Page loading... Please wait.
6|1|68 - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्
॥ तस्मै पाणिनये नमः ॥
6|1|68
SK 252
हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्  
सूत्रच्छेदः
हल्-ङि-आब्भ्यः (पञ्चमीबहुवचनम्) , दीर्घात् (पञ्चम्येकवचनम्) , सु-ति-सि (प्रथमैकवचनम्) , अपृक्तम् (प्रथमैकवचनम्) , हल् (प्रथमैकवचनम्)
अनुवृत्तिः
लोपः  6|1|66 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
दीर्घात् हल्-ङी-आब्भ्यः सु-ति-सि-अपृक्तम् हल् लोपः
सूत्रार्थः
हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते ।
सर्वप्रथमम् अस्मिन सूत्रे प्रयुक्तानां शब्दानाम् परिचयं प्राप्नुमः ।

1) अपृक्तः इत्युक्ते सः प्रत्ययः यस्मिन् केवलं एकः वर्णः अस्ति । अपृक्तः एकाल् प्रत्ययः 1|2|41 इति अपृक्तसंज्ञाविधायकं सू्त्रम् ।
2) ङ्यन्तात् इत्युक्ते ङीप्/ङीष्/ङीन् प्रत्ययान्तशब्दात् । एते सर्वे स्त्रीप्रत्ययाः सन्ति ।
3) आबन्तात् इत्युक्ते टाप्/चाप्/डाप्-प्रत्ययान्तशब्दात् । एते अपि सर्वे स्त्रीप्रत्ययाः सन्ति ।

अतः अस्य सूत्रस्य अर्थः भवति - हल्-वर्णात् परः, तथा च ङीप्/ङीष्/ङीन्/टाप्/चाप्/डाप्-प्रत्ययान्त-दीर्घशब्दात् परः - (1) प्रथमैकवचनस्य सुँ-प्रत्ययः , (2) प्रथमपुरुषैकवचनस्य ति-प्रत्ययः , अथवा (3) मध्यमपुरुषैकवचनस्य सि-प्रत्ययः - अपृक्तस्वरूपे अस्ति चेत् तस्य अपृक्त-प्रत्ययस्य लोपः भवति । यथा -

1) मरुत् + सुँ → मरुत् + स् [इत्संज्ञालोपः] → मरुत् । अत्र हलन्तात् परस्य सुँ-प्रत्ययस्य अपृक्तः सकारः लुप्यते ।

2) नदी + सुँ → नदी + स् [इत्संज्ञालोपः] → नदी । अत्र ङ्यन्तात् परस्य सुँ-प्रत्ययस्य अपृक्तः सकारः लुप्यते ।

3) माला + सुँ → माला + स् [इत्संज्ञालोपः] → माला । अत्र आबन्तात् परस्य सुँ-प्रत्ययस्य सकारः लुप्यते । ।

4) हन्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ प्रक्रियां सङ्क्षेपरूपेण इयम् -
हन् + तिप्
→ अ हन् + तिप् [अडागमः]
→ अ हन् + त् [इतश्च 3|4|100 इत्यनेन इकारलोपः ]
→ अहन् [ हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6|1|68 इति तकारलोपः । अत्र "त्" इति एकाल्-प्रत्ययः, अतः अत्र अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः नकारात् परः तकारः अत्र अनेन सूत्रेण लुप्यते ।]

5) हन्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - अ + हन् + स् = अहन् । अत्रापि प्रथमपुरुष-एकवचनवत् एव प्रक्रिया भवति ।

ज्ञातव्यम् -

1) ङीष् / ङीप् / ङीन्-प्रत्ययानां योजनेन प्रायः दीर्घान्तः शब्दः एव जायते । परन्तु केषुचित् स्थलेषु समासान्तं पदं ह्रस्वं भवितुमर्हति । यथा, कौशाम्ब्याः निर्गतः सः निष्कौशाम्बिः । अत्र सु-प्रत्ययस्य लोपः मा भूत्, एतत् दर्शयितुम् "दीर्घात्" इति शब्दः प्रयुक्तः अस्ति ।

