Page loading... Please wait.
6|1|63 - पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु
॥ तस्मै पाणिनये नमः ॥
6|1|63
SK 228
पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु  
सूत्रच्छेदः
पद्‍-दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (लुप्तप्रथमान्तनिर्देशः) शस्प्रभृतिषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
अन्यतरस्याम्  6|1|59 ()
अधिकारः
सम्पूर्णसूत्रम्
शस्-प्रभृतिषु पद्‍-दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् अन्यतरस्याम्
सूत्रार्थः
शस्-प्रभृतिषु प्रत्ययेषु परेषु पद्‍-दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् एते आदेशाः विकल्पेन भवन्ति ।
अस्मिन् सूत्रे त्रयोदश शब्दाः आदेशरूपेण दत्ताः सन्ति । एते आदेशाः तदा एव भवन्ति यदा स्थानिभ्यः अग्रे शस्-प्रभृतिषु कोऽपि प्रत्ययः आगच्छति ।

अत्र बिन्दूद्वयम् ज्ञातव्यम् -
(अ) शस्-प्रभृतयः इत्युक्ते किम्?
द्वितीया-बहुवचनस्य "शस्"-प्रत्ययात् आरभ्य सप्तमीबहुवचनस्य "सुप्"-प्रत्ययं यावत् ये षोडष-प्रत्ययाः पाठिताः सन्ति, तेषाम् उपसंख्यानम् "शस्प्रभृतयः" इत्यनेन क्रियते ।
(आ) एते आदेशाः कस्य स्थाने भवन्ति?
अस्मिन् सूत्रे स्थानिनः स्पष्टरूपेण प्रोक्ताः न सन्ति, अतः स्थानेऽन्तरतमः अस्मिन् सूत्रे प्रोक्तस्य "अर्थसादृश्यस्य" साहाय्येन अत्र स्थानिभ्यः निर्णयः क्रियते । सिद्धान्तकौमुद्याम् एतेषां सर्वेषाम् आवली दत्ता अस्ति, तां क्रमेण अधः पश्यामः । प्रत्येकस्य शब्दस्य विषये उदाहरणत्रयम् अपि अधः दत्तम् अस्ति, तेषाम् क्रमः एतादृशः ज्ञातव्यः -
[शसादयः] = शस्, टा, ङे, ङसिँ, ङस्, ओस्, आम् - एतेषाम् विषये समाना प्रक्रिया भवति, अत शस्-प्रत्ययस्य उदाहरणम् स्वीकृत्य प्रक्रिया दर्शिता अस्ति ।
[भ्यामादयः] = भ्याम्, भिस्, भ्यस् - एतेषाम् विषये समाना प्रक्रिया जायते, अतः भ्याम्-प्रत्ययस्य उदाहरणम् स्वीकृत्य प्रक्रिया दर्शिता अस्ति । भिस्/भ्यस्-प्रत्यययोः विषये विसर्गनिर्माणम् अपि भवति इति स्मर्तव्यम् ।
[सुप्] = सप्तमीबहुवचनस्य सुप्-प्रत्यये परे प्रक्रिया दर्शिता अस्ति ।

अत्र निर्दिष्टाः आदेशाः विकल्पेन भवन्ति, अतः एतैः विना सामान्यप्रक्रियया अपि रूपाणि भवितुम् अर्हन्ति इति स्मर्तव्यम् ।

1. पाद-शब्दस्य पद्-आदेशः
[शसादयः] - पाद + शस् → पद् + शस् → पदः ।
[भ्यामादयः] - पाद + भ्याम् → पद् + भ्याम् → पद्भ्याम् ।
[सुप्] - पाद + सुप् → पद् + सु → [खरि च 8|4|55 इति चर्त्वे] पत् + सु → पत्सु

2. दन्त-शब्दस्य दत्-आदेशः
यथा -
[शसादयः] - दन्त् + शस् → दत् + शस् → दतः ।
[भ्यामादयः] - दन्त + भ्याम् → दत् + भ्याम् → [झलां जशोऽन्ते 8|2|39 इति जश्त्वे] दद्भ्याम् ।
[सुप्] - दन्त + सुप् → दत् + सु → [झलां जशोऽन्ते 8|2|39 इति जश्त्वे] दद् + सु → [खरि च 8|4|55 इति चर्त्वे] दत्सु ।

