Page loading... Please wait.
6|1|75 - दीर्घात्‌
॥ तस्मै पाणिनये नमः ॥
6|1|75
SK 148
दीर्घात्‌  
सूत्रच्छेदः
दीर्घात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
 तुक्  6|1|71 (प्रथमैकवचनम्) , छे  6|1|73 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|71
सम्पूर्णसूत्रम्
दीर्घात् छे तुक् संहितायाम्
सूत्रार्थः
दीर्घ-स्वरस्य छकारे परे संहितायाम् तुगागमः भवति ।
दीर्घस्वरात् परः छकारः आगच्छति चेत् संहितायाम् तस्य तुक्-आगमः भवति । आद्यन्तौ टकितौ 1|1|46 इत्यनेन अयम् आगमः स्थानिनः अनन्तरम् आगच्छति । यथा - "म्लेछ्" इति भ्वादिगणस्य धातुः । अस्य रूपेषु एकारात् परः तुगागमः भवति, अतः "म्लेच्छति" एतादृशानि रूपाणि सिद्ध्यन्ति ।

ज्ञातव्यम् - अस्मिन् सूत्रे स्थानीवाचकम् षष्ठ्यन्तं पदम् नास्ति । अस्याम् स्थितौ वस्तुतः यद्यपि उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इत्यनेन सामान्यरूपेण सप्तमीस्थं पदं स्थानिनं निर्देशयति, तथापि अत्र पञ्चम्या निर्दिष्टम् पदम् "दीर्घात्" इत्येव स्थानीरूपेण कार्यं करोति ।
One-line meaning in English
A दीर्घ स्वर gets a तुक्-आगमः when followed by a छकार when संहिता is present.
काशिकावृत्तिः
छे तुकिति वर्तते। दीर्घात् परो यः छकारः तस्मिन् पूर्वस्य तस्य एव दीर्घस्य तुगागमो भवति। ह्रीच्छति। म्लेच्छति। अपचाच्छायते। विचाच्छायते।
Text Unavailable. Please use feedback link below to provide the text if you have.
ठभयनिर्द्देशे पञ्चमीनिर्द्देशो बलीयान्ऽ, अचरितार्था च पञ्चमी, तेन दीर्घादिति पञ्चम्या च्छ इत्यस्याः सप्तम्याः षष्ठ।लं प्रकल्पितायां च्छकारस्यैव तुका भवितव्यमिति भ्रान्तिमपाकारोति--दीर्घात्परो य इत्यादि। अनेन पञ्चम्या अन्वयो दर्शितः, प्रक्रमाभेदाय तु च्छकारस्य निमितत्वम्, दीघस्य च कार्यित्वं दर्शयति। तस्मिन्पूर्वस्य तस्यैव दीर्घस्येति। अत्र च लिङ्गम्--ठ्शाच्छाऽ, ठ्विभाषासेनासुराच्छायाऽ इत्यादि निर्द्देशः, अवध्यवधिमद्भावस्य विवक्षितत्वादधिकरणभावस्य च विवक्षितत्वात् ठ्तस्मिन्पूर्वस्यऽ इति सप्तमी कृता। ह्रीच्छतीति। ठ्ह्रीच्छ लज्जायाम्ऽ। म्लेच्छतीतिष। ठ्म्लेच्छ अव्यक्ते शब्देऽ। अपचाच्छायत इति। ठ्छाए छेदनेऽ, यङ्, ठ्दीर्घोऽकितःऽ॥
सिद्धान्तकौमुदी
दीर्घाच्छे परे तुक्स्यात् । दीर्घस्यायं तुक् न तु छस्य । सेनासुराच्छाया (कौमुदी-828) इति ज्ञापकात् । चेच्छिद्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सेनासुरेति। यदि हि छस्य तुक्?स्यात्तर्हि छस्य चर्त्वे सति चद्वयं स्यात् संनिपातपरिभाषया चर्त्त्वाऽप्रवृत्तौ तु छकारोपरि चकारः श्रूयतेति भावः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
दीर्घात् (2512)