Page loading... Please wait.
6|1|91 - उपसर्गादृति धातौ
॥ तस्मै पाणिनये नमः ॥
6|1|91
SK 74
उपसर्गादृति धातौ   🔊
सूत्रच्छेदः
उपसर्गात् (पञ्चम्येकवचनम्) , ऋति (सप्तम्येकवचनम्) , धातौ (सप्तम्येकवचनम्)
अनुवृत्तिः
आत्  6|1|87 (पञ्चम्येकवचनम्) , वृद्धिः  6|1|88 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आत् उपसर्गात् ऋति धातोः पूर्वपरयोः एकः वृद्धिः
सूत्रार्थः
अवर्णान्तात् उपसर्गात् ऋकारादौ धातौ परे पूर्वपरयोः एकः वृद्धि-एकादेशः भवति ।
उपसर्गाः क्रियायोगे 1|4|59 अनेन सूत्रेण प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञां प्राप्नुवन्ति । यदि कश्चन अकारान्तः/ आकारान्तः उपसर्गः ऋकारादेः धातोः पूर्वम् आगच्छति, तर्हि अवर्ण-ऋवर्णयोः एकः वृद्धि-एकादेशः "आर्" विधीयते ।

यथा - प्र + ऋच्छति = प्रार्च्छति । परा + ऋच्छति = परार्च्छति ।

अत्र वृद्धि-एकादेशः आद्गगुणः 6|1|87 इत्यनेन निर्दिष्टं गुणं बाधित्वा आगच्छति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "आत् उपसर्गात्" इत्युक्तम् अस्ति । येन विधिस्तदन्तस्य 1|1|72 अनेन सूत्रेण अस्य अर्थः "अवर्णान्तात् उपसर्गात्" इति "अन्तग्रहणं" कृत्वा करणीयः । तथैव, अत्र "ऋति धातौ" इत्यपि उक्तम् अस्ति । अत्र यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया "ऋकारादौ धातौ" इति आदिग्रहणं कृत्वा अर्थः ज्ञातव्यः ।
2. आ, ऐ, औ एतेषां वर्णानाम् वृद्धिरादैच् 1|1|1 इत्यनेन वृद्धिसंज्ञा भवति । एतेषु ऋकारस्य स्थाने यदि आकारादेशः भवति तर्हि उरण् रपरः 1|1|51 इत्यनेन सः नित्यं रपरः एव भवति । अतः अकार-ऋकारयोः स्थाने "आर्" आदेशः विधीयते ।
3. अत्र "आत्" इति अकारस्य पञ्चम्येकवचनम् अस्ति । अनेन अकार-आकारयोः उभयोः ग्रहणं भवति ।
4. यदि धातोः रूपम् ऋकारादिः अस्ति, तदैव अत्र वृद्धि-एकादेशः भवति । यदि धातोः रूपम् ऋकारादिः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः न भवति । यथा - प्र + आर्च्छत् = प्रार्च्छत् ।
5. अस्मिन् सूत्रे "धातौ" इति पदम् किमर्थम् स्वीक्रियते? उपसर्गाः केवलं धातोः प्राक् एव आगच्छन्ति, अतः "उपसर्गात्" इति वदामश्चेत् "धातोः" अयं अर्थः अपि स्पष्टीभवति । तथापि धातोः पदस्य अस्मिन् सूत्रे ग्रहणं क्रियते । तस्य कारणमेतत् - ऋत्यकः 6|1|128 अनेन सूत्रेण "अ + ऋ" अस्याम् अवस्थायाम् वैकल्पिकः प्रकृतिभावः अपि उच्यते । सः प्रकृतिभावः अत्र मा भूत्, एतत् स्पष्टीकर्तुम् "धातोः" इति पुनः प्रतिपादनम् आचार्यः करोति । "उपसर्गात् ऋति धातौ नित्यं वृद्धि-एकादेशः भवति, प्रकृतिभावः न भवति" इत्यर्थः ।
6. "ऋति" इत्यत्र तपरकरणम् कृतम् अस्ति, अतः केवलं ह्रस्व-ऋकारादि-धातौ परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, दीर्घ-ॠकारादौ धातौ परे न । यथा - प्र + ॠणाति = प्रर्णाति । इत्यत्र आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशं कृत्वा रूपं सिद्ध्यति ।
One-line meaning in English
When an अवर्णान्त उपसर्ग is followed by a ऋकारादि धातु, both of them undergo a वृद्धि-एकादेश.
