Page loading... Please wait.
6|2|29 - इगन्तकालकपालभगालशरावेषु द्विगौ
॥ तस्मै पाणिनये नमः ॥
6|2|29
SK 3763
इगन्तकालकपालभगालशरावेषु द्विगौ   🔊
सूत्रच्छेदः
इगन्त-काल-कपाल-भगाल-शरावेषु (सप्तमीबहुवचनम्) , द्विगौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त पञ्चारत्निः। दशारत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर् नित्यम् इति मात्रचो लोपः। इगन्त। काल पञ्चमास्यः। दशमास्यः। पञ्च मासान् भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर् यप् 5|1|82। पञ्चवर्षः। दशवर्षः। वर्षाल् लुक् च 5|1|88 इति ठञो लुक्। काल। कपाल पञ्चकपालः। दशकपालः। कपाल। भगाल पञ्चभगालः। दशभगालः। भगाल। शराव पञ्चशरावः। दशशरावः। संस्कृतं भक्षाः 4|2|16 इति तद्धितार्थे एते समासाः द्विगोर् लुगनपत्ये 4|1|88 इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिषु इति किम्? पञ्चभिरश्वैः क्रीतः पञ्चाश्वः। दशाश्वः। द्विगौ इति किम्? परमारत्निः। परमशरावम्। पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते।
`तद्धितार्थे द्विगोर्यप्` इति। `मासाद्व्यसि` 5|1|80 इत्यनुवत्र्तमाने `द्विगोर्यष्` 5|1|81 इति यप्। `ठञो लुक्` इति। प्राग्वतीयस्य। `पञ्चकपलः` इति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इति `संस्कृतं भक्षाः` 4|2|15 इत्यण्, तस्य `द्विगोः` 4|1|88 इत्यादिना लुक्। `एते समासाः` इति। पञ्चकपाल इत्येवमादयो दशशरावपर्यन्ताः। `कृताष्प्रत्ययलोपा` इति। कृतोऽण्प्रत्ययलोपो येषां ते तथोक्ताः। पञ्चदशशब्दावत्र `ग्रः संख्यायाः` (फि।सू।2।28) इत्युदात्तौ। `पञ्चाआः` इति। तद्धितार्थे समासः। `आर्हादगोपुच्छ` 5|1|19 इत्यादिना ठक्। `अध्यर्धपूर्व` 5|1|28 इत्यादिना लुक्। पञ्च शरावाण्यस्मिन्निति बहुव्रीहिः। अथेह कथं भवति--पञ्चारत्न्यो दशारत्न्य इति, यवाता यणादेशे कृते गुणे च नात्रेगन्तमुत्तरपदम्? इत्याह--`पञ्चारत्न्यः` इत्यादि। यद्? यण्गुणौ ह्रजादौ विभक्तौ परत इति ताविह बहिरङ्गौ, स्वरस्त्वन्तरङ्ग; प्राग्विभक्त्युत्पत्तेर्भावात्, `असिद्धं बहिरङ्गमन्तरङ्गे` (व्य।प।42)। तेन पञ्चारत्न्य इत्यत्रापि द्विगुस्वर इगन्तलक्षणः प्रवत्र्तते। `स्थानिवद्भावाद्वा` इति। `अचः परस्मिन्? पूर्वविधौ` 1|1|56 इति पूर्वस्वरे कत्र्तव्यो यो गुणः स्थानिवद्भावेनेगन्तलक्षणः प्रवर्तते। ननु च स्वरविधौ `न पदन्त` 1|1|58 इत्यादिना स्थानिवद्भावः प्रतिषिध्यते? नैतदस्ति; `स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत्` इत्युक्तत्वात्? (का।1.1.59) न चैवमिको यण्गुणौ लोपाजादेशौ। `पञ्चारत्न्यः` इति। अरत्निशब्दोऽत्र `कृदिकारादक्तिनः` (ग।सू।50) `सर्वतोऽक्तिन्नर्थादित्येके` (ग।सू।51) इति बह्वादिषु पाठान्ङीषन्तः। इहापि पूर्ववत्? तद्धितार्थे द्विगुः, मात्रचस्तु लोपः॥
कृताणप्रत्ययलोपा इति। कुतोऽण्प्रत्ययलोपो यषां ते तथोक्ताः । द्विगाविति किं परमशराव इति । षष्ठीसमासोऽयम् । बहुव्रीरौ तु पूर्वपदप्रकुतिस्वरेण भाव्यमेव । इगन्तप्रकुतिस्वरत्वे यण्गुणयो रुपसंख्यानम् -- पञ्चारत्न्यो दशारत्न्यः,यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति इत्यत आह यण्गुणयोरित्यादि। प्राक्सुबुत्पते। स्वरो भवन्नन्तरङ्गः, यण्गुणौ तु सुबपेक्षत्वाद्वहिरङ्गौ । स्थानिवद्भावाद्वेति । न चात्र स्वरविधौ न स्थानिवत्वम्, अलोपाजादेशत्वात् । पञ्चारत्न्य इति । छान्दसोऽयं प्रयोगः। तत्र जसि च इति गुणे न भवति जसादिषु च्छन्दसि वा वचनम् इति वचनात्॥
सिद्धान्तकौमुदी
एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः ॥तमधीष्टो- (वार्तिकम्) ॥ इत्यधिकारे ।द्विगोर्यप् (वार्तिकम्) ॥ पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्‌)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ःथ्द्य;गन्तकालकपालभगालशरावेषु द्विगौ (2689) (6332 उपसंख्यानवार्तिकम् ।। 1 ।।) - इगन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानम् - इगन्तप्रकृतिस्वरत्वे यण्गुणयोरुपसंख्यानं कर्तव्यम् । पञ्ञ्चारत्न्यः, दशारत्न्यः । पञ्ञ्चारत्नयः, दशारत्नयः । यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति ।। (6333 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 2 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गौ यण्गुणौ । अन्तरङ्गः स्वरः । असिद्धं बहिरङ्गमन्तरङ्गे ।।