Page loading... Please wait.
6|1|90 - आटश्च
॥ तस्मै पाणिनये नमः ॥
6|1|90
SK 269
आटश्च   🔊
सूत्रच्छेदः
आटः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्) , वृद्धिः  6|1|88 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
आटः अचि पूर्वपरयोः एकः वृद्धिः
सूत्रार्थः
आट्-आगमात् अच्-वर्णे परे उभयोः एकः वृद्धि-एकादेशः भवति ।
आट्-अयम् कश्चन आगमः । अस्मात् आगमात् परः यदि स्वरः आगच्छति, तर्हि उभयोः एकः वृद्धि-एकादेशः भवति ।

उदाहरणानि एतादृशानि -

1) आडजादीनाम् 6|4|72 इत्यनेन अजादिधातूनाम् विषये लुङ्-लङ्-लृङ्-लकारेषु परेषु आट्-आगमः भवति । अत्र अनेन सूत्रेण वृद्धि-एकादेशः विधीयते । यथा, अट्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ इयम् प्रक्रिया जायते -
अट् + लङ्
→ आट् + अट् + लङ् [आडजादीनाम् 6|4|72 इति आडागमः]
→ आ + अट् + तिप् [तिप्तस्झि... 3|4|78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-आदेशः]
→ आट् + शप् + तिप् [कर्तरि शप् 3|1|68 इति विकरणप्रत्ययः शप्]
→ आट् + अ + ति [आटश्च 6|1|90 इति वृद्धि-एकादेशः । ]
→ आट् + अ + त् [इतश्च 3|4|100 इति इकारलोपः]
→ आटत् ।

अस्मिन् उदाहरणे अकः सवर्णे दीर्घः 6|1|101 इत्यनेन प्राप्तं सवर्णदीर्घं बाधित्वा अपवादरूपेण अत्र वृद्धि-एकादेशः भवति।

2) आडुत्तमस्य पिच्च3|4|92 इत्यनेन लोट्लकारस्य विषये उत्तमपुरुषस्य प्रत्ययानाम् "आट्" आगमः भवति । यथा, आत्मनेपदस्य उत्तमपुरुषैकवचनस्य इट्-प्रत्ययस्य विषये प्रत्ययनिर्माणस्य प्रक्रिया इयम् जायते -
इट् [लोट्लकारस्य स्थाने आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् इट्-प्रत्ययः]
→ आट् + इट् [आडुत्तमस्य पिच्च3|4|92 इति आडागमः]
→ आ + इ [इत्संज्ञालोपः]
→ ऐ [आटश्च 6|1|90 इति वृद्धि-एकादेशः ।]

अस्मिन् उदाहरणे आद्गुणः 6|1|87 इत्यनेन प्राप्तं गुण-एकादेशं बाधित्वा अपवादरूपेण अत्र वृद्धि-एकादेशः भवति।

3) आण्नद्याः 7|3|112 इत्यनेन नदीसंज्ञकात् परस्य ङित्-प्रत्ययस्य आट-आगमः भवति । यथा, नदी-शब्दस्य चतुर्थ्यैकवचनस्य प्रक्रिया इयम् -
नदी + ङे [चतुर्थी-एकवचनस्य प्रत्ययः]
→ नदी + आट् + ए [ आण्नद्याः 7|3|112 इति आट्-आगमः]
→ नदी + ऐ [ आटश्च 6|1|90 इति वृद्धि-एकादेशः ।]
→ नद्यै [इको यणचि 6|1|77 इति यणादेशः।]

अस्मिन् उदाहरणे वृद्धिरेचि6|1|88 इत्यनेन प्राप्तं वृद्धि-एकादेशं बाधित्वा अपवादरूपेण अत्र (पुनः) वृद्धि-एकादेशः एव भवति।