2) तथैव, टाप् / चाप् / डाप्-प्रत्ययानाम् योजनेन अपि प्रायः दीर्घान्तः शब्दः एव जायते । परन्तु अत्रापि केषुचित् स्थलेषु समासान्तं पदं ह्रस्वं भवितुमर्हति । यथा, खट्वाम् अतिक्रान्तः सः अतिखट्वः । अत्र सु-प्रत्ययस्य लोपः मा भूत्, एतत् दर्शयितुम् "दीर्घात्" इति शब्दः प्रयुक्तः अस्ति ।

3) हल्-वर्णः ह्रस्वः दीर्घः वा न भवितुमर्हति, अतः "दीर्घात्" अस्य पदस्य योगः "ङ्याब्भ्यः" एतेनैव सह करणीयः, "हल्" इत्यनेन सह न ।

4) "सुँ" प्रत्ययस्य उकारः इत्संज्ञकः अस्ति, अतः अयं प्रत्ययः सर्वदा एकाल् भवति । परन्तु ति-सि-एतयोः तिङ्-प्रत्यययोः इकारस्य सर्वदा लोपः न भवति । अतः एतौ प्रत्ययौ सर्वदा एकालौ न भवतः । यत्र अनयोः प्रत्यययोः इकारस्य लोपः भवति, तत्रैव एतौ प्रत्ययौ अपृक्तौ भवतः । यथा, लङ्लकारे इतश्च 3|4|100 अनेन सूत्रेण ति-सि-प्रत्यययोः इकारस्य लोपं भूत्वा त्-स्-एतौ अवशिष्यतः । एतौ एकाल्-प्रत्ययौ । एतादृशस्य एकाल्-प्रत्ययस्य लोपः भवति इति अस्य सूत्रस्य अर्थः ।

5) वस्तुतः तु अत्र "हलः" इति षष्ठीविभक्तिः भवेत् । परन्तु सूत्रे "हल्" इति प्रथमान्तं पदम् अस्ति । अतः "लोपः" इत्यस्य अर्थः "लुप्यते" इति स्वीकृत्य "हल् लुप्यते" इति अर्थग्रहणं करणीयम् । अतः अस्य सूत्रस्य अर्थः भवति -

6) उपरिनिर्दिष्टेषु सर्वेषु उदाहरणेषु संयोगान्तस्य लोपः 8|2|23 इत्यनेन अन्तिमवर्णस्य लोपः न भवति, यतः असिद्धत्वात् संयोगान्तस्य लोपः 8|2|23 इत्यस्य अत्र प्रसक्तिः नास्ति ।

7) सर्वेषाम् आकारान्तशब्दानाम् ईकारान्तशब्दानाम् विषये एतत् सूत्रम् नास्ति । केवलं ङीष् / ङीप् / ङीन् / टाप् / चाप् / डाप्-प्रत्ययान्तशब्दानां विषये एव एतत् सूत्रम् अस्ति । अतः आकारान्त/ईकारान्त-पुँल्लिगशब्दानां विषये अस्य सूत्रस्य प्रयोगः न करणीयः । यथा - विश्वपा + सुँ → विश्वपाः । ग्रामणी + सुँ → ग्रामणीः ।

