Page loading... Please wait.
6|2|156 - ययतोश्चातदर्थे
॥ तस्मै पाणिनये नमः ॥
6|2|156
SK 3890
ययतोश्चातदर्थे  
सूत्रच्छेदः
ययतोः (षष्ठीद्विवचनम्) , च (अव्ययम्) , अतदर्थे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
य यतित्येतौ यौ तद्धितावतदर्थे वर्तते तदन्तस्य उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति। पाशानां समूहः पाश्या, न पाश्या अपाश्या। अतृण्या। यत् दन्तेषु भवं दन्त्यम्, न दन्त्यम् अदन्त्यम्। अकर्ण्यम्। अतदर्थे इति किम्? पादार्थमुदकं पाद्यम्, न पाद्यम् अपाद्यम्। तद्धिता इत्येव, अदेयम्। गुणप्रतिषेधे इत्येव, दन्त्यादन्यददन्त्यम्। निरनुबन्धकैकानुबन्धकयोर् ययतोर् ग्रहणादिह न भवति, वामदेवाड्ड्यड्ड्यौ 4|2|5 वामदेव्यम्, न वामदेव्यम् अवामदेव्यम् इति।
`पाश्या` इति। प्रत्ययस्वरेणान्तोदात्तत्वम्। `अदन्त्यम्` इति। `यतोऽनावः` 6|1|207 इत्याद्युदात्तत्वम्। एवम्--`अकण्र्यम्` इत्येतदपि तद्वदेवाद्युदात्तम्। `पाद्यम्` इति। `पादार्धाभ्याञ्च` 5|4|25 इति यत्। `दन्त्यादन्यददनत्यम्` इति। अत्र दन्त्यादन्यत्र नञ्? वर्तते, न तु तदन्तस्य प्रतिषेदे। `अदेयम्` इति। `अर्हे कृत्यतृचश्च` 3|3|169 इत्यत्रार्हार्थे यत्, `ईद्यति` 6|4|65 इतीत्त्वम्। अथेह कस्मान्न भवति--वामदेवेन दृष्टं साम वामदेव्यम्? इत्यत आह--`निरनुबन्धक` इत्यादि। गतार्थम्॥
पाशतृणशब्दाभ्यां समूहे पाशादिभ्यो यः दन्तकर्णशब्दाभ्यां भवार्थे दिगादिभ्यो यत्, शरीरावयवाच्च इति यत् । पाद्यमिति । पादार्घाभ्यां च इति यत् । अदेयमिति । अर्हार्थे अचो यत् ईद्याति इतीत्वम्, गुणः । निरनुबन्धकैकानुबन्धयीरिति । एते च परिभाषे - वामदेवाद् ड।ल्ड्ड।लै इत्यत्र ज्ञापिते ॥
सिद्धान्तकौमुदी
ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.