अनेन प्रकारेण आटश्च 6|1|90 इत्यनेन निर्दिष्टः वृद्धि-एकादेशः भिन्नेषु स्थलेषु सर्वणदीर्घस्य / गुणस्य / वृद्धेः च अपवादरूपेण आगच्छति ।
One-line meaning in English
When the आट्-आगम is followed by a अच्-letter, both of them get a वृद्धि-एकादेश.
काशिकावृत्तिः
एचि इति निवृत्तम्। अचि इत्यनुवर्तते। आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिरेकादेशो भवति। ऐक्षिष्ट। ऐक्षत। ऐक्षिष्यत। औभीत्। आर्ध्नोन्। औब्जीत्। चकारो ऽधिकविधानार्थः, उसि ओमाङोश्च 6|1|95 इति पररूपबाधनार्थः। औस्रीयत्। औङ्कारीयत्। आ ऊढा ओढा, तामैच्छतौढीयत्।
`एक्षत` इति। `ईक्ष दर्शने` (धातुपाठः-610) इति लङ्। `ऐक्षिष्ट` इति। लुङ्। `ऐक्षिष्यत` इति। लृङ्। `औम्भीत्` इति। `उभ उम्भ पूरणे` (धातुपाठः-1319,1320) इति लुङ्, इट्, अस्तिसिचोऽयुक्ते` 7|3|96 इतीट्। `ईटि` 8|2|28 इति सिचो लोपः। `औब्जीत्` इति। `उब्ज आर्जवे` (धातुपाठः-1303)। `आध्र्नोत्` इति। `ऋषु वृद्धौ` (धातुपाठः-1271) इति लङ्, `स्वादिभ्यः श्नुः` 3|1|73 इति श्नुः। `चकारोऽधिकविधानार्थः` इति। न तु वृद्धेरनुकर्षणार्थः; तदनुवृत्तेः स्वरितत्वादेव सिद्धत्वादित्यभिप्रायः। अधिकविधानार्थ इत्यस्यार्थं वाक्यान्तरेण त्रिस्पष्टीकर्त्तुमाह--`उस्योमाङोश्चेति पररूपबाधनार्थः` इति। उसिओमि आङि च यत्? पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः। चकारेम हि द्विर्वृद्धिविधानं विज्ञापयति। तत्र यद्द्वितीयं विधानं तद्? बाधकबाधनार्थं भवति। तेन `उस्यपदान्तात्` 6|1|93 इति यत्पररूपं प्राप्नोति, यच्च `ओमाङोश्च` 6|1|92 इति तदपि बाधित्वा वृद्धिरेव भवति। `औरुआईयत्` `औङ्कारीयत्` इति। उरुआशब्दादोङ्कारशब्दाच्च `सुप आत्मनः क्यच्` 3|1|8 , `क्यचि च` 7|4|33 इतीत्त्वम्, क्यजन्ताल्लुङ्, आट्? `उस्यपदान्तात्` 6|1|93 इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति। `औढीयत्` इति। ओढाशब्दात्? क्यजन्तल्लुङ्, आडागमे कृते `ओमाङोश्च` 6|1|92 इति पररूपे बाधके प्राप्ते चकारस्याधिकविधानार्थत्वाद्वृद्धिरेव भवति॥
ठीक्ष दर्शनेऽ, ठुभ उम्भ पूरणेऽ, ठुब्ज आर्जवेऽ,ठृधु वृद्धौऽ-- इत्येतेषामुदाहरणानि। चकारोऽधिकविधानार्थ इति। अस्यैव विवरणम्-- उस्योमाङेश्चेति। पररूपबाधनार्थं इति। उसि, ओमि, आङ् चि यत्पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः; अन्यथा परत्वातदेव पररूपं स्यात्। औस्रीयदिति। अनर्थकेऽप्युसि पररूपविधानादत्र प्रसङ्गः ॥
सिद्धान्तकौमुदी
आटोऽचि परे वृद्धिरेकादेशः स्यात् । बहुश्रेयस्यै । बहुश्रेयस्याः । नद्यन्तात्परत्वान्नुट् । बहुश्रेयसीनाम् ॥
आटश्च - टित्त्वादाद्यवयवः । बहुश्रेयसी आ ए इति स्थिते-आटश्चा ।इकोयणची॑त्यतः अचीति "वृद्धिरेचि" इत्यतो वृद्धिरिति चानुवर्तते ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह-आटोऽचीत्यादिना । बहुश्रेयस्यै इति । "बहुश्रेयसी आ ए" इति स्थितेआटश्चे॑ति वृद्धौ यणादेशे च रूपमिति भावः । यद्यपिवृद्धिरेची॑त्येव सिद्धं तथापि ऐक्षतेत्याद्यर्थ॒माटश्चे॑ति सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । बहुश्रेयस्या इति । ङसि ङसोर्बहुश्रेयसी आ अस् इति स्थितेआटश्चे॑ति वृद्धावाकारे यणि रूपमिति भावः । अत्रापि सवर्णदीर्घेण सिद्धम् । न्याय्यत्वादाटश्चेति वृद्धिः । नद्यन्तात्परत्वादिति । श्रेयसीशब्दस्य ईकारान्तनित्यस्त्रीलिङ्गतया नदीत्वेन बहुश्रेयत्वात् । सवर्णदीर्घे प्राप्ते- ।
आटश्च - आटश्च । यद्यपि इह ङयिवृद्धिरेची॑त्येव सिद्धं, ङे सिङ्सोर्ङेरामि च सवर्णदीर्घेण, तथाप्यैन्दिददित्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् ।अजादीनामटा सिद्धम्आडजादीनाम्इति सूत्रं मास्तु इति वदतो वार्तिककारस्य मतेतुअटश्चे॑त्येव सूत्रमिति बोध्यम् ।
लघुसिद्धान्तकौमुदी
आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥
महाभाष्यम्
आटश्च (2527) (चकारप्रयोजनभाष्यम्) किमर्थश्चकारः ? वृद्धेरनुकर्षणार्थः । नैतदस्ति प्रयोजनम्, प्रकृता वृद्धिरनुवर्तिष्यते ।। इदं तर्हि ‐ - आटोऽचि वृद्धिरेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत् प्राप्नोति ? पररूपम् । उस्योमाङ्क्ष्वाटः पररूपप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ।।