8) केचन ईकारान्तस्त्रीलिङ्गशब्दाः ङ्यन्ताः न सन्ति । यथा - अवी, तन्त्री, तरी, लक्ष्मी, ह्री, श्री, धी । अतः एतेषां परस्य अपि सुँ-प्रत्ययस्य लोपः न भवति । यथा - लक्ष्मी + सुँ = लक्ष्मीः ।
One-line meaning in English
The सुँ, ति, or सि प्रत्यय, when present as a single letter, is removed when attached to - (1) a word ending in a हल् letter, or (2) A दीर्घ word ending in the ङीप् / ङीष् / ङीन् / चाप् / टाप् / डाप् प्रत्यय.
काशिकावृत्तिः
लोप इति वर्तते। तदिह लौकिकेन अर्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यते इति लोपः। हलन्ताद्, ङ्यन्तादाबन्ताच् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात् कुमारी। गौरी। शार्ङ्गरवी। आबन्तात् खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत् अबिभर् भवात्। भृञो लङि तिपि श्लौ भृञामितित्यभ्यासस्य इत्त्वम्। अजागर् भबान्। सिलोपःअभिनो ऽत्र अच्छिनो ऽत्र। दस्य रेफः। हल्ङ्याब्भ्यः इति किम्? ग्रामणीः। सेननीः। दीर्घातिति किम्? निष्कौशाम्बिः। अतिखट्वः। सुतिसि इति किम्? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं न अस्ति। अपृक्तम् इति किम्? भिनत्ति। छिनत्ति। हलि इति किम्? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसिनां लोपो विधीयते, संयोगान्तलोपेन एव सिद्धम्? न सिध्यति। राजा, तक्षा इत्यत्र संयोगान्तलोपस्य असिद्धत्वान् नलोपो न स्यात्। उखास्रत्, पर्णध्वतित्यत्र अपदन्तत्वाद् दत्त्वं च न स्यात्। अभिनो ऽत्र इत्यत्र अतो रोरप्लुतादप्लुते 6|1|113 इत्युत्त्वं न स्यात्। अबिभर् भवानित्यत्र तु रात् सस्य 8|3|24 इति नियमाल् लोप एव न स्यात्। संयोगान्तस्य लोपे हि नलोपादिर् न सिध्यति। रात्तु ते न एव लोपः स्याद् धलस् तस्माद् विधीयते।
यदि लोप इति इहानुवत्र्तमानं शास्त्रीयेणार्थेनैवार्थवत्? स्यात् तदा तेन हलित्यस्य प्रथमान्तस्य सामानाधिकरण्येन सम्बन्धो नोपपद्यते। शास्त्रीयस्य हि लोपशब्दस्यार्थः---दर्शनाभावः=आदर्शनम्, न च हलदर्शनं भवति। न च `हल्ङ्याब्भ्यः` इति पञ्चमी हलिति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति। सामथ्र्याद्वा हलित्यस्य षष्ठन्ततया विपरिणामो भविष्यति, अतः षष्ठन्तस्य लोपशब्देन सम्बन्धो भवष्यतीति शक्यं प्रकल्पयितुम्; अकृतार्थत्वात्? प्रथमायाः षष्ठीभावस्यानुपपत्तेरित्येतदालोच्याह--`तदिह` इत्यादि। `लुप्यत इति लोपः`। कर्मणि घञ्। एतेन लौकिकार्थेनार्थवत्त्वं लोपशब्दस्य दर्शयति। लुप्यत इति निरुध्यत इत्यर्थः। लौकिकेनार्थेनार्थवता कर्मसाधनेन लोपशब्देन हलित्येतस्य विशेषणविशेष्यबाव उपपद्यते। लोपशब्देन हि लुप्यमानं वर्णमात्रमुच्यते। ` सुतिस्यपृक्तं हल्` इति। अनेन च तदेव विशिष्यते। `दीर्घात्` इति। एतच्च ङ्यापोरेव विशेषणम्; सम्भवाव्यभिचारात्, न तु हलन्तस्य; असम्भवात्। `उखारुआत्; पर्णध्वत्? इति। `रुआन्सु ध्वन्सु अधःपतने;, (धातुपाठः-754,755) उखायां रुआंसते पर्णानि ध्वंसत इति क्विप्? `अनिदिताम्` 8|4|55 चत्र्वम्--तकारः। `कुमारी` ति। `वयसि प्रथमे` 4|1|20 इति ङीष्। `गौरी` इति। `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्। `शाङ्र्गरवी` इति। `शाङ्र्गरवाद्यञो ङीन्` 4|1|13 इति डाप्। `कारीषगन्ध्या इति। `यङ्श्चाप्` 4|1|74 । `हलन्तादेव तिलोपः सिलोपश्च` इति। ननु ङ्याबन्तादित्येकारेण दर्शयति, न हि ङ्याबन्तात्? परौ तिसी सम्भवतः, धातोरेव परस्य लकारस्य तयोर्विधानात्। `अबिभर्भवान्` इति। गुणे रपरत्वे च कृते तिलोपः। `अजागर्भवान्` इति। `जाग्रोऽविचिण्णल्ङित्सु` 7|3|85 इति गुणः। भवानित्यनुप्रयोगस्तिशब्दाभिव्यक्तये। `अभिनः` इति। भिदेर्लङ् `दश्च` 8|2|75 इति रुत्वम्, `अतो रोरप्लुतादप्लुते` 6|1|109 इत्युत्त्वम्, इनमोऽकारेण सह `आद्? गुणः, 6|1|84 `एङः पदान्तादति` 6|1|105 इति पूर्वरूपत्वम्। `ग्रामणीः` इति। ग्रामं नयतीति `सत्सूद्विष` 3|2|61 इत्यादिना क्विप्। `निष्कौशाम्बिः` इति निर्गतः कौशाम्ब्या इति प्रादिसमासः, `गोस्त्रियोरुपसर्जनस्य` 1|2|48 इति ह्यस्वत्वम्। `अतिखटवः` इति। खट्वामतिक्रान्त इति पूर्ववत्? समासे कृते ह्यस्वः। `अभैत्सीत्` इति। `वदव्रज` 7|2|3 इति वृद्धिः, अपृक्त इट्। ननु सीति सामान्येन निदशात्? सिचोऽपि गरहणम्, अतो न युक्तमिदं प्रत्युदाहरणम्? अत आह--`तिसहचरितस्य` इत्यादि। तिङ्तिशब्देन साहचर्यात्? तिङ् एव सेग्र्रहणम्, न सिच इति किमत्रायुक्तम्। `बिभेद` इति। णलोऽकारोऽत्र भवत्यपृकतः, न तु हल्? इति नासौ लुप्यते। `संयोगान्तलोपेनैव सिद्धम्` इति। राजेत्यादिकमुदाहरणमिति शेषः। कथं पुनर्न सिध्यति? इत्यत आह--`राजा, तक्षा` इत्यादि। यथा पचन्नित्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति; तथा राजा, तक्षेत्यादावपि न स्यात्। संयोगान्तलोपासिद्धत्वं चात्र पारम्पर्येण हेतुः। तस्मिन्? सति हि सौ परतः पूर्वस्य पदसंज्ञा न भवति; `असर्वनामस्थाने` 1|4|17 इति प्रतिषेधात्। तस्यां चासत्यां पदस्येत्युच्यमानो नलोपो न स्यात्, नलोपे चासति राजेत्यादिकं रूपं न सिध्येत्। `दत्वम्` इति। न स्यादिति प्रकृतेन सम्बन्धनीयम्। दत्वमपि हि संयोगान्तलोपस्यासिद्धत्वादसत्यां पदसंज्ञायां न स्यात्। अथ वा--संयोगान्तलोपोऽत्र न प्रवत्र्तत एव, तस्य `स्कोःसंयोगाद्योरन्ते च` 8|2|29 इति संयोगादिलोपोऽपवादभूत इति स एव स्यात्, यथा--काष्ठं तक्ष्णोतीति काष्ठतङित्यत्र। तस्मश्च सति विभक्तिसकारस्य रुत्वविसर्गौ स्यातामिति कुतो दत्त्वम्! `उत्त्वम्` इति। न स्यादित्यपेक्षते, एतदपि संयोगान्तलोपस्यासिद्धत्वात्। अलब्धपदव्यपदेशस्य न स्यात्। `रात्सस्य` 8|2|24 इति `नियमात्` इति। `संयोगान्तस्य लोपः` 8|2|23 इत्यनेनैव सिद्धेः। `रात्सस्य` 8|2|24 इति `नियमात्` इति। `संयोगान्तस्य लोपः` 8|2|23 इत्यनेनैव सिद्धेः। `रात्सस्य` 8|2|24 इति नियमार्थमिदम्--रात्सस्यैव लोपो यथा स्यात्, नान्यस्येति। ततश्चाबिभर्भवानित्यत्र तकारस्य लोप एव न स्यात्। तस्मात्? संयोगान्तलोपेन न सिध्यतीति हलन्ताल्लोप उच्यते। अस्यैवार्थस्य सुखोपग्रहणार्थं `संयोगान्तस्यलोपे हि` इत्यादि। सङ्ग्रहश्लोकस्योपन्यासः। हिशब्दो हेतौ। यस्मात्? संयोगान्तलोप आश्रीयमाणे नलोपादिकं कार्यं न सिध्यतीति। किञ्च--ते=तव, भवतः संयोगान्तलोपवादिनः रात्तु रेफात्तु परस्य तकारस्याबिभर्भवानजगर्भवानित्यत्र नैव लोपः स्यात्। तस्माद्वलन्तात्? सुतिसीनां लोपो विधीयते॥
दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यःऽ इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ।लं प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङ् इसिलोपः, ठ्दश्चऽ इति दकारस्य रूत्वम्, तस्य ठतो रोरप्लुतादप्लुतेऽ इत्युत्वम्, श्नमोऽकारेण ठाद्गुणःऽ, ठेङः पदान्तादतिऽ इति पूर्वरूपम्। निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात्--परमकुमारी, परमखट्वेकि? ठ्स्त्रीप्रत्यये चानुपसर्जने नऽ इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति--अर्द्धपिप्पलीत्यादौ ठेकविभक्ति चऽ इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ।ल्न्तमिति वचनात्। अत एव ठ्गोस्त्रियोरुपर्जनस्यऽ इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव--बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, ठीयसश्चऽ इति कपः प्रतिषेधः, ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इति ह्रस्वाभावः। अपर आह--ठ्निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्ततेऽ इति। ननु च विहितविशेषणं विज्ञायते--ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ् एव ग्रहणमित्यर्थः। अथ किमर्थमित्यादि। ठ्ङ्यापोर्दीर्घात्सुःऽ इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च ठ्न ङसिम्बुद्धयोःऽ इति कज्ञापकान्नलोपे कर्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः?--इत्याशङ्क्य दोषान्तरमाह--उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रससु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा ठ्स्कोः संयोगाद्योःऽ इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति ठ्वसुस्रंसुऽ इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; ठसर्वनामस्थानेऽ इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूअक्तम्--दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च ठ्संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यःऽ---इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु--हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु ठ्रात्सस्यऽ इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुतरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्तयतेः क्विपि ठ्कीःऽ इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्तव्यम्, अन्यत्सर्वं कर्तव्यमिति स्थितम्। संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुतरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उतरेषां सुतिसीनां लोपो विधीयते ॥
सिद्धान्तकौमुदी
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् - हल्ङ्याब्भ्यो । हल् च ङीच आप् चेति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । "हल्ङ्याब्भ्य" इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम् । "सुतिसि" इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । "लोपोः व्योः" इत्यतो लोप इत्यनुवर्तते । तच्चेह कर्मसाधनमाश्रीयते । लुप्यते इति लोपः । क्रमणि घञ् । तदाह — हलन्तात्परमित्यादिना । हल्ङ्याब्भ्यः किमिति । "राम" इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः । ग्रामणीरिति । ग्रमां नयतीति विग्रहः ।णीञ् प्रापणे॑ ।सत्सूद्विषे॑त्यादिना क्विप् ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । हल्ङ्याबन्तत्वाऽभावान्न सुलोपः । दीर्घात्किमिति । ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासः । "गोस्त्रियोः" इति ह्यस्वत्वम् । अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः । अभैत्सीदिति । भिदेर्लुङि सिच् । अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह — तिपेति । तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः । विभर्तीति । अत्र तीति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति — हल् किमिति । बिभेदेति । भिदेर्लिट् तिप् णल् । णलोऽकारस्य हल्त्वाऽभावान्न लोपः । प्रथमहल् किमिति । राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः । नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह — नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः ।अभिनोऽत्रे॑त्यत्र उत्वमादिशब्दार्थः । भिदेर्लङि सिप् ।इतश्चे ॑तीकरलोपः ।सिपि धातो रूर्वे॑ति रुत्वम् । सलोपः । अत्रअतोरोरप्लुता॑दित्युत्वं न स्यात् । कुत इत्यत आह — संयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित्पुस्तकेषुदीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । सखेति । सुलोपे सति "न लोपः" इति नकारलोपः । नचेहसु॑माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, "स्वतन्त्रः कर्ता" इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः । हे सखे इति । "अनङ् सौ" इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणेएङ्ह्यस्वा॑दिति सुलोपे रूपम् ।
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् - हल्ङ्याब्भ्यो ।दीर्घा॑दित्येतन्ङ्यापोरेव विशेषणं न तु हलोऽसंभावदित्याहदीर्घौ याविति । परमिति । न त्विदंयः॒॑स॑ इत्यादावतिव्याप्तेः ।कर्ता॒॑सखे॑त्यादावव्याप्तेश्च । यद्यपि त्यदाद्यत्वविधौविभक्ता॑वित्यस्य विषयसप्तमीत्वे स्वीकृतेया॑से॑ त्यादौ नोक्तदोषः, सुविभक्तेराबन्ताद्विहितत्वस्य संभवात् । तथा अनङ्विधौ सावित्यस्य विषयसप्तमीत्वेकर्ता॒॑सखे॑त्यादावपि न दोषः, हलन्ताद्विहितस्य सोः सम्भवात्तथापिबहुश्रेयसो त्यत्राऽव्यप्तिप्रसङ्ग इथि भावः । हलिति । तस्य सुतिसीत्येवंरूत्वमेकादेशविकृतन्यायेन बोध्यम् । लुप्यत इति । यद्यपीहलोपो व्योर्वली॑त्यतोलोप॑ इत्यनुवर्तते, तच्च तत्र भावसाधनं, तथापीह कर्मसाधनं,ह॑लिति प्रथमान्तेन सामानाधिकरण्यादिति भावः । निष्कौशाम्बिः । अतिखट्व इति । प्रादिसमासेगोस्त्रियो॑रिति ह्यस्वः नन्विह समस्तस्य ङ्यबन्तत्वं नास्ति, न च स्त्रीप्रत्यये तदादिनियमो नास्तीति वाच्यम्, अनुपर्जने हि तथा, इह तूपसर्जनत्वात्तदादिनियमोऽस्त्येव । अन्यथाअतिकारीषगन्ध्यापुत्र॑इत्यत्र ष्यडन्तपूर्वपदलक्षणसंप्रसारणप्रसङ्गात् । सत्यम् । तथाप्युत्तरपदस्य ङ्याबन्तत्वेन सोस्ततः परत्वाऽनपायाद्दीर्घग्रहणाऽभावे सुलोपः स्यादेव । नहीदं ङ्याब्ग्रहणं विहितविशेषणमित्यधुनैवोक्तम् । स्यादेतत् । गङ्गामात्मन इच्छति गङ्गीति । ततः क्किपि अल्लोप चगङ्गीः॑ । इह ईकारस्य स्थानिवद्भावेनाप्त्वाद्दीर्घत्वाच्चाऽतिव्याप्तिः । नचाऽल्लोपस्य स्थानिवत्त्वात्सोरापः परत्वं नेति शङ्क्यम् ।॒क्कौ लुप्तं न स्थानिव॑दिति निषेधादिति चैन्मैवम्, ङी-ई आ-आबिति पश्लिष्य दीर्घग्रहणस्य प्रत्याख्यातत्वेन प्रकृते आकाररूपस्य आपोऽभावादुक्तातिप्रसङ्गाऽभावात् । निष्कौशाम्बीयतेः क्किपि तुनिष्कौशाम्वी॑ति भवत्येव, ईकाररूपङीबन्तत्वेन सुलोपप्रवृत्तेः । अपृक्तं किं बिभर्तीति । इदं च पत्र्यदाहरणं चित्यं, विशिष्टस्याऽहल्वात् ।