काशिकावृत्तिः
आतित्येव। अवर्णान्तादुपसर्गातृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गातिति किम्? खट्वर्च्छति। मालर्च्छति। प्रगता ऋ च्छका अस्माद् देशात् प्रर्च्छको देशः। यत्क्रियायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः इति। ऋति इति किम्? उप इतः उपेतः। तपरकरणम् किम्? उप ऋकरीयति उपर्कारीयति। वा सुप्यापिशलेः 6|1|92 इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। ऋत्यकः 6|1|128 इति हि शाकल्यस्य प्रक्र्तिभावः प्राप्नोति।
`उपाच्र्छति` इति। `ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु` (धा।प।1296) `प्रगता ऋच्छका अस्माद्देशात्? प्रच्छको देशः` इति। अत्र `यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति` इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्। `वा सुप्यापिशलेरिति विकल्पः स्यत्` इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्, यावत सम्बन्धिशब्दा हि नियतं प्रतयोगिनमुपस्थापयन्ति, तद्यथा--पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्? सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह--`उपसर्गग्रहणादेव` इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा पराच्र्छतीत्यत्र `ऋत्यकः` 6|1|128 इति परत्वात्? शाकल्यस्य मतेन परकृतवद्भावः ल्यात्। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्। सति हि धातुग्रहणे योगविभागः क्रियते--उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वत्र्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ `उपसर्गाच्छन्दसि धात्वर्थे` 5|1|117 इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्। `उपसर्गाच्छन्दसि धात्वर्थे` इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्॥
उपार्च्छतीति। ठृच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषुऽ। प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्। वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोतरार्थन्तपरकरणमिति भावः। धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ॥
सिद्धान्तकौमुदी
अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उपार्च्छति । प्रार्च्छति ॥
उपसर्गादृति धातौ - उपसर्गादृति । आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते । तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः । अकारान्तादिति लभ्यते । ऋतीति धातोर्विशेषणम् । यस्मिन्विधिरिति तदादिविधिः । ऋकारादाविति लभ्यते । वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह — अवर्णान्तादित्यादिना । एकादेश इति ।पूर्वपरयोरचो॑रिति शेषः । अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात् । उपाच्र्छति प्राच्र्छतीति । उप ऋच्छतिं प्रऋच्छति इति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम् ।
उपसर्गादृति धातौ - उपसर्गादृति । उपसर्गात्किम् , खट्वच्र्छति । ऋति किम् , उपेतः । तपरकरणमुत्तरार्थम् । इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात् । धातौ किम् , उपर्कारः । नन्वत्रउपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात् । उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपियत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः॑ इति ऋकारं प्रति अनुपसर्ग एव । तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्त्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएवयोगविभागेन पुनर्विधानार्थ॑मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः ।
लघुसिद्धान्तकौमुदी
