Page loading... Please wait.
6|1|64 - धात्वादेः षः सः
॥ तस्मै पाणिनये नमः ॥
6|1|64
SK 2264
धात्वादेः षः सः  
सूत्रच्छेदः
धात्वादेः (षष्ठ्येकवचनम्) , षः (षष्ठ्येकवचनम्) , सः (प्रथमैकवचनम्)
अनुवृत्तिः
उपदेशे  6|1|45 (सप्तम्येकवचनम्)
अधिकारः
सम्पूर्णसूत्रम्
उपदेशे धात्वादेः षः सः
सूत्रार्थः
औपदेशिकावस्थायाम् धातोः आदौ स्थितस्य षकारस्य सकारादेशः भवति ।
यदि औपदेशिक-अवस्थायाम् धातोः आदौ षकारः अस्ति, तर्हि तस्य नित्यम् सकारादेशः भवति । यथा -
षचँ (समवाये) → सच् । ष्टगेँ (संवरणे) → स्तग् । षै (क्षये) → सै । षेवृँ (सेवने) → सेव् ।

अयं विधिः प्रक्रियायाः प्रारम्भे एव भवति । अस्मै किमपि निमित्तम् न आवश्यकम् ।

अत्र बिन्दुत्रयम् ज्ञातव्यम् -

1) यदि धातोः आदिस्थात् षकारात् परः अव्यवहितः टवर्णस्य वर्णः अस्ति, तर्हि तस्य यथासंख्यः तवर्गीयवर्णः भवति । यथा -
ष्टुञ् (स्तुतौ) → स्तु । ष्ठा (गतिनिवृत्तौ) → स्था । ष्णु (प्रस्रवणे) → स्नु ।

2) यदि धातोः आदिस्थात् षकारात् परः अव्यहितः णकारः अस्ति, नो चेत् अट्/कु/पु/आङ्/नुम्-एतेषाम् व्यवाये णकारः अस्ति, तर्हि तस्य णकारस्य नित्यम् नकारादेशः भवति । यथा -
षणँ (सम्भक्तौ) → सन् । षणुँ (दान) - सन् ।

3) यदि धातोः आदौ कश्चन इत्संज्ञकः वर्णः / वर्णसमुहः अस्ति, तर्हि तस्मात् परस्य षकारस्यापि अनेन सूत्रेण षकारादेशः भवति । यथा -
ञिष्वप् (शये) → स्वप् । ञिष्विदाँ (अव्यक्ते शब्दे) → स्विद् ।

एते धातवः, येषाम् आदौ षकारः अस्ति, ते सर्वे "षोपदेशाः धातवः" नाम्ना ज्ञायन्ते । धातुपाठे उपस्थितानाम् सर्वेषाम् षोपदेश-धातूनाम् विषये अस्य प्रसक्तिः अस्ति - केवलं धातुद्वयं वर्जयित्वा । तदर्थम् एकम् वार्त्तिकम् उच्यते - सुब्धातु-ष्ठिवु-ष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । इत्युक्ते, सुब्धातोः विषये, ष्ठिव्-धातोः विषये तथा ष्वष्क्-धातोः विषये अनेन सूत्रेण षत्वं न विधीयते । क्रमेण पश्यामः -
1. सुब्धातुः / नामधातुः - ये धातवाः प्रातिपदिकेभ्यः सनादि-प्रत्ययानां प्रयोगेन सिद्ध्यन्ति, ते धातवः नामधातवः / सुब्धातवः नाम्ना ज्ञायन्ते । एतेषां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - "षण्मुखः इव आचरति" अस्मिन् अर्थे कर्तुः क्यङ् सलोपश्च 3|1|11 इत्यनेन क्यङ्-प्रत्ययं कृत्वा "षष्मुखाय" इति धातुः सिद्ध्यति । अत्र षकारस्य सकारादेशः न भवति ।
2. ष्ठिवुँ (निरसने) इति भ्वादिगणस्य धातुः । अस्य धातोः षकारस्य सकारादेशः न भवति । अतः अस्य रूपाणि "ष्ठीवति / अष्ठीवत् / ष्ठीवतु" एतादृशानि भवन्ति । दिवादिगणे अपि "ष्ठिवुँ" (निरसने) इति कश्चन अन्यः धातुः अस्ति, तस्यापि षकारस्य सकारादेशः न भवति ।
3. ष्वष्कँ (गतौ) इति भ्वादिगणस्य धातुः । अस्य षकारस्य अपि सकारादेशः न भवति । अतः अस्य रूपाणि "ष्वष्कते / अष्वष्कत / ष्वष्कताम्" एतादृशानि भवन्ति ।

प्रश्नः - "षकारस्य सकारादेशः भवति" इति तु सूत्रे स्पष्टरूपेण उक्तम् अस्ति । परन्तु टवर्गीयवर्णस्य तवर्गीयवर्णे परिवर्तनं किमर्थं भवति? तथा च, णकारस्य नकारादेशः अपि किमर्थम् करणीयः?
