Page loading... Please wait.
6|2|90 - अर्मे चावर्णं द्व्यच्त्र्यच्
॥ तस्मै पाणिनये नमः ॥
6|2|90
SK 3824
अर्मे चावर्णं द्व्यच्त्र्यच्   🔊
सूत्रच्छेदः
अर्मे (सप्तम्येकवचनम्) , च (अव्ययम्) , अवर्णम् (प्रथमैकवचनम्) , द्व्यच् (प्रथमैकवचनम्) , त्र्यच् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आदिरुदात्तः  6|2|64
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अर्मशब्दे उत्तरपदे द्व्यच् त्र्यच् पूर्वपदम् अवर्णान्तम् आद्युदात्तं भवति। दत्तार्मम्। गुप्तार्मम्। कुक्कुटार्मम्। वायसार्मम्। अवर्णम् इति किम्? वृहदर्मम्। द्व्यच् त्र्यचिति किम्? कपिञ्जलार्मम्। अमहन्नवम् इत्येव, महार्मम्। नवार्मम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
वृहदर्ममिति । स्वरविधौ व्यञ्जनमविद्यमानवत् इत्येतदत्र नाश्रीयते अनित्यत्वात् । नहार्ममिति । आत्वे कृतेऽवर्णान्तत्वादस्ति प्राप्तिः । नवाममिति । नवशब्दः प्रत्यग्रवचनोऽकारान्तः ॥ न भूताधिकसञ्जीवमद्राश्मकज्जलम् ॥ल 6।2।91 ॥ मद्राश्मग्रहणं सङ्घातविगृहीतार्थमिति । मद्रशब्दस्य केवलस्य मद्राश्मशब्दस्य च सङ्घातस्य प्रतिषेधार्थमित्यर्थः । मद्राश्मार्ममिति । अनोऽश्मायः सरसां जातिसंज्ञयोः इति समासान्ते सत्यवर्णान्मेतद्भवति, तदेवम् - मद्रार्मम्, मद्राश्मार्ममिति देव एवोदाहरणे । प्रायेण तु अश्मार्ममिति तृतीयमप्युदाहरणं पठ।ल्ते, तदयुक्तम्, अश्मशब्दस्य नकारान्तत्वात् । न च लोपे कृतेऽवर्णान्तत्वम्, स्वरविधौ नलोपस्थासिद्धत्वात् । तथा च वक्ष्यति - पञ्चार्मम्, दशार्ममित्यत्र अर्मे चावर्णं द्व्यच्त्र्यच् इत्यं स्वरो न भवतीति । । अपर आह मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् इत्यस्य भाष्येऽदर्शनादनार्षो वृतौ पाठ इति । दिवोदासावेति । दिवश्च दासे इति षष्ठ।ल अलुक् ॥
सिद्धान्तकौमुदी
अर्मे परे द्व्यच् त्र्यच् पूर्वमवर्णान्तमाद्युदात्तम् । गुप्तार्मम् । कुक्कुटार्मम् । अवर्णं किम् । बृहदर्मम् । द्व्यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.