सुतिसीनां ह॑लिति क्लिष्टं व्याख्यायाऽतिप्रसङ्गापादमस्यानुचितत्वात् । यत्तु व्याचख्युः — ॒सुरां॑ सुनोतीति सुरासुत्, तमाचष्टे सुरासयति, ततः किप् — सुराः । सुरासौ ।सुरासः । इह सुनोतेरवयवस्य सस्य लोपं व्यवर्तयितुमप्टक्तग्रहण॑मिति । तदपि चिन्त्यम् । परस्परसाहचर्येण सुतुसीनां विभक्तिनामेव ग्रहणात् । अन्यथा सिचो लोपापत्तेरुक्तत्वात् । प्रत्ययाऽप्रत्याययोः प्रत्ययस्यैव ग्रहणाच्च । यत्तुतित्स्वरित॑मिति सूत्रे कैयटेनोक्तं-॒न क्वचिदियं परिभाषा भाष्यवातिककाराभ्यामाश्रिते॑-ति, तद्रभसात् ।॒अङ्गस्ये॑ति सूत्रे भाष्यादौ तस्याः पठितत्वात्स स्वयमपि तत्र व्याख्यातत्वाच्च । संयोगान्तलोपस्यासिद्धत्वादिति.ननु संयोगान्तलोपो नाऽसिद्धः,न ङिसंबुज्द्यो॑रिति सूत्रे संबुद्धिग्रहणाज्ज्ञापकात् । न चैवंगोमा॑नित्यादावपि नलोपापत्तिः, ज्ञापकस्य विशेषविषयत्वात् । यत्र हि नकारविभक्त्योरानन्तर्यं तत्रैव सिद्धत्वं, व्याख्यानात् । यत्त्वाहुः-॒हे ब्राहृआन्निति नपुंसकार्थत्वान्नैतज्ज्ञापक॑मिति, तन्न, लुका लुप्ते प्रत्ययलक्षणाऽभावात् ।संबुद्धौ वा नपुंसकाना॑ मित्यस्यावश्यकत्वाच्च । समबुद्धिग्रहणस्य नपुंसकविषयत्वाऽसंभवेनोक्तज्ञापकस्य सुस्थत्वात् । तस्मान्नलोपो न प्रयोजनमिति चेदिह तर्हिअभिनोऽत्रे॑त्यत्र रोरुत्वं न स्यात् । सिपिदश्चे॑ति रुत्वे विभक्तिसकारस्य संयोगान्तलोपे तस्याऽसिद्धात्वात् । तथाअबिभर्भवान्॒अजागर्भवा॑नित्यत्र तिलोपो न स्यात्,रात्सस्ये॑ति नियमात् ।तदुक्तम्-॒संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति । रात्तु कतैर्नैव लोपः स्याद्धलस्तस्माद्विधीयते॑इतिष नलोपादिरित्यादिशब्देनोत्त्वं सङ्गृह्रते । अत्रेदमवधेयम्-ङ्याब्ग्रहणं सोर#एव विशेषणं न तु तिस्योः, व्याख्यानात्, तेन मालेवाचरत्-अमलात् । गङ्गेवाचरत्-अगङ्गादित्यत्र नातिप्रसङ्गः । तथा चहलन्तात्परं सुतिसीत्येतदपृक्तं हल्लुप्यते, दीर्घौ यौ ङ्यपौ तदन्तात्परंसु॑ इत्येतदपृक्तं हल्लुप्यते॑इति वाक्यार्थोऽत्र पर्यवसन्नः । यत्तु व्याचख्युः-ङ्याब्भ्यां तिस्योरसंभव एवेति, तत्रङ्यन्तादसंभव॑इति सत्यम् । आबन्तात्तु आचारक्किबन्ताल्लङस्तिप्सिपौ स्त एव ।अगङ्गात्॒अगङ्गा इति यथा । न च शपा व्यवधानम्, एकादेशस्य पूर्वान्तत्वेन ग्रहणात् । न च स्थानिवद्भावः, अपूर्वविधित्वात् । अन्ये त्वाहुः — ङ्याब्ग्रहणमसंभवादेव तिस्योर्विशेषणं न भवतीति यदुक्तं तत्सम्यगेव । नच अगङ्गादगङ्गा इत्यत्र संभवोऽस्तीत्युक्तमिति वाच्यं, तत्र स्थानिभूतस्य शपः पूर्वस्मान्निमित्तभूतादापः परयोस्तिस्योर्लोपे कर्तब्ये स्थानिवद्भावेन शपा व्यवधानात्तिस्योलौपस्याऽप्रसक्तेः । न च फलाऽभावात्पञ्चमीसमासपक्षे न स्वीक्रियत इत्यपि वाच्यं, तत्प्रयोजनस्य प्रागेव प्रदर्शितत्वादिति । सखेति । समानं ख्यायते जनैरितिसखा॑ ।ङिच्च॑यलोप॑ इति चानुवर्तमानेसमाने ख्यः स चोदात्तः॑इति ख्या इत्यस्मादिण्, समानशब्दस्योदात्तः, सभावश्च । न चेह सुविभक्तिसंनियोगेन सखिशब्दस्यानङि कृते संनिपाकपरिभाषायाहल्ङ्या॑बिति सुलोपो न भवतीति शङ्क्यम्,स्वतन्त्रः कत्र्ते॑त्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्ये तत्परिभाषाया अप्रवृत्तेः ।