उत्तरम् - यत्र यत्र षकारात् परः टवर्गीयवर्णः दृश्यते, तत्र तत्र मूलरूपेण तवर्गीयवर्णः एव अस्ति, केवलं षकारस्य उपस्थितौ ष्टुत्वं कृत्वा तस्य टवर्गादेशः कृतः अस्ति । तथैव, यत्र यत्र षकारात् परः अट्/कु/पु/आङ्/नुम्-एतेषाम् व्यवायेऽपि णकार दृश्यते, तत्र तत्र मूलरूपेण सः नकारः एव अस्ति, केवलं षकारस्य उपस्थितौ णत्वं कृतम् अस्ति । (एतत् धातूनां रूपाणि दृष्ट्वा ज्ञायते ।) । अतः यदा षकारस्य निवृत्तिः भवति, तदा निमित्तापाये नैमित्तिकस्यापि अपायः अनया परिभाषया षकारस्य कारणात् यत् ष्टुत्वम् / णत्वम् कृतम्, तस्यापि निवृत्तिः क्रियते । अस्यैव अभिधानम् "ष्टुत्वनिवृत्तिः" / "णत्वनिवृत्तिः" इति ।

प्रश्नः - यदि धातोः आदौ स्थितस्य षकारस्य सकारादेशः नित्यं भवति, तर्हि औपदेशिक-अवस्थायाम् धातौ षकारविधानम् किमर्थम् कृतम् अस्ति?
उत्तरम् - धातुपाठे कानिचन कार्याणि तेषां धातूनाम् विषये एव उक्तानि सन्ति येषां औपदेशिक-अवस्थायाम् षकारः दत्तः अस्ति । यथा - आदेशप्रत्यययोः 8|3|59 अनेन सूत्रेण यः सकारः "आदेशरूपेण" निर्मितः अस्ति, तस्यैव षकारादेशः उच्यते । अतः अस्य सूत्रस्य प्रयोगेण केवलं षोपदेश-धातूनामेव सकारस्य षत्वं भवितुम् अर्हति, अन्येषां धातूनाम् न । यथा, "प्रति + ष्ठा" धातोः ल्युट्-प्रत्यये कृते "प्रतिष्ठान" इति रूपम् एतादृशम् सिद्ध्यति -
प्रति + ष्ठा
→ प्रति + स्था [धात्वादे षः सः 6|1|64 इत्यनेन षकारस्य सकारादेशः । ष्टुत्वनिवृत्या ठकारस्य थकारः]
→ प्रति + स्था + ल्युट् [ल्युट् च 3|3|115 इति ल्युट्]
→ प्रति + स्था + यु [लकारस्य लशक्वतद्धिते 1|3|8 इति इत्संज्ञा, टकारस्य हलन्त्यम् 1|3|3 इति इत्संज्ञा, तस्य लोपः 1|3|9 इति तयोः लोपः]
→ प्रति + स्था + अन [युवोरनाकौ 7|1|1 इति यु-इत्यस्य अन-आदेशः]
→ प्रतिस्थान [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ प्रतिष्ठान [अत्र "स्था" इत्यस्य सकारः आदेशरूपेण विहितः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः आदेशप्रत्यययोः 8|3|59 इत्यनेन तस्य मूर्धन्यः षकारः भवति ।]
परन्तु "प्रति + सृ" धातोः ल्युट्-प्रत्ययान्तरूपम् "प्रतिसरण" इत्यत्र सकारस्य षकारादेशः न भवति, यतः अस्मिन् धातौ औपदेशिक-अवस्थायाम् षकारः नास्ति, सकारः अस्ति ।
One-line meaning in English
A षकार present at the beginning of औपदेशिक form of a धातु is converted to सकार.