3. नासिका-शब्दस्य नस्-आदेशः
यथा -
[शसादयः] - नासिका + शस् → नस् + शस् → नसः ।
[भ्यामादयः] - नासिका + भ्याम् → नस् + भ्याम् → [ससजुषोः रुँः 8|2|66 इति रुँत्वे] नरुँ + भ्याम् → [अतो रोरप्लुतादप्लुते 6|1|13 इति उत्वे] नउ +भ्याम् → [आद्गुणः 6|1|87 इति अकार-उकारयोः गुणे] नोभ्याम् ।
[सुप्] - नासिका + सुप् → नस् + सु → [ससजुषोः रुँः 8|2|66 इति रुँत्वे] नरुँ + सु → [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गे] नः सु → [वा शरि 8|3|36 इति विसर्गस्य वैकल्पिकं सत्वम्] नःसु, नस्सु ।

4. मास-शब्दस्य मास्-आदेशः
[शसादयः] - मास + शस् → मास् + शस् → मासः ।
[भ्यामादयः] - मास + भ्याम् → मास् + भ्याम् → [ससजुषोः रुँः 8|2|66 इति रुँत्वे] मारुँ + भ्याम् → [भोभगोअघोअपूर्वस्य योऽशि 8|3|17 इति यकारादेशः] माय् + भ्याम् → [हलि सर्वेषाम् 8|3|22 इति यकारलोपः] → माभ्याम्
[सुप्] - मास + सुप् → मास् + सु → [ससजुषोः रुँः 8|2|66 इति रुँत्वे] मारुँ + सु → [खरवसानयोर्विसर्जनीय 8|3|15 इति विसर्गः] माः + सु → [वा शरि 8|3|36 इति वैकल्पिकः सकारादेशः] → माःसु, मास्सु ।

5. ह्रदय-शब्दस्य ह्रद्-आदेशः ।
[शसादयः] - ह्रदय + शस् → ह्रद् + शस् → ह्रदः ।
[भ्यामादयः] - ह्रदय + भ्याम् → ह्रद् + भ्याम् → ह्रद्भ्याम् ।
[सुप्] - ह्रदय + सुप् → ह्रद् + सु →[खरि च 8|4|55 इति चर्त्वे] ह्रत्सु ।

6. निशा-शब्दस्य निश्-आदेशः
[शसादयः] - निशा + शस् → निश् + शस् → निशः ।
[भ्यामादयः] - निशा + भ्याम् → निश् + भ्याम् → [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति षत्वे] निष् + भ्याम् → [झलां जशोऽन्ते 8|2|39 इति जश्त्वे] निड् + भ्याम् → निड्भ्याम् ।
[सुप्] - निशा + सुप् → निश् + सुप् → [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति षत्वे] निष् + सुप् → [झलां जशोऽन्ते 8|2|39 इति जश्त्वे] निड् + सुप् → [डः सि धुट् 8|3|29 इति वैकल्पिकः धुडागमः] निड् + सुप् / निड् ध् + सुप् → [खरि च 8|4|55 इति चर्त्वे] → निट्सु, निट्त्सु ।

7. असृज्-शब्दस्य असन्-आदेशः
[शसादयः] - असृज् + शस् → असन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] अस्नः ।
[भ्यामादयः] - असृज् + भ्याम् → असन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] असभ्याम् ।
[सुप्] - असृज् + सुप् → असन् + सु → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] अससु ।

8. यूष-शब्दस्य यूषन्-आदेशः
[शसादयः] - यूष + शस् → यूषन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] यूष्नः → [रषाभ्यां नो णः समानपदे 8|4|1 इति णत्वम्] → यूष्णः ।
[भ्यामादयः] - यूष + भ्याम् → यूषन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] यूषभ्याम् ।
[सुप्] - यूष + सुप् → यूषन् + सु → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] यूषसु ।

9. दोष-शब्दस्य दोषन्-आदेशः
शसादयः] - दोष + शस् → दोषन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] दोष्नः → [रषाभ्यां नो णः समानपदे 8|4|1 इति णत्वम्] → दोष्णः ।
[भ्यामादयः] - दोष + भ्याम् → दोषन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] दोषभ्याम् ।
[सुप्] - दोष + सुप् → दोषन् + सु → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] दोषसु ।