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
महाभाष्यम्
उपसर्गादृति धातौ( 2528) (धातुग्रहणप्रयोजनभाष्यम्) धाताविति किमर्थम् ? इह मा भूत् । प्रर्षभं वनम् ।। (6168 धातुग्रहणानर्थक्यबोधकवार्तिकम् ।। 1 ।।) - उपसर्गाद्वृद्धिविधौ धातुग्रहणे उक्तम् - किमुक्तम् ? गत्युपसर्गसंज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनमिति ।। क्रियमाणेऽपि धातुग्रहणे प्रर्छक इति प्राप्नोति । यत्क्रियायुक्ताः प्रादयस्तं प्रतीति वचनान्न भवति ।। (धातुग्रहणप्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् ‐ - उपसर्गादृति धातौ वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? ह्रस्वत्वम् ऋत्यकः 6|1|128 इति । ऋति ह्रस्वादुपसर्गाद्वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति स न वक्तव्यो भवति ।। (6169 विप्रतिषेधवार्तिकम् ।। 2 ।।) - छे तुकः संबुद्धिगुणः - छे तुग्भवतीत्यस्मात्संबुद्धिगुणो भवति विप्रतिषेधेन । छे तुग्भवतीत्यस्यावकाशः ‐ - इच्छति, गच्छति । संबुद्धिगुणस्यावकाशः ‐ - अग्ने, वायो । इहोभयं प्राप्नोति ‐ - अग्नेच्छत्रम् ‐ - अग्ने छत्रम्, वायोच्छत्रम् ‐ वायो छत्रम् । संबुद्धिगुणो भवति विप्रतिषेधेन ।। स तर्हि विप्रतिषेधो वक्तव्यः । (6170 विप्रतिषेधखण्डनवार्तिकम् ।। 3 ।।) - न वा बहिरङ्गलक्षणत्वात् - न वा वक्तव्यः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणस्तुक् । अन्तरङ्गलक्षणः सम्बुद्धिगुणः । असिद्धं बहिरङ्गमन्तरङ्गे ।। (आक्षेप ‐ - समाधानपरभाष्यम्) अन्तरेणापि विप्रतिषेधमन्तरेणापि चैतां परिभाषां सिद्धम् । कथम् ? इदमिह संप्रधार्यम् ‐ - संबुद्धिलोपः क्रियतां गुण इति, किमत्र कर्तव्यम् ? परत्वाद् गुणः । नित्यः संबुद्धिलोपः । कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि । गुणोऽपि नित्यः। कृतेऽपि संबुद्धिलोपे प्राप्नोत्यकृतेऽपि। अनित्यो गुणः । न हि संबुद्धिलोपे कृते प्राप्नोति । तावत्येव छेनानन्तर्यम्, तत्र तुका भवितव्यम् । तस्मात्सुष्ठूच्यते ‐ - छे तुकः संबुद्धिगुणे न वा, बहिरङ्गलक्षणत्वादिति ।। (6171 विप्रतिषेधवार्तिकम् ।। 4 ।।) - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च - संप्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन ।। संप्रसारणदीर्घत्वस्यावकाशः ‐ - हूतः, जीनः, संवीतः, शूनः । तुकोऽवकाशः ‐ - अग्निचित्, सोमसुत् । इहोभयं प्राप्नोति ‐ - परिवीषु, शकहूषु ।। णिलोपस्यावकाशः ‐ - कारणा, हारणा । तुकः स एव । इहोभयं प्राप्नोति ‐ - प्रकार्य गतः, प्रहार्य गतः ।। अल्लोपस्यावकाशः ‐ - प्रचिकीर्षिता, प्रजिहीर्षिता । तुकः स एव । इहोभयं प्राप्नोति ‐ - प्रचिकीर्ष्य गतः, प्रजिहीर्ष्य गतः ।। अभ्यासगुणादयश्च तुको भवन्ति विप्रतिषेधेन । के पुनरभ्यासगुणादयः ? ह्रस्वत्वात्त्वेत्त्वगुणाः । ह्रस्वत्वस्यावकाशः ‐ - ययतुः ‐ - ययुः, तस्थतुः ‐ - तस्थुः । तुकः स एव । इहोभयं प्राप्नोति ‐ - अपचच्छतुः, अपचच्छुः ।। अत्वस्यावकाशः ‐ - चक्रतुः, चक्रुः । तुकः स एव । इहोभयं प्राप्नोति ‐ - अपचच्छृदतुः, अपचच्छृदुः ।। इत्वस्यावकाशः ‐ - यियक्षति, पिपक्षति । तुकः स एव । इहोभयं प्राप्नोति ‐ - चिच्छादयिषति, चिच्छर्दयिषति ।। गुणस्यावकाशः ‐ - लोलूयते, बेभिद्यते । तुकः स एव । इहोभयं प्राप्नोति ‐ - चेच्छिद्यते, चोच्छुप्यते ।। (6172 विप्रतिषेधवार्तिकम् ।। 5 ।।) - यणादेशादाद्गुणः - यणादेशादाद्गुणो भवति विप्रतिषेधेन । यणादेशस्यावकाशः ‐ - दध्यत्र, मध्वत्र । आद्गुणस्यावकाशः ‐ - खट्वेन्द्रः, खट्वोदकम् । इहोभयं प्राप्नोति ‐ - वृक्षोऽत्र, प्लक्षोऽत्र ।। (6173 विप्रतिषेधवार्तिकम् ।। 