काशिकावृत्तिः
धातोरादेः षकारस्य स्थाने सकारादेशो भवति। षह सहते। षिच सिञ्चति। धातुग्रहणं किम्? सोडश। षोडन्। षण्डः। षडिकः। आदेः इति किम्? कषति। लषति। कृषति। आदेश प्रत्यययोः 8|3|59 इत्यत्र षत्वव्यवस्थार्थम् षादयो धातवः केचिदुपदिष्टाः। के पुनस् ते? ये तथा पठ्यन्ते। अथवा लक्षणं क्रियते, अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च, सृपिसृजिस्तृस्त्यासेक्षृवर्जम्। सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः। षोडीयति। षण्डीयति। ष्ठीवति। ष्वष्कते। ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्च इष्यते। तेन तेष्ठीव्यते, टेष्ठीव्यते इति च अभ्यासरूपं द्विधा भवति।
`सिञ्चिति` इति। `शे मुचादीनाम्` 7|1|59 इति नुम्। `षोडश` इति। षट्? वा दश वास्येति `संख्यायाव्यय` 2|2|25 इत्यादिना बहुव्रीहिः, `संख्येये ङच्` 5|4|73 इत्यादिना समासान्तो ङच्। `षोडन्` इति। षट्? दन्ता अस्येति बहव्रीहिः, `वयसि दन्तस्य दतृ` 5|4|141 इति दन्तशब्दस्य दत्रादेशः। `षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च` (वा।765) इति षष उत्वम्, उत्तरपदादेश्च ष्टुत्वम्--डकारः। `षण्डः` इति। प्रातिपदिकान्तमेतदव्युत्पन्नम्। `षडिकः इति। अनुकम्पितः षडङ्गुलिदत्त इति `बह्वचो मनुष्यनाम्नष्ठच्` 5|3|78 इति ठच्? ठाजादावूध्र्वं द्वितीयादचः` 5|3|83 इत्यङ्गुलिदत्तशब्दस्य लोपः। ननु च `लिटि धातोः` 6|1|8 इत्यतोऽत्र धातुग्रहणमनुवर्त्तिष्यते, तदिह किं पुनर्धातुग्रहणेन? एवं तरह्हि एतज्ज्ञापयति--तन्निवृत्तमिति। तस्य ह्रनुवृत्तौ `लोपो व्योर्वलि 6|1|64 इत्ययमपि लोपो धात्ववयवस्यैव विज्ञायते। क्नूयी (धा।पा485), क्तः--क्नूतः क्ष्मयी (धातुपाठः-486), क्तः--क्ष्मात इत्यत्रैव स्यात्; गौधरः, पचेरन्नित्यत्र न स्यात्। नन्वेवमपि धातुग्रहणमनर्थकमेव, यस्मादुपदेश इति वत्र्तत एव, न च प्रातिपदिकानामुपदेशः, केषां तर्हि उपदेशः? धातूनाम्? नैतदस्ति; उपदेशाधिकारो।युपदेशग्रहणेन षकारो विशिष्यते, षषश्च षकार उपदेशो भवति। `षष उत्त्वं दतृदशधासूत्तरपदादेः (वा।765) इति सूत्रे पाठात्। तस्मात्? धातुग्रहणं कत्र्तव्यम्। `कषति` इति। भ्वादौ कषसिधेत्यादिहिसार्थो धातुवर्गे पठते। `लषति` इति। `लष कान्तो`(धातुपाठः-888) अनयोरादिगारहणस्य भवति। ननु चोपदेशसामथ्र्यादेवात्र न भविष्यतीति, अन्यथा ह्रुपदेशस्य वैयथ्र्य स्यात्? नैतस्ति; अस्ति ह्रन्यतूपदेशस्य प्रयोजनम्। किं तत्?