Page loading... Please wait.
6|2|134 - चूर्णादीन्यप्राणिषष्ठ्याः
॥ तस्मै पाणिनये नमः ॥
6|2|134
SK 3868
चूर्णादीन्यप्राणिषष्ठ्याः   🔊
सूत्रच्छेदः
चूर्णादीनि (प्रथमाबहुवचनम्) , अ-प्राणि-षष्ठ्याः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
उत्तरपदादिः  6|2|111
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च। चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति। मुद्गचूर्णम्। मसूरचूर्णम्। अप्राणिषष्ठ्याः इति किम्? मत्स्यचूर्णम्। षष्ठ्याः इति किम्? परमचूर्णं। चूर्ण। करिप। करिव। शाकिन। शाकट। द्राक्षा। तूस्त। कुन्दम। दलप। चमसी। चक्कन। चौल। चूर्णादिः। चूर्णादीन्य् प्राण्युपग्रहातिति सूत्रस्य पाठान्तरम्। तत्र उपग्रहः इति षष्ठ्यन्तम् एव पूर्वाचार्योपचारेण गृह्यते।
`चूरी दाहे` (धातुपाठः-1158), अस्मान्निष्ठा, ते चूर्णमन्तोदात्तम्। करिणः पातीति `आतोऽनुपसर्गे कः` 3|2|3 पकारस्य पक्षे वकारो निपात्यते--करिपः, करिवः। कृत्स्वरेण थाथादिस्वरेण वान्तोदात्तः। `महेरितण्? च` (द।उ।5।19) बहुलवचनाच्छकेरपि भवति, शाकिनम्, प्रत्ययस्वरेण मद्योदात्तम्। `शकादिभ्योऽटच्` (द।उ।5।2;पं।उ।4।81) [शकादिभ्योऽटन्--।दौ;पं।उ।] शकटम्। तद्वहतीति शकटवण्? शाकटम्। प्रत्ययस्वरेणान्तोदात्तः। द्राग्द्रूतं क्षीयत इति द्राक्षा, पृषोदरादित्वात्। अन्तोदात्तोऽयं शब्दः। `तुस ह्यस ह्लस रसशब्दे` (धातुपाठः-710, 711,712,713), ततो बहुलवचनात्? `हसिमृग्रिणवामिदमिलूपूधुर्वीभ्यस्तन्` (द।उ।6।7,पं।उ।3।86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन्--द।उ; हसिमृगरण्वामिदमूलपूर्विभ्यस्तन्--पं।उ।] इति तन्, निपातनाद्दीर्घश्च। तूस्तमाद्युदात्तम्। `कुत्सितं दुनोतीति `क्विबवचिप्रच्छि` इत्यादौ सूत्रे (वा।288) क्विबिति योगविभागः। `दुदु उपतापे` (दा।पा।1256) इत्यस्मादपि क्विप्, `बहुलवचनात्? अनित्यत्वाद्वागमशासनस्य` (व्या।प।99) तुगभावः, पूर्वपदस्य च बहुलवचनादेव मुम्--कुन्दु, तन्मिमीत इति `माङ्माने` (दा।पा।1088) इत्यस्मात्? कः, कुन्दुमोऽन्तोदात्तः। `उषिकुटिदलिकचिखजिभ्यः कपन्` (द।उ।7।9) तेन दलप आद्युदात्तः। `अत्यविचमितमिनमि` (द।उ।9।44) इत्यादिनाऽसच्--चमसः, ततो जातिलक्षणो ङीष्? 4|1|63 चमसी। `चक तृप्तौ` (धातुपाठः-783) इत्यस्मात्? कविप्, चक्। `कनी दीप्तिकान्तिगतिषु` (धातुपाठः-460) [कन दीप्तिकान्तिगतिषु--धातुपाठः-] तस्मादच्, कनः। चककनः। चोलस्यापत्यं चौलः, `द्व्यञ्मगध` 4|1|168 इत्यादिनाऽण्। एते चूर्णादयः। `मुद्गचूर्णम्` इति। `मुदि ग्रोर्गग्गौ` (द।उ।3।66) इति मुद्गोऽन्तोदात्तः। `मसूरचूर्णम्` इति। `मसेरूरन्` (द।उ।8।95) मसूर आद्युदात्तः। `मत्स्यचूर्णम्` इति। मत्स्यः प्रातिपदिकस्वरेणान्तोदात्तः। `तत्रोयग्रह इति षष्ठन्तमेव` इति। अनेन तुल्यार्थतां सूत्रयोर्दर्शयति। कथं पुनरुपग्रहः षष्ठन्तमेव गृह्रते? इत्याह--`पूर्वाचार्योपचारेण` इति। पूर्वाचार्या हि षष्ठन्तमुपग्रह इत्येवमुपचरन्ति स्म। तेनेह पूर्वा चार्योपचारेण हेतुना षष्ठन्तमेवोपग्रह इति गृह्रते। समासस्वरापवादो योगः एवमुत्तरेऽपि त्रयः॥
चूरी दाहे अस्मात् क्तः चूर्णम्। वा गतिगन्धनयोः, पा रक्षणे - आभ्यां करिशब्द उपपदे आतोऽनुपसर्गे कः, करिवम्, करिपम्। महेरिनण्, बहुलवचनात् शकेरपि भवति - शाकिनम्, शकादिभ्योऽटच्, शकटम्, तद्वहतीति शकटादण् - शाकटम् । द्राक् क्षरति द्राक्षा, पृषोदरादिः । तुस शब्दे ततो बहुलवचनात् क्तः उपधादीर्घत्वं च । कुअं दुनोति, कुत्सितं वा दुनोतीति क्किप्, अस्मादेव निपातनातुगभावः, पूर्वपदस्य च मुम् कुन्दुअं मिमीते कुन्दुमः । दलेः कपन्, दलपः । चमेरसच् चमसः ततो जातिलक्षणो ङीष् - चमसी । कनी दीप्तिकान्तिगतिषु - अस्मात् पचाद्यच्, अस्मादेव निपातनाद् द्वर्वचनम् - चक्कनः । च्कन इत्यन्ये पठन्ति, तत्रापि निपातनादेव रुपसिद्धिः । चोलस्यापत्यम् द्व्यचः इत्यण् - चौलः । एते चूर्णादयः । एपूर्वाचार्योपचारेणेति । उपचारः प्रयोगः ॥
सिद्धान्तकौमुदी
एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.