Page loading... Please wait.
6|1|72 - संहितायाम्
॥ तस्मै पाणिनये नमः ॥
6|1|72
SK 145
संहितायाम्   🔊
सूत्रच्छेदः
संहितायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
संहितायाम्
सूत्रार्थः
अधिकारोऽयम् । इतः आरभ्य "पारस्करप्रभृतीनि च संज्ञायाम्" [6।1।157] इति यावत् यद् किमपि उच्यते तत् संहितायाम् एव भवति ।
"संहिता" इत्युक्ते वर्णानाम् आतिशयसान्निध्यम् । परः सन्निकर्षः संहिता 1|4|109 इति तस्य व्याख्या । इत्युक्ते, यत्र द्वयोः वर्णयोः उच्चारणस्य मध्ये विरामः न स्वीक्रियते, तत्र तयोः वर्णयोः मध्ये "संहिता" अस्ति इत्युच्यते ।

एतत् सूत्रम् अधिकारसूत्रम् अस्ति । अस्मात् सूत्रात् आरभ्य पारस्करप्रभृतीनि च संज्ञायाम् 6|1|157 इति सूत्रपर्यन्तम् यद् किमपि उच्यते, तत् "संहितायाम् सत्याम्" एव भवति इत्यर्थः ।

ज्ञातव्यम् - अत्र "संहितायाम्" इति विषयसप्तमी अस्ति, परसप्तमी / निमित्तसप्तमी न ।
One-line meaning in English
This is an अधिकार that runs till "पारस्करप्रभृतीनि च संज्ञायाम्" [6।1।157]. Anything told in this अधिकार happens only when there is संहिता.
काशिकावृत्तिः
अधिकारो ऽयम् अनुदात्तं पदम् एकवर्जम् 6|1|158 इति यावत्। प्रागेतस्मत् सूत्रादित उत्तरं यद् वक्ष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति इको यणचि 6|1|77, दध्यत्र। मध्वत्र। संहितायाम् इति किम्? दधि अत्र। मधु अत्र।
`संहितायाम्` इति विषयसप्तमीयम्। तेन यदि कार्यिनिमित्तयोः संहिता विषयभूता भवति, तह्र्रेवं वक्ष्यमाणं कार्यं भवति; नान्यर्थेति वेदितव्यम्।
ठ्संहितायाम्ऽ इति विषयसप्तमीयम्। कार्यिनिमितयोः संहितायां विषयभूतायां वक्ष्यमाणं कार्यं भवतीत्यर्थः। वक्ष्यति---ठिको यणचिऽ इति, अन्तरं तु विधिमतिक्रामतोऽभिप्रायो मृग्यः। दधि अत्रेति। ननु च ठिकोयणचिऽ इत्यधिकरणसप्तम्येषा, तच्चाधिकरणमौपश्लेषिकादन्यद्वर्णेषु न सम्भवति, तत्राच्युपश्लिष्टस्येको विधीयमानो यण्वर्णान्तरव्यवाये कालव्यवाये च न भविष्यतीति नार्थः संहिताधिकारेण? ज्ञापनार्थं तु, एतज्ज्ञापयति--ठ्कालव्यवायो निर्द्दिष्टपरिभाषायां नाश्रीयतेऽ इति। तेनोतरपदादिकारेऽपि विधीयमानं कार्यमलुगादि कालव्यवधानेऽपि भवत्येव--आखरेष्ठ इत्याखरे स्थः, अग्नाविष्णू इत्यग्ना विष्णू इत्यादि ॥
सिद्धान्तकौमुदी
इत्यधिकृत्य ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
संहितायाम्। इत्यधिकृत्येति। एतच्च `इकोयणची`त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
संहितायाम् (2509) (योगानर्थक्यबोधकभाष्यम्) अयं योगः शक्योऽवक्तुम् । कथम् ? अधिकरणं नाम त्रिः प्रकारम् ‐ - व्यापकम्, औपश्लेषिकम्, वैषयिकम् ‐ - इति । शब्दस्य च शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि 6|1|77 अचि उपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यति ।।