--`शेषे विभाषाऽकखादाववान्त उपेदेशे` 8|4|17 इत्यत्र केषेग्र्रहणं मा भूत; लेषतुः, लेषुरिति षत्वं यथा स्यात्। किमर्थं पुनः षादयो उपद्ष्टाः, न सादयो ह्रुपदिश्येरन्, एवं ह्रेतत्? सूत्रं न कत्र्तवयं भवति? इत्यत आह--`आदेशप्रत्ययोः` इत्यादि। षत्वव्यवस्थां=षत्वनियमः। `आदेशप्रत्यययोः` 8|3|59 इत्यनेन सहादीनामेव षत्वव्यवस्था यथा स्थादित्येवमर्थम्। षादपः केचिदुपदिष्टाः अन्यथा सहादीनां षत्वार्थ यत्नान्तरं कत्र्तव्यं स्यात्। तच्च गुरु भवतीत्यभिप्रायः। यद्यपि षकारादिषु सन्देहो न भवति, सकारादिषु च भवत्येव। अत्र हि न ज्ञायते--किं षोपदेशा एव सन्तः `धात्वादेः षः सः` 6|1|64 इत्यनेन कृतसत्वा उच्चारिताः? उत सकारादय एव? इति सन्दिह्र पृच्छति--`के पुनस्ते` इति। `ये यथा पठन्ते` इति। षादयो ये यथा पठन्ते सन्निधानात्? त एव षोपदेशा अवगन्तव्याः। `अज्दन्त्यपराः` इत्यादि। अज्दन्त्यौ परौ येषामिति तेऽब्दन्त्यपराः। परशब्दोऽत्रावयवे वत्र्तते। तच्चाच्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्? सकारापेक्षं विज्ञायते। `स्मिस्विदिस्वञ्जिस्वपयश्च` इति। `ष्मिङीषद्धमने` (धातुपाठः-948), `ञिष्विदा गात्रप्रक्षरणे` (धातुपाठः-1188), `ष्वन्ज परिष्वङ्गे` (धातुपाठः-976) `ञिष्वप्? शये` (धातुपाठः-1068) एते स्वरूपेणाख्यायन्ते; मकारवकारयोरज्दन्त्यत्वाभावात्। केचित् स्मिस्वदिस्वदिस्वञ्जिस्वपयश्चेति स्विदिस्थाने स्वदिं पठन्ति, तेषां `तेषां स्वद [`ष्वद`--धातुपाठः ] स्वर्द आस्वादने` (धातुपाठः-18,19) इति स्वदिरपि षोपदेश एव। `सृपिसृजिस्तृस्त्यासेकृसृवर्जम्` इति। `गम्लु सुप्लृ गतौ (धातुपाठः-982,983), `सृज विसर्गे (धातुपाठः-1178), `स्तृञ्? आच्छादने` (धातुपाठः-1252), `ष्ट स्त्यै शब्दसङ्घातयोः`, (धातुपाठः-911,910) `सेक [सेकृ, रुओक--धातुपाठः-] सेकृ श्रकि श्लकि गत्यर्थाः` (धातुपाठः-81,82,84,85), `सृ गतौ` (धातुपाठः-935) एतान्? वर्जयित्वा येऽन्येऽज्दन्तत्यपरास्ते षोपदेशाः। `सुब्धातु` इत्यादि। सुब्धातुः क्यजाद्यन्तः। `ष्ठिच्? निरसने` (धातुपाठः-560), `ष्वक्क [अत्रत्याःधातवः केचन धातुपाठे न सन्ति] वुक्क मक्कतिक्क टिक्क टीक्क वगि लगि गत्यर्थाः--एषां प्रतिषेधो वक्तव्यो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--सुब्धातौतावत्? षोडीयतीत्यादौ नैव धात्वादिः षकारः, तथा ह्रादिरवयवः। आरम्भकश्चावयवो भवति, सुब्दातुः सबन्तेन क्यचा चारभ्यते। न च षकारेणापि वर्णान्तरेणेति कुतस्तस्य षकारादित्वम्? सहादयस्तु षकारादिभिरेव वर्णेरारभ्यन्त इति युक्तं तेषां षकारादित्वम्। ष्ठिवेरपि निपातनान्न भवति, किं तन्निपातनम्? `ष्टिवुक्लमुचमां शिति` 7|3|75 इति। यस्य हि सत्वं भवति तमयं प्रदेशेषु कृतसत्बमेवोच्चारयति यथा प्रदेशे--`स्थाध्वोरिच्च` 1|2|17 इति। ष्वक्केरप्यज्दन्त्यपरा इत्यनेन निवर्त्तितत्वान्न भवति। वकारस्य दन्त्यौष्ठत्वादज्दन्त्यग्रहणेन न गृह्रते। अथ वा यादित्यात्? ष्ठिवुष्वक्कोर्न भविष्यति, यकारस्तु लुप्तनिर्दिष्टत्वान्न श्रूयते। अथ वा--अन्यतरस्यांग्रहणमत्रानुवत्र्तते सा च व्यवस्थितविभाषा विज्ञायते, तेन सुब्धात्वादीनां न भवतीति। `षष्ठीवति` इति। `ष्ठिवुक्लमुचमां शिति` 7|3|75 इति दीर्घः। `ष्वक्कते` इति। अनुदात्तेत्त्वादात्मनेपदम्। अथ ष्ठिवो द्वितीयवर्णः किं ठकार इष्यते? उत थकारः? यदि ठकारस्तदा सिद्धम्--टेष्ठीष्यत इति, न सिध्यति--तेष्ठीव्यत इति, `अभ्यासे चर्च्च` 8|4|53 इति टकार एवान्तरतमष्ठकारस्य स्थाने प्राप्नोतीति कृत्वा; अथ थकारस्तदा सिद्धम्--तेष्ठीव्यत इति, एतन्न सिध्यति--टेष्ठीव्यत इति, आन्तरतम्याद्विधीयमानस्थकारस्य स्थाने तकार एव प्राप्नोतीत्यत आह--`ष्ठिवु इत्येतस्य` इत्यादि। ब्यासस्य द्वैरूप्यं यथा स्यादिति। केचिदाचार्येम शिष्या `ठकारोऽयम्` इत्युपदिष्टाः। अपरे पुनः `थकारोऽयं ष्टुत्वेन ठकारः श्रूयते` इतीममर्थं ग्राहिताः। उभयं चैतत्? प्रयोजनम्। अन्ये पुनरहुः--ष्ठिवुर्दिवादिष्वपि पुनरधीयते, तत्रैकस्य द्वितोयस्थाकारः, अपरस्य तु ठकार इति। तेष्ठीव्यत इति `शर्पूर्वाः खयः` 7|4|61 शेषः॥
सिञ्चतीति। ठ्से मुचादीनाम्ऽ इति नुम्। षोडन्निति। षड् दन्ता यस्येति बहुव्रीहौ ठ्वयसि दन्तस्य दतृऽ ठ्ष, उत्वं दतृदशधासुऽ इति षष उत्वमुतरपदादेष्टुअत्वं च, ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसयोगाचन्तलोगौ। क्वचितु षोड इति पठ।ल्ते, ततु ,षोडन्तमाचष्ट इति णिचि कृते टिलोपे पचाद्यचि रूपम्। षटशब्दोऽवल्युत्पन्नं प्रातिपदिकम्। अनुकम्पितः षडङ्गुलिः षडिकः, ठ्बह्वचो मनुष्यनाम्नष्ठज्वाऽ, ठ्ठाजादावूर्ध्वम्ऽ इत्यङ्गलिशब्दस्य लोपः। लषतीति। षकारोपदेशस्तु प्रनिलषतीत्यादौ ठ्शेषे विभाषाऽखकादावषान्त उपदेशेऽ इति नेर्णत्वप्रतिषेधार्थं स्यात्, लेषतुः लेषुरित्यत्र ठादेशप्रत्यययोःऽ इति षत्वार्थम्। क्वचितु कषतीत्यपि पठ।ल्ते; तदयुक्तम्; षकारोपदेशसामर्थ्यादेवात्र न भविष्यति; प्रनिकषतीत्यत्रापि कखादावित्येव णत्वप्रतिषेधः सिद्धः; आदेशादित्वाभ}यासलोपौ च न स्तः---चकषतुः, चकषुः। किमर्थं पुनः षादयो धातव उपदिष्टा;, न सादय एवोपदिश्येरन्, एवं ह्यएतत्सूत्रं न कर्तव्यं भवति? तत्राह--आदोशप्रत्यययोरित्यादि। व्यवस्थानियमः-- आदेशप्रत्यययोरिति सहादीनामेव षत्वं यथा स्यात्, सृपिसृजीप्रभृतीनां मा भूदित्येवमर्थं षादयः केचिदुपदिष्टाः; अन्यथा सहादीनां षत्वार्थं यत्नान्तरमास्थेयम्, तच्च गुरु भवतीति भावः। के पुनस्त इति। पाठे भ्रंशसम्भवात्प्रशनः। ये तथा पठ।ल्न्त इति। अप्रमादेन पठितव्यमित्यर्थः। अथ वा लक्षणं क्रियत इति। मन्दधियोऽनुग्रहीतुमिति भावः। अज्दन्त्यपराः सादय इति। अज्दन्त्यौ परौ येषां तेऽज्दन्त्यपराः, परशब्दोऽवयववाची। तच्चाज्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्सकारापेक्षं विज्ञायते। स्मिङ्स्विदिति। ठ्ष्मिङीषद्धसनेऽ, ठ्ञिष्विदा गात्रप्रक्षरणेऽ,ठ्ष्वन्ज सङ्गेऽ, ठ्विष्वप् शयेऽ--एते स्वरूपेणैव पठ।