6 ।।) - इरुर्गुणवृद्धिविधयश्च - इरुर्गुणवृद्धिविधयश्च यणादेशाद्भवन्ति विप्रतिषेधेन ।। इरुरोरवकाशः ‐ - आस्तीर्णम्, निपूर्ताः पिण्डाः । यणादेशस्यावकाशः ‐ - चक्रतुः, चक्रुः । इहोभयं प्राप्नोति ‐ - दूरे ह्यध्वा जगुरिः, मित्रावरुणौ ततुरिः, किरति, गिरति ।। गुणवृद्ध्योरवकाशः ‐ - चेता, गौः । यणादेशस्य स एव । इहोभयं प्राप्नोति ‐ - चयनम् ‐ - चायकः, लवनम् ‐ लावकः ।। (6174 विप्रतिषेधवार्तिकम् ।। 7 ।।) - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तोदात्तनिवृत्तिस्वरा एकादेशाच्च यणादेशाच्च भवन्ति विप्रतिषेधेन ।। भलोपस्यावकाशः ‐ - गार्ग्यः, वात्स्यः । एकादेशयणादेशयोरवकाशः ‐ - दधीन्द्रः मधूदकम्, दध्यत्र ‐ - मध्वत्र । इहोभयं प्राप्नोति ‐ - दाक्षी ‐ - दाक्षायणः, प्लाक्षीप्लाक्षायणः ।। (अचि भलोप एकादेशाद्भवति विप्रतिषेधेन । अचि भलोपस्यावकाशः ‐ - दाक्षी ‐ - दाक्षायणः, प्लाक्षी ‐ - प्लाक्षायणः । एकादेशस्यावकाशः ‐ - दण्डाग्रम्, क्षुपाग्रहम् । इहोभयं प्राप्नोति ‐ - गाङ्गेयः, गाङ्गः ।।) धातुस्वरस्यावकाशः ‐ - पचति, पठति । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - श्र्यर्थम्, श्रीषा ।। प्रातिपदिकस्वरस्यावकाशः ‐ - आम्रः, शालः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - अग्न्युदकम्, वृक्षार्थम् ।। प्रत्ययस्वरस्यावकाशः ‐ - चिकीर्षुः, औपगवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - चिकीर्ष्वर्थम्, औपगवार्थम् ।। समासान्तोदात्तस्यावकाशः ‐ - राजपुरुषः, ब्राह्मणकम्बलः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - राजवैद्यर्थम्, राजवैदीहते ।। उदात्तनिवृत्तिस्वरस्यावकाशः ‐ - नदी, कुमारी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - कुमार्यर्थम्, कुमारीहते ।। (6175 विप्रतिषेधवार्तिकम् ।। 8 ।।) - अल्लोपाल्लोपौ चार्धधातुके - अल्लोपाल्लोपौ चार्धधातुके एकादेशाद्भवतो विप्रतिषेधेन ।। अल्लोपस्यावकाशः ‐ - चिकीर्षिता, जिहीर्षिता । एकादेशस्यावकाशः ‐ - पचन्ति, पठन्ति । इहोभयं प्राप्नोति ‐ - चिकीर्षकः, जिहीर्षकः ।। आल्लोपस्यावकाशः ‐ - पपिः सोमम्, ददिर्गाः । एकादेशस्यावकाशः ‐ - यान्ति, वान्ति । इहोभयं प्राप्नोति ‐ - ययतुः, ययुः ।। (6176 विप्रतिषेधवार्तिकम् ।। 9 ।।) - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्च - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराश्चैकादेशयणादेशाभ्यां भवन्ति विप्रतिषेधेन । इयङुवङोरवकाशः ‐ - श्रियौ ‐ - श्रियः, भ्रुवौ ‐ - भ्रुवः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - चिक्षियिव ‐ - चिक्षियिम, लुलुवतुः ‐ - लुलुवुः, पुपुवतुः ‐ - पुपुवुः ।। गुणवृद्ध्योरवकाशः ‐ - चेता, गौः । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - साधुचायी, सुचायी, नग्नंभावुकोऽध्वर्युः, शयिता, शयितुम् ।। टितोऽवकाशः ‐ - षण्णाम्, सप्तानाम्, पञ्ञ्चानाम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - वृक्षाणाम्, प्लक्षाणाम् ।। कितोऽवकाशः ‐ - साधुदायी, सुष्ठुदायी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - दायकः, धायकः ।। मितोऽवकाशः ‐ - त्रपुणी, जतुनी । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - अस्थीनि, दधीनि, अतिसखीनि ब्राह्मणकुलानि ।। पूर्वपदविकाराणामवकाशः ‐ - होतापोतारौ । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - नेष्टोद्गातारौ, आग्नेन्द्रम् ।। (6177 विप्रतिषेधबोधकवार्तिकम् ।। 10 ।।) - उत्तरपदविकाराश्च - उत्तरपदविकाराश्चेति वक्तव्यम् ।। उत्तरविकाराणामवकाशः ‐ - समीपम्, दुरीपम् । एकादेशयणादेशयोः स एव । इहोभयं प्राप्नोति ‐ - नीपम्, वीपम्, प्रेपम्, परेपम् ।।