10. यकृत्-शब्दस्य यकन्-आदेशः
[शसादयः] - यकृत् + शस् → यकन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] यक्नः ।
[भ्यामादयः] - यकृत् + भ्याम् → यकन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] यकभ्याम् ।
[सुप्] - यकृत् + सुप् → यकन् + सु → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] यकसु ।

11. शकृत्-शब्दस्य शकन्-आदेशः
[शसादयः] - शकृत् + शस् → शकन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] शक्नः ।
[भ्यामादयः] - शकृत् + भ्याम् → शकन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] शकभ्याम् ।
[सुप्] - शकृत् + सुप् → शकन् + सु → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] शकसु ।

12. उदक-शब्दस्य उदन्-आदेशः
[शसादयः] - उदक + शस् → उदन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] उद्नः ।
[भ्यामादयः] - उदक + भ्याम् -> उदन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] उदभ्याम् ।
[सुप्] - उदक + सुप् → उदन् + सुप् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] उदसु

13. आस्य-शब्दस्य आसन्-आदेशः
[शसादयः] - आस्य + शस् → आसन् + शस् → [अल्लोपोऽनः 6|4|134 इति अकारलोपः] आस्नः ।
[भ्यामादयः] - आस्य + भ्याम् → आसन् + भ्याम् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] आसभ्याम् ।
[सुप्] - आस्य + सुप् → आसन् + सुप् → [नलोपः प्रातिपदिकान्तस्य 8|2|7 इति नकारलोपः] आससु ।
One-line meaning in English
The आदेशाs पद्‍,दत्,नस्, मास्, हृत्, निश्, असन्, यूषन्, दोषन्, यकन्, शकन्, उदन्, आसन् are created (to the appropriate words) in presence शस् and other विभक्तिs from तृतीया onwards.
काशिकावृत्तिः
पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृतुदक आसन इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद् दत् नस् मास् हृद् निशसन् यूषन् दोषन् यकन् शकनुदनासनित्येते आदेशाः यथासङ्ख्यं भवन्ति। पद् निपदश्चतुरो जहि। पदा वर्तय गोदुहम्। पादः पत् 6|4|130। दत् या दतो धावते तस्यै श्यावदन्। नस् सूकरस्त्वा खनन्नसा। मास् मासि त्वा पश्यामि चक्षुषा। हृद् हृदा पूतं मनसा जातवेदो। निश् अमावास्यायां निशि यजेत्। असन् असिक्तो ऽस्ना ऽवरोहति। यूषन् या पात्राणि यूष्ण आसेचनानि। दोषन् यत्ते दोष्णो दौर्भाग्यम्। यकन् यक्नो ऽवद्यति। शकन् शक्नो ऽवद्यति। उदन् उद्नो दिव्यस्य नो देहि। आसन् आसनि किं लभे मधूनि। शस्प्रभृतिषु इति किम्? पादौ ते प्रतिपीड्यौ। नासिके ते कृशे। केचिदत्र छन्दसि इत्यनुवर्तयन्ति। अपरे पुनरविशेषेण इच्छन्ति। तथा हि भाषायाम् अपि पदादयः शब्दाः प्रयुज्यन्ते। व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च। व्याधयो न उपसर्पन्ति वैनतेर्यामवोरगाः। इत्येवम् आदयः। अन्यतरस्याम् इत्येतदनुवर्तयन्ति। तेन पादादयो ऽपि प्रयुज्यन्ते। शस्प्रभृतिषु इति प्रकारार्थे प्रभृतिशब्द इति