ल्न्ते। वकारमकारयोरनज्दन्त्यत्वाद्वकारोऽपि केवलदन्तस्थानो न भवति। ठ्स्वद आस्वादनेऽ इति। स्वदिमपि केचित्पठन्ति। सृपिसृजीत्यादि। ठ्सृप्रृ गतौऽ, ठ्सृज विसर्गेऽ,ठ्स्तृञ् आच्छादनेऽ, ठ्सत्यै ष्ट।ल्è शब्दसङ्घातयोःऽ, ठ्सेकतिर्गत्यर्थःऽ, ठ्सृ गतौऽ---एतान्वर्जयित्वा येऽन्येऽज्दन्त्यपरास्ते षोपदेशाः। सुब्दात्वित्यादि। सुब्धातुः क्यजाद्यन्तः, ठ्ष्टिवु निरसनेऽ, ठ्ष्वष्कतिर्गत्यर्थःऽ अनुदातेत्--एषां सत्वस्य प्रतिषेधो वक्तव्यः। तत्र सुब्दातूनां तावन्न वक्तव्यः, उपदेश इति वर्तते, न च सुब्धातवः क्वचिदुपदिश्यन्ते, एवं च कृत्वा धातुग्रहणं शक्यमकर्तुम्। उपदेशाभावादेव षोडादेर्न भविष्यति, तत् क्रियते धातोरित्यस्य निवृत्तिं सूचयितुम्। तेन ठ्लोपो व्योर्वलिऽ इति अविशेषेण भवति, ष्ठीवतिष्वष्कती द्विषकारकौ, तत्र पूर्वस्यास्तु सत्वम्, परेण सन्निपातेन षत्वं भविष्यतीति। यद्येवम्, लिट् ष्वष्कते, षत्वस्यासिद्धत्वाद् ठ्डः सि धुट्ऽ इति धुट् प्रसज्येत ? एवं तर्हि यकारादी ष्ठिवुष्वष्कती, यकारस्तु ठ्लोपो व्योर्वलिऽ इति लुप्यते। ष्ठीवतीति। ठ्ष्ठिवुक्लमुचमां शितिऽ इति दीर्घत्वम्। अथास्य द्वितीयो वर्णो यदि ठकारः, तेष्ठीयत इति न सिध्यति; अथ थाकरः, टेष्ठीयत इति न सिद्ध्यति; उभयं चेष्यते, तत्राह--ष्ठीवत इत्यस्येत्यादि। उभयथा ह्याचार्येण शिष्याः पाठिता इति भावः ॥
सिद्धान्तकौमुदी
धातोरादेः षस्य सः स्यात् । सात्पदाद्योः (कौमुदी-2123) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । 20 उर्द माने क्रीडायां च
धात्वादेः षः सः - दात्वादेः । "ष" इति षष्ठन्तं । तदाह — धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थ- । धातुग्रहणं किम् । षट् । अत्र धात्वादित्वाऽभावान्न सकारः । आदिग्रहणं किम् । लषति । न चैवमपि षकारीत्यतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम्,आदेच उपदेशेऽशिती॑त्यत उपदेश इत्यनुवृत्तेः । एवं च षडित्यादावप्युदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च "धात्वादेः षः सः" इत्यपि मास्त्विति चेन्मैवं, ण्यन्ताल्लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वात् । धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाऽभावेन षत्वाऽसंभवात् । नन्वेवं सति अनुस्वदत इत्यत्रादेशसकारत्वात्त्वापत्तिरित्यत आह — सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । उर्देति । चकारादास्वादनेऽपीति केचित् ।
धात्वादेः षः सः - धातुग्रहणं किम् । षट् षड् । आदेः किम् । लषति ।
