Page loading... Please wait.
6|1|81 - क्षय्यजय्यौ शक्यार्थे
॥ तस्मै पाणिनये नमः ॥
6|1|81
SK 65
क्षय्यजय्यौ शक्यार्थे   🔊
सूत्रच्छेदः
क्षय्य-जय्यौ (प्रथमाद्विवचनम्) , शक्यार्थे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
शक्यार्थे क्षय्य-जय्यौ
सूत्रार्थः
"शक्यम्" अस्मिन् अर्थे "क्षय्य" तथा "जय्य" एतौ शब्दौ निपात्येते ।
निपातनम् इत्युक्ते "सिद्ध-प्रक्रियस्य निर्देशः" । इत्युक्ते, आचार्यः येषां शब्दानां प्रक्रियां विना एव निर्देशं करोति, ते शब्दाः "निपात्यन्ते" इति उच्यते । वर्तमानसूत्रेण "शक्यम्" अस्मिन् अर्थे "क्षय्य" तथा "जय्य" एतौ शब्दौ निपात्येते -
1) क्षेतुं शक्यम् = क्षय्यम् । यस्य क्षयं कर्तुं शक्यते, तत् क्षय्यम् अस्ति, इति उच्यते । यथा - धनं क्षय्यम् ।
2) जेतुं शक्यम् = जय्यम् । यस्मिन् विजयं प्राप्तुं शक्यते, तत् जय्यम् अस्ति, इति उच्यते । यथा - अर्जुनः अजय्यः ।

ज्ञायव्यम् - "क्षि"-धातोः यत्-प्रत्यये कृते "क्षेयम्" इत्यपि कश्चन शब्दः जायते । अयम् शब्दः भिन्नः अस्ति । तस्य अर्थः - "क्षेतुम् योग्यः" इति । तथैव, "जि"-धातुनिर्मितः "जेय" शब्दः अपि भिन्नः, तस्य अर्थः "जेतुम् योग्यः" इति । उदाहरणानि एतानि -
1) धनम् क्षय्यम्, पापं क्षेयम् । धनस्य क्षयं कर्तुं शक्यते, अतः धनम् क्षय्यम् अस्ति । पापस्य क्षयः कर्तव्यः, अतः पापम् क्षेयम् अस्ति ।
2) अर्जुनः अजय्यः । मनः जेयम् । अर्जुने विजयं प्राप्तुम् कोऽपि न शक्तवान्, अतः अर्जुनः अजय्यः आसीत् । मनः जेतुं योग्यम्, अतः मनः जेयम् अस्ति ।
One-line meaning in English
The words क्षय्य is provided readymade with the meaning "the one that can be reduced". The word जय्य is provided readymade with the meaning "the one that can be won"
काशिकावृत्तिः
क्षि जि इत्येतयोर् धात्वोः यति रत्यये परतः शक्यार्थे गम्यमाने एकारस्य अयादेशो निपात्यते। शक्यः क्षेतुम् क्षय्यः। शक्यो जेतुम् जय्यः। शक्यार्थे इति किम्? क्षेयं पापम्। जेयो वृषलः।
``क्षि` `जि` इत्येतयोर्धात्वोः` इति। क्षिग्रहणेन `क्षि क्षये` (धातुपाठः-236) `क्षि वासगत्योः` (धातुपाठः-1407) क्षिष्? [`क्षीष हिंसायाम्`--धातुपाठः। `क्षि हिंसायाम्` (1276)--धातुपाठः] हिंसायाम्? (धातुपाठः-1506) इत्येषां ग्रहणम्, जिग्रणे तु `जि जये (धातुपाठः-561) इत्येतस्य। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य` (व्या।प।53) इत्यनया परिभाषया `क्षिष्? हिंसायाम्` इत्यस्य ग्रहणं न प्राप्नोति? नैष दोषः निपातनात्? भविष्यति। किं हि निपातनान्न लभ्यते? यथैव हि ततोऽन्यदलाक्षिकं कार्यं किञ्चिद्भविष्यति, तथेदमपि स्यात्। अर्थग्रहणं कर्मण्यपबि यता स्यात्; अन्यथा शकेरकर्मकत्वात्? भाव एव निपातनं विज्ञायते--क्षय्यं देवदत्तेनेति। कर्मणि तु न स्यात्--क्षय्यो व्यधिरिति, न ह्रकर्मकेभ्यः कर्मणि कृत्यप्रत्यय उपपद्यते। अर्थग्रहणेन तु कृत्यार्थ उपलक्ष्यते। कृत्याश्च कर्मण्यपि विहिताः, तेन तत्रापि निपातनाद्विज्ञायते॥
उदाहरणे शक्यार्थे कृत्यः, प्रत्युदाहरणे त्वावश्यके ॥
सिद्धान्तकौमुदी
यान्तादेशनिपातनार्थमिदम् । क्षेतु शक्यं क्षय्यम् । जेतु शक्यं जय्यम् । शक्यार्थे किम् । क्षेतुं योग्यं क्षेयं पापम् । जेयं मनः ॥
क्षय्यजय्यौ शक्यार्थे - क्षय्यजय्यौ शक्यार्थे । शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तेते इत्यर्थः । ननु किमपि कार्यं विधेयमत्र न दृश्यते इत्यत आह — यान्तेति । प्रातिस्विकविधिं विंना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम् । ततश्च शक्यार्थके यादौ प्रत्यये परेक्षि क्षये॒॑जि जये॑इति धातोरेचोऽयिति यान्तादेशः स्यादिति विधानमत्र फलति । शक्यार्थे क्षिज्योर्यान्त इति प्रातिस्विकविधौ गौरवादेवं निपातनमिति भावः । क्षय्यमिति ।कृत्या॑इत्यधिकारे क्षिधातोरचो यदिति यत्प्रत्ययः । स चशकि लिङ् चे॑ति शक्यार्थः । शक्यार्थे लिङ् स्याच्चात्कृत्या इति तदर्थः ।सार्वधातुकार्धधातुकयो॑रिति इकारस्य गुण एकारः । तस्या.ञच्परकत्वाऽभावादप्राप्तोऽयादेशोऽत्र निपात्यते । जय्यमित्यपि पूर्ववत् । शक्यार्थे किमिति । "शक्यार्थे" इत्यस्य किं प्रयोजनमिति प्रश्नः । क्षेतुमित्यादि । क्षेतुं योग्यं क्षेयं पापम् । जेतुं योग्यं जेयं मन इत्यन्वयः ।अर्हे कृत्यतृचश्चे॑ति यत् । स च न शक्यार्थक इति नात्र यान्तादेश इत्यर्थः ।
क्षय्यजय्यौ शक्यार्थे - क्षय्यमिति ।शकिलिङ् चे॑ति यत् । चात्कृत्याः । क्षेयमिति ।अर्हे कृत्यतृचश्चे॑ति यत् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.