शला दोषणी इत्यत्र अपि दोषन्नादेशो भवति। पदादिषु मांस्पृत्स्नूनाम् उपसङ्ख्यानम्। मांस पृतना सानु इत्येतेषां स्थाने यथासङ्ख्यम् मांस् पृत् स्नु इत्येते आदेशाः भवन्ति। मांस्पचन्या उखायाः। मांसपचन्या इति प्राप्ते। पृत्सु मर्त्यम्। पृतनासु मर्त्यम् इति प्राप्ते। न ते दिवो न पृथिव्या अधिस्नुषु। अधिसानुषु इति प्राप्ते। नस् नासिकाया यत्तस्क्षुद्रेषु। नासिकाया नस्भावो वक्तव्यः यत् तस् क्षुद्र इत्येतेषु परतः। नस्यम्। नस्तः। नःक्षुः। यति वर्णनगरयोर् न इति वक्तव्यम्। नासिक्यो वर्णः। नासिक्यं नगरं।
इहापि शस्प्रभृतयो निमित्तत्वेनोपादीयन्ते, ते च प्रकृत्या विना नोपपद्यन्त इति भावः। तेषु प्रकृत्यन्तराद्विहितेषु विधीयमानाः पदादय आदेशा विज्ञायन्ते। न च स्थानिनोऽनुपादानादियमेनादेशप्रसङ्गः, यतस्तेष्वादिश्यमानेषु शस्प्रभृतयोऽनुरूपमेव पादादिकां स्वार्थिकीं प्रकृतिमाक्षिपन्तीत्याह--`पाददन्तनासिका` इत्यादि। पदित्याद्युदाहरणेषु पदो दत इति शसन्ते। `यूष्णः, दोष्णः, यक्नः, शक्नः` ति षष्ठएकवचनान्तानि। `अल्लोपोऽनः` 6|4|134 इत्यकारलोपः। `मासि, निशि, आसनि` इति सप्तम्येकवचनान्तानि। आसनीत्यत्र `विभाषाङिश्योः` 6|4|136 इति पक्षेऽकारलोपो न भवति। शेषाणि तृतीयैकवचनान्तानि। `पादौ, नासिके` इति प्रथमाद्विवचनान्ते। कस्मात्? पुनरन्यतरस्यामित्येतदनुवत्र्तयन्ति? इत्याह--`तेन पादादयोऽपि` इत्यादि। यस्मात्? पादादयोऽपि प्रयुज्यन्ते तस्मादन्यतरस्यामित्यनुवत्र्तयन्ति।व्यवस्थावाचिनि प्रभृतिशब्द आश्रोयमाणे शस्प्रभृतिभ्योऽन्यत्रादेशो न सिध्यतीत्यभिप्रायेणाह--`प्रकारार्थे प्रभृतिशब्दः` इति। `दोषणी` इति। केचिदाहुः--प्रथमाद्विवचने दोषन्नादेशः, औङः शीभावः। अन्ये त्वाहुः--दोषणीति ङीबन्तमेतत्, ङीपि विषयभूते दोषन्नादेशः, ततः `ऋन्नेभ्यो ङीप्` 4|1|5 ।`नस्यम्` इति। हितार्थे `शरीरावयवाद्यत्` 5|1|6 । `नस्तः` इति। `अपादाने चाहीयरुहोः` 5|4|45 तसिः। `नःक्षुद्रः` इति। नासिका क्षुद्रा यस्येति बहुव्रीहिः। `नासिक्यो वर्णः` इति। भवार्थे `शरीरावयवात्` 5|1|6 इति यत्। नासिक्यं नगरमिति अत्र हितार्थे यत्॥
इहापि ठ्शस्प्रभृतिषुऽ इति निमितोपादानादनुरूपाः प्रकृतयः आक्षिप्यन्ते, पदादयश्चादेश विज्ञायन्ते इत्याह--पाददन्ते त्यादि। अन्ते आसनशब्दः पठ।ल्ते, आस्यशब्दस्तु पठितव्यः, आस्नो वृकस्य वर्तिकामभीके, ग्रीवायां बद्धो अपि कक्ष आसनि, आस्नो यत्सीसमुञ्चतं वृकस्येत्यादौ ह्यास्यार्थोऽवगम्यते। आसनीति। ठ्विभाषा ङिश्योःऽ इत्यिल्लोपाभावपक्षे रूपम्। अपरके पुनरविशेषणेच्छन्तीति। भाष्ये तु छान्दस्मेवैतदिति स्थितम्। प्रकारार्थे प्रभृतिशब्द इति। व्यवस्थावाचिनि तु शसः पूर्वेषु वचनेषु न स्युः। दोषणीति। प्रथमाद्विवचने, दोःशब्दस्य दोषन्नादेशः, औङ्ः शीभावः। मांसपचाया उखाया इति। ठ्मांसस्य पचि युट्घञोःऽ इत्यन्तलोपो वक्ष्यते, तद्व्युत्पच्यन्तरम्। नस्यमिति। हितार्थे भवार्थे वा ठ्शरीरावयवाद्यत्ऽ। नस्त इति। ठपादाने साहीयरुहोःऽ इति तसि। नः क्षुद्रः इति। ठ्तृतीया तत्कृतार्थेनऽ इति समासः। ठ्सप्तमीऽ इति योगविभागादित्यन्ये। बहुव्रीहौ विशेषणस्य क्षुद्रशब्दस्य राजदन्तादित्वात्परनिपात इत्यन्ये । यति वर्णनगरयोर्निति वक्तव्यमिति। ततर्हि वक्तव्यम्? न वक्तव्यम्; इह तावन्नासिक्यो वर्ण इति, परिमुकादिपाठाद् ञ्यः, नासिक्यं नगरमिति सङ्काशादिपाठाद् ण्यः, ठ्राजन्यसाङ्काश्यकाम्यिल्पनासिक्यदार्वाघाटानामा दिर्वान्तो वाऽ इति प्रतिपदस्वरविधानात्स्वरेऽपि नास्ति विशेषः, प्रत्युत यत्प्रत्यये सत्यनासिक्यमित्यत्र ठ्ययतोश्चातदर्थेऽ इत्युतरपदान्तोदातत्वं प्रसज्येत, अव्ययपूर्वपदकृतीस्वरश्चेष्यते ॥
सिद्धान्तकौमुदी
पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष्, दोष्, यकृत्, शकृत्, उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा । यत्तु आसनशब्दस्य आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम् । पादः । पादौ । पादाः । पादम् । पादौ । पदः । पादान् । पदा । पादेन इत्यादि ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
पद्दन्नो। शसादौ वेति। `अनुदात्तस्य चर्दुपधस्ये`त्यतोऽन्यतरस्यामित्यनुवर्तत इति भावः। अत्र शस्प्रभृतयो निमित्ततयोपात्ताः, ते च पदाद्यादेशानुरूपान्प्रकृतिविशेषानाक्षिपन्तीत्याह-पाददन्तेति। यद्यसि `शीर्षंश्छन्दसी`त्यतः `छन्दसी`त्यनुवर्तते, तथापि भाषायामपि क्वचित्पदादयो भवन्ति, `मासश्छन्दसी`ति वार्तिके छन्दोग्रहणसामर्थ्यादिति वक्ष्यति। प्रामादिकमिति। तथाहि-`आस्नो वृकस्य वर्तिका`मिति मन्त्रे मुखादित्यर्थः, औचित्यात्। `वृकस्य चिद्वर्तिकामन्तरास्यात्` इति मन्त्रान्तरसंवादाच्च। तथा `हव्या जुह्वान आसनि` इति मन्त्रे मुखे इत्यर्थः। एवम् `आसन्यं प्राणमूचुः` इत्यादावपि बोध्यम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्ञ्शकन्नुदनासञ्ञ्शस्प्रभृतिषु (2500) (प्रकृतिग्रहणस्य प्रकारार्थत्वबोधकभाष्यम्) शस्प्रभृतिष्वित्युच्यते, अशस्प्रभृतिष्वपि दृश्यते ‐ - शलादोषणी, ककुद्दोषणी याचते महादेवः ।। (6071 उपसंख्यानवार्तिकम् ।। 1 ।।) - पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् - पदादिषु मांस्पृत्स्नूनामुपसंख्यानं कर्तव्यम् । यन्नीक्षणं मांस्पचन्याः, मांसपचन्या इति प्राप्ते । मांस् ।। पृत् । पृत्सु र्मत्यम्, पृतनासु र्मत्यमिति प्राप्ते । पृत् ।। स्नु । न ते दिवो न पृथिव्या अधि स्नुषु, अधि सानुष्विति प्राप्ते ।। (6072 उपसंख्यानवार्तिकम् ।। 2 ।।) - नस्नासिकाया यत्तस्क्षुद्रेषु - यत्तस्क्षुद्रेषु परतो नासिकाया नस्भावो वक्तव्यः । यत् । नस्यम् । यत् ।। तस् । नस्तः । तस् ।। क्षुद्र । नः क्षुद्रः ।। (उपसंख्याने शङ्कासमाधानभाष्यम्) अवर्णनगरयोरिति वक्तव्यम् । इह मा भूत् ‐ - नासिक्यो वर्णः, नासिक्यं नगरम् । तत्तर्हि वक्तव्यम् । न वक्तव्यम् । इह तावत् ‐ - नासिक्यो वर्ण इति, परिमुखादिषु पाठः करिष्यते । नासिक्यं नगरमिति, संकाशादिषु पाठः करिष्यते ।।