लघुसिद्धान्तकौमुदी
स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥
महाभाष्यम्
धात्वादेः षः सः (2501) (सत्वाधिकरणम्) (पदकृत्यभाष्यम्) धातुग्रहणं किमर्थम् ? इह मा भूत् ‐ - षोडन्, षण्डः, षडिकः ।। अथादिग्रहणं किमर्थम् ? इह मा भूत् ‐ - पेष्टा, पेष्टुम् । नैतदस्ति प्रयोजनम् । अस्त्वत्र सत्वम्, सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यति । इदं तर्हि ‐ - लषिता, लषितुम् ।। इदं चाप्युदाहरणम् ‐ - षेष्टा, पेष्टुम् । ननु चोक्तम् ‐ - अस्त्वत्र सत्वं सत्वे कृते इण उत्तरस्यादेशसकारस्येति षत्वं भविष्यतीति । नैवं शक्यम् । इह हि ‐ - पेक्ष्यतीति, षत्वस्यासिद्धत्वात् षढोः कः सि 8|2|41 इति कत्वं न स्यात् ।। (6073 प्रतिषेधवार्तिकम् ।। 1 ।।) - सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधः - सादेशे सुब्धातुष्ठिवुष्वष्कतीनां प्रतिषेधो वक्तव्यः । सुब्धातु ‐ - षोडीयति, षण्डीयति ।। ष्ठिवु ‐ - ष्ठीवति ।। ष्वष्क, ष्वष्कते ।। (वार्तिकान्यथासिद्धिबोधकभाष्यम्) सुब्धातूनां तावन्न वक्तव्यः । उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ।। यद्येवम्, नार्थो धातुग्रहणेन । कस्मान्न भवति ‐ - षोडन्, षण्डः, षडिक इति ? उपदेश इति वर्तते, उद्देशश्च प्रातिपदिकानां नोपदेशः ।। ष्ठिवेरपि द्वितीयो वर्णष्ठकारः । यदि ठकारः, तेष्ठीव्यत इति न सिध्यति । एवं तर्हि थकारः । यदि थकारः, टुष्ठ्यूषति ‐ - टेष्ठीव्यते इति न सिध्यति । एवं तर्हि द्वाविमौ ष्ठिवू । एकस्य द्वितीयो वर्णष्ठकारः, अपरस्य थकारः । यस्य थकारस्तस्य सत्वं प्राप्नोति ।। एवं तर्हि द्वाविमौ द्विषकारकौ ष्ठिवुष्वष्कती । किं कृतं भवति ? पूर्वस्य षकारस्य सत्त्वे कृते परेण सन्निपाते ष्टुत्वं भविष्यति । नैवं शक्यम्, इह हि ‐ - श्वलिट् ष्ठीवति, मधुलिट् ष्वष्कते ‐ - ष्टुत्वस्यासिद्धत्वात् डः सि धुट् 8|3|29 इति धुट् प्रसज्येत ।। एवं तर्हि यकारादी ष्ठिवुष्वष्कती । किं यकारो न श्रूयते ? लुप्तनिर्दिष्टो यकारः ।। (सूत्रप्रयोजनभाष्यम्) अथ किमर्थं षकारमुपदिश्य तस्य स आदेशः क्रियते, न सकार एवोपदिश्येत । लघ्वर्थमित्याह । कथम् ? अविशेषेणायं षकारमुपदिश्य सकारमादेशमुक्त्वा लघुनोपायेन षत्वं निर्वर्तयति ‐ - आदेशप्रत्यययोः 8|3|59 इति । इतरथा हि येषां षत्वमिष्यते तेषां तत्र ग्रहणं कर्तव्यं स्यात् ।। (षोपदेशप्रदर्शकभाष्यम्) के पुनः षोपदेशा धातवः पठितव्याः ? अथ कोऽत्र भवतः पुरुषकारः ? यद्यन्तरेण पाठं किंचिच्छक्यते वक्तुं तदुच्यताम् । अन्तरेणापि पाठं किंचिच्छक्यते वक्तुम् । कथम् ? अज्दन्त्यपराः सादयः षोपदेशाः, स्मिङ्स्वदिस्विदिस्वञ्ञ्जिस्वपश्च, सृपिसृजिस्तृस्त्यासेकृसृवर्जम् ।।