लघुसिद्धान्तकौमुदी
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥
महाभाष्यम्
हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् (2505) (वार्तिकावतरणभाष्यम्) यदि पुनरयमपृक्तलोपः संयोगान्तलोपो विज्ञायेत । किं कृतं भवति ? द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न कर्तव्यं भवति ।। (6085 सूत्रप्रयोजनवार्तिकम् ।। 1 ।।) - हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावो यथा पचन्निति - हलन्तादपृक्तलोपः संयोगान्तलोपश्चेन्नलोपाभावः ‐ - राजा, तक्षा । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न प्राप्नोति । यथा ‐ - पचन् ‐ - इति । तद्यथा ‐ - पचन्, यजन् ‐ - इत्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न भवति ।। (वार्तिकोक्तप्रयोजनान्यथासिद्धबोधकभाष्यम्) नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ - सिद्धः संयोगान्तलोपो नलोपे ‐ - इति, यदयं न ङिसंबुद्ध्योः 8|2|8 इति संबुद्धौ प्रतिषेधं शास्ति । इहापि तर्हि प्राप्नोति ‐ - पचन्, यजन् । तुल्यजातीयस्य ज्ञापकं भवति । कश्च तुल्यजातीयः ? यः संबुद्धावनन्तरः ।। (6086 सूत्रप्रयोजनवार्तिकम् ।। 2 ।।) - वस्वादिषु दत्वं संयोगादिलोपबलीयस्त्वात् - वस्वादिषु दत्वं च न सिध्यति । उखास्रत्, पर्णध्वत् । किं कारणम् ? संयोगादिलोपबलीयस्त्वात् । संयोगान्तलोपात्संयोगादिलोपो बलीयानिति ।। (6087 संयोगादिलोपबलीयस्त्वबोधकवार्तिकम् ।। 3 ।।) - यथा कूटतडिति - तद्यथा ‐ - कूटतट्, काष्ठतट् ‐ - इत्यत्र संयोगान्तलोपात्संयोगादिलोपो बलीयान् भवति ।। ननु च दत्वे कृते न भविष्यति । असिद्धं दत्वम्, तस्यासिद्धत्वात् प्राप्नोति । सिद्धकाण्डे पठितं वस्वादिषु दत्वं सौ दीर्घत्व इति । तत्रसौ दीर्घत्वग्रहणं न करिष्यते । वस्वादिषु दत्वं सिद्धमित्येव ।। एवमप्यपदान्तत्वान्न प्राप्नोति । अथ सावपि पदं भवति । राजा, तक्षा ‐ - नलोपे कृते विभक्तेः श्रवणं प्राप्नोति । सैषोभयतस्पाशा रज्जुर्भवति ।। (6088 एकदेश्युपसंख्यानवार्तिकम् ।। 4 ।।) - रात्तलोपो नियमवचनात् - रात्तस्य लोपो वक्तव्यः । अबिभर्भवान्, अजागर्भवान् । किं पुनः कारणं न सिध्यति ? नियमवचनात् । रात्सस्य 8|2|24 इत्येतस्मान्नियमान्न प्राप्नोति ।। नैष दोषः । रात्सस्य इत्यत्र तकारोऽपि निर्दिश्यते । यद्येवम्, कीर्तयतेरप्रत्ययः ‐ - कीः इति प्राप्नोति, कीर्त् इति चेष्यते । यथा लक्षणमप्रयुक्ते ।। (6089 उपसंख्यानवार्तिकम् ।। 5 ।।) - रोरुत्वं च - रोश्चोत्त्वं वक्तव्यम् । अभिनोऽत्र, अच्छिनोऽत्र । संयोगान्तलोपस्यासिद्धत्वात् । अतोऽति इत्युत्वं न प्राप्नोति ।। (6090 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 6 ।।) - न वा संयोगान्तलोपस्योत्वे सिद्धत्वात् - न वा वक्तव्यम् । किं कारणम् । संयोगान्तलोपस्योत्त्वे सिद्धत्वात् । संयोगान्तलोप उत्त्वे सिद्धो भवति ।। (6091 आनर्थक्ये दृष्टान्तवार्तिकम् ।। 7 ।।) - यथा हरिवो मेदिनमिति - तद्यथा ‐ - हरिवो मेदिनं त्वा ‐ - इत्यत्र संयोगान्तलोप उत्वे सिद्धो भवति ।। (सूत्रप्रयोजने सिद्धान्तभाष्यम्) स एव तर्हि दोषः ‐ - सैषोभयतस्पाशेति । तस्मादशक्यो हलपृक्तलोपः संयोगान्तलोपो विज्ञातुम् । न चेद्विज्ञायते, द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं कर्तव्यमेव ।।