Page loading... Please wait.
6|1|74 - आङ्माङोश्च
॥ तस्मै पाणिनये नमः ॥
6|1|74
SK 147
आङ्माङोश्च  
सूत्रच्छेदः
आङ्-माङोः (षष्ठीद्विवचनम्) , च (अव्ययम्)
अनुवृत्तिः
 तुक्  6|1|71 (प्रथमैकवचनम्) , छे  6|1|73 (सप्तम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|71
सम्पूर्णसूत्रम्
आङ्-माङोः छे तुक् संहितायाम्
सूत्रार्थः
आङ्-इत्यस्य माङ्-इत्यस्य च छकारे परे संहितायाम् तुगागमः भवति ।
आङ्-इति प्रादिगणस्य शब्दः । अस्य चत्वारः अर्थाः सन्ति - ईषत्, मर्यादा, अभिविधि, उपसर्ग । एतेषु अर्थेषु अस्य शब्दस्य छकारे परे तुगागमः संहितायाम् नित्यं भवति ।

यथा -
1) ईषदर्थे / मर्यादार्थे - आङ् + छाया = आच्छाया ।
2) मर्यादार्थे - आङ् + छायायाः = आच्छायायाः ।
3) अभिविध्यर्थे - आङ् + छायम् = आच्छायम् ।
4) उपसर्गार्थे - आङ् + छादयति = आच्छादयति ।

माङ्-इति चादिगणस्य शब्दः । अस्य प्रयोगः निषेधं दर्शयितुम् क्रियते । यथा - मा च्छिदत् । अत्रापि संहितायाः विवक्षा नास्ति चेत् तुगागमः न भवति । यथा - मा छिदत् ।



ज्ञातव्यम् -
1. "आङ्" इत्यस्य प्रयोगः उपसर्गरूपेण धातुना सह क्रियते चेत् तत्र संहिता नित्यं विधीयते, अतः तुगागमः अपि नित्यं भवति । परन्तु यदि "आङ्" इत्यस्य प्रयोगः अन्यासु स्थितिषु क्रियते, तर्हि संहितायाः विवक्षा अस्ति चेदेव अयं तुगागमः भवति, नान्यथा । यथा - आ छाया, आच्छाया ।
2. पदान्तात् वा 6|1|76 इत्यनेन आङ् / माङ् इत्येतयोः छकारे परे विकल्पेन तुगागमे प्राप्ते अनेन सूत्रेण नित्यं तुगागमः विधीयते ।
3. "आ" तथा "मा" एतौ द्वौ कौचन अन्यौ शब्दौ अपि स्तः। परन्तु अस्मिन् सूत्रे "आङ्" तथा "माङ्" इत्यत्र ङकारस्य ग्रहणं कृतम् अस्ति । अतः "आ" यथा "मा" एतयोः अत्र ग्रहणं न करणीयम् ।
One-line meaning in English
The words आङ् and माङ् get a तुक्-आगमः when followed by a छकार when संहिता is present.
काशिकावृत्तिः
तुकिति अनुवर्तते, छे इति च। आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। पदान्ताद् वा 6|1|76 इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे ईषच्छाया आच्छाया। क्रियायोगे आच्छादयति। मर्यादाभिविध्योः आ च्छायायाः आच्चायम्। माङः खल्वपि मा च्छैत्सीत्। मा च्छिदत्। ङिद्विशिष्टग्रहणं किम्? आछाया, आच्छाया। प्रमाछन्दः, प्रमाच्छन्दः।
Text Unavailable. Please use feedback link below to provide the text if you have.
आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः--आङे ङ्ति इति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। ठाङ् मर्यादावचनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी। आच्छायमिति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। माच्छिददिति। ठिरितो वाऽ इत्यङ्। आछाया, आच्छायेति। स्मरणे चात्राकारः, ठ्वाक्यस्मरणयोरैङ्त्ऽ। प्रमेति। प्रमूर्वान्माङ्ः ठातश्चोपसर्गेऽ इत्यङ्, अत्र धातोर्ङ्त्वेऽइपि टाबन्तो न ङ्त्, ठ्गामादाग्रिहणेष्वविशेषःऽ इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि ठ्पदान्ताद्वाऽ इति विकल्प एव भवति ॥
सिद्धान्तकौमुदी
एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे (कौमुदी-149)ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥
आङ्माङोश्च - आङ्भाङोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आङ्भाङोरित्यर्थः । ननु दीर्घादित्येव सिद्धे किमर्थमिदमित्यत आह-विकल्पापवाद इति । आच्छादयति । माच्छिददिति । तुकि पूर्ववत्प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥
महाभाष्यम्
आङ्माङोश्च (2511) (वार्तिकावतरणभाष्यम्) अथ किमर्थमाङ्माङोः सानुबन्धकयोर्निर्देशः ? (6105 अनुबन्धफलबोधकवार्तिकम् ।। 1 ।।) - आङ्माङोः सानुबन्धकयोर्निर्देशो गतिकर्मप्रवचनीयप्रतिषेधसंप्रत्ययार्थः - आङ्माङोः सानुबन्धकयोर्निर्देशः क्रियते ‐ - आङो गतिकर्मप्रवचनीयसंप्रत्ययार्थः, माङः प्रतिषेधसंप्रत्ययार्थः ।