Page loading... Please wait.
6|2|155 - नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः
॥ तस्मै पाणिनये नमः ॥
6|2|155
SK 3889
नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः  
सूत्रच्छेदः
नञः (पञ्चम्येकवचनम्) , गुणप्रतिषेधे (सप्तम्येकवचनम्) , सम्पादि-अर्ह-हित-अलम्-अर्थाः (प्रथमाबहुवचनम्) , तद्धिताः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अन्तः  6|2|143
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सम्पादि अर्ह हित अलम् इत्येवम् अर्था ये तद्धिताः तदन्तानि उत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराणि अन्तोदात्तानि भवन्ति। सम्पादिकर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अकार्णवेष्टकिकम्। अर्हं छेदमर्हति छैदिकः, न छैदिकः अच्छैदिकः। हित वत्सेभ्यो हितः वत्सीयः, न वर्सीयः अवर्सीयः। अलमर्थ सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः। नञः इति किम्? गर्दभरथम् अर्हति, गार्दभरथिकः। विगार्दभरथिकः। गुणप्रतिषेधे इति किम्? गार्दभरथिकादन्यः अगार्दभरथिकः। गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते। तत्प्रतिषेधो यत्र उच्यते समासे तत्र अयं विधिः कर्नवेष्टकाभ्यां। सम्पादि मुखम् इति। सम्पाद्यर्हहितालमर्थाः इति किम्? पाणिनीयम् अधीते पाणिनीयः, न पाणिनीयः अपाणिनीयः। तद्धिताः इति किम्? अन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा। अर्हे कृत्यतृचश्च 3|3|169 इति तृच्।
`सम्पाद्याद्यर्थास्तद्धिताः` इति। तद्धितप्रत्ययाः। तस्मात्? प्रत्ययग्रहणपरिभाषया (पु।प।वृ।44) तदन्तविधिज्र्ञायते। `गुणप्रतषेधे` इति। यस्मिन्? वाक्यार्थे तद्धित उत्पद्यते स तद्धितस्य प्रवृत्तिनिमित्तं विधीयते--यथोक्तम्--`उपकारि सिद्धमङ्गम्, साध्योऽनुपकारकस्त्वङ्गी` इति। अङ्गी, गुण इति पर्यायावेतौ। गुणस्य प्रतिषेधो गुणप्रतिषेधः। एतचच नञो विशेषणम्, गुणप्रतिषेधे चेन्नञ्वर्तत इत्यर्थः। `कार्णवेष्टकिकम्` इति। कर्णवेष्टकभ्यां शोभत इत्यर्थः। `सम्पादिनि` 5|1|98 इति `प्राग्वतेष्ठञ्` 5|1|18 , न कर्णवेष्टकिकमकार्णवेष्टकिकमिति। अत्र कर्णवेष्टकाभ्यां सम्पद्यत इति वाक्यार्थे तद्धितान्तस्य प्रवृत्तिनिमित्तं यो गुणस्तस्य प्रतिषेन नञ्वर्तते। तत्? पुनः प्रवृत्तिनिमित्त्वम्। `छैदिकः` इति। छेदमर्हतीति `आर्हादगोपुच्छ` 5|1|19 इत्यादिनां ठक्। `वत्सीयः` इति। `प्रक्क्रीताच्छः` 5|1|1 । `सान्तापिकः` इति। `तस्मै प्रभवति सन्तापादिभ्यः` 5|1|100 इति `प्राग्वतेष्ठञ्` 5|1|18 । `विगार्दभरथिकः` इति। `तदर्हति` 5|1|62 इत्यार्हीयष्ठञ्। विशब्देन प्रादिसमासः। विशब्दोऽयमिह गार्दभरथिक इत्यस्य गुणप्रतिषेधे वर्तते। अत्र `तत्पुरुषे तुल्यार्थ` 6|2|2 इत्यादिना पूर्वपदस्य प्रकृतिस्वर एव भवति। एवमुत्तरत्रापि। नञ्यसति, अस्मिन्? प्रत्युदाहरणेऽपि यत्? पूर्वपदं प्रकृतिस्वरः प्रत्युदाहार्यः। `गार्दभरथिकदन्योऽगार्दभरथिकः` इति। अत्र गार्दभरथिकादन्यत्र नञ्वर्तते, न तु गार्दभरथिकत्वस्य प्रतिषेधे; पर्युदासत्वादस्य। `गुण इति तद्धितार्थप्रवृत्तिनिमित्तम्` इत्यादि। तद्धितार्थः--कर्णवेष्टकाभ्यां सम्पादीत्येवमादिवाक्यार्थः, तत्र यत्? प्रवृत्तिनिमित्तं तद्धितान्तस्य शब्दस्य सम्पादित्वादि तत्? गुण इत्युच्यते। आदिशब्देन तदर्हत्वादेग्र्रहणम्। तद्धितान्तमलमर्थञ्च परिग्रह्रते। `तत्प्रतिषेधः` इत्यादि। तस्य प्रतिषेधो यत्र समास उच्यते तत्रायं विधिः। कथं तसय गुणस्य प्रतिषेध उच्यते? इत्याह--`कर्णवेष्टकाभ्यां न सम्पादि मुखम्` इति। एतेन सर्वेण प्रसज्यपरतिषेधेऽयं विधिः, न पर्युदास इति दर्शयन्नगार्दभरथिक इत्यतर प्रत्युदाहरणेऽस्य विधेरभावं दर्शयति। `पाणिनीयम्` इति। `वृद्धाच्छः` (4.2.125। `अपाणिनीयः` इति। अत्राध्येतर्यर्थे यस्तद्धितस्तदन्तमुत्तरपदम्। न सम्पाद्यर्हहिताद्यमलमर्था ये तद्धितास्तदन्तम्। `वोढा` इति। पूर्ववद्? धत्वढत्वष्टुत्वढलोपा विधेयाः, `सहिवहोरोदवर्णस्य` 6|3|111 इत्योत्त्वम्। `अवोढा` इति। अत्राहार्थो य कृदतः स उत्तरपदम्। तेन तद्धितगरहणादन्तोदात्तत्वमुत्तरपदस्य न भवति। अव्ययपूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदप्रकृतस्वरापवादो योगः। एवमुत्तरेऽपि योगा द्रष्टव्याः। `प्राग्बहुव्रीहाविदमेतत्` 6|2|161 इत्यादियोगात्॥
सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठय् । छ्èअदिक इति । छ्èअदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठञ् । नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तैति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमितं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वातस्य शास्त्र उदाहृतम् ॥ इति । कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेअति । अर्हर्थे तृच्, ढत्वधात्वष्टुअत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ॥
सिद्धान्तकौमुदी
संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.