमः ॥
6|3|45
SK 987
उगितश्च  
सूत्रच्छेदः
उगितः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदे  6|3|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उगितश्च परस्याः नद्याः घादिषु अन्यतरस्याम् ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावो ऽप्यत्र पक्षे वक्तव्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्या विवक्षितत्वाद् वा सिद्धम्।
`श्रेयसितरा` इति। ईयसुनि परतः `प्रशस्यस्य श्रः` 5|3|60 इति प्रशस्यशब्दस्य श्रादेशः, `उगितश्च` 4|1|6 इति ङीप्। `विदुषीतरा` इति। विदेः परस्य लटः शत्रादेशः, तस्य `विदेः शतुर्वसुः` 7|1|36 इति वस्वादेशः, `वसोः सम्प्रसारणम्` 6|4|131 परपूर्वत्वम्, पूर्ववन्ङीप्। `पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः` इति। श्रेयस्तरा, विद्बत्तरेति पक्षे यथा स्यात्। `विद्बत्तरा` इति। `वसुरुआंसु` 8|2|72 इति सकारस्य दकारः `खरि च` 8|4|54 इति तकारः। `प्रकर्षयोगात्` इत्यादिनोपसंख्यानं प्रत्याचष्टे। शब्दानां व्युत्पत्तौ प्रवृत्तौ च न वस्तुसन्निधानं प्रधानं कारणम्, अपि तु विवक्षैव। न चैवं पूर्वं प्रकर्षयोगात्? स्त्रीत्वं विवक्षितम्। तस्मादस्त्रीप्रत्ययान्तादेवातिशायिकेन भवितव्यम्। आतिशायिकप्रत्ययान्तात्तु स्त्रीप्रत्ययेनेति सिद्धं श्रेयस्तरेत्यादि रूपम्। ननु च ङ्याब्ग्रहणं तदन्तात् तद्धितविधानार्थमित्युक्तम्, तत्कथमस्त्रीप्रत्ययान्तात्? तद्धितप्रकर्षप्रत्ययो युज्यते? नैतत; अत्र विषये स्त्रोत्वतद्धितार्थयोर्युगपद्विवक्षामभिप्रेत्य तदुक्तम्, न तु यत्र विषये प्राक्? प्रकर्षार्थेन सम्बन्धात्? स्त्रीत्वस्य विवक्षा नास्ति तमभिप्रेत्येति किमत्र न युज्यते॥
एपुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पतेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ॥
सिद्धान्तकौमुदी
उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । वादुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- (कौमुदी-836) इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥
उगितश्च - उगितश्च । विदुषितरेति ।विदेः शतुर्वसुरिति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः ।विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य॑मिति वृत्तिः । परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् ।
उगितश्च - उगितः परा या नदीति । ईदूतोः केवलयोरपि नदीसंज्ञेत्याश्रित्येदमुक्तम् । विदुषितरेति । उगितश्चेति ङीपि वसोः संप्रसारणम् । वृत्त्यादिष्विति । प्रक्रियातद्व्यख्यानानि चादिशब्दग्राह्राणि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.