Page loading... Please wait.
6|1|58 - सृजिदृशोर्झल्यमकिति
॥ तस्मै पाणिनये नमः ॥
6|1|58
SK 2405
सृजिदृशोर्झल्यमकिति  
सूत्रच्छेदः
सृजि-दृशोः (षष्ठीद्विवचनम्) , झलि (सप्तम्येकवचनम्) , अम् (प्रथमैकवचनम्) , अकिति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सृज विसर्गे, दृशिर् प्रेक्षणे इत्येतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अम् आगमो भवति। स्रष्टा। स्रष्टुम्। स्रष्टव्यम्। द्रष्टा। द्रष्टुम्। द्रष्टव्यम्। लघूपधगुणापवादो ऽयम् अमागमः। अस्राक्षीत्। अद्राक्षीत्। सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते। ज्ञलि इति किम्? सर्जनम्। दर्शनम्। अकिति इति किम्? सृष्टः। दृष्टः। धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्याम् इति।
`रुआष्टा, द्रष्टा` इति। उमागमे कृते यणादेशः, व्रश्चादि 8|2|36 सूत्रेण षत्वम्। `लघूपधगुणापवादौऽयम्` इत्यादि। ननु चासति सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यादिति, तत्र गुणे कृतेऽमागमो भविष्यति? नैतदेवम्; सामान्यविहितो गुणः विशेषविहितस्त्वमागमः, सामान्यविहितस्य च विशेषविहितो बाधको भवति, यथा--ब्राआह्रणेभ्यो दधिदीयतां तक्रं कौण्जन्यायेति। यथा सामान्यविहितस्य दधिदानस्य विशेषविहितं तक्रदानं बाधकं भवति तथेहापि युक्ताऽमागममेन गुणस्य बाधा। `अरुआआक्षीत्, अद्राक्षीत्` इति। `आदेशप्रत्यययोः` 8|3|59 इति षत्वम्, `अस्ति सिचोऽपृक्ते` 7|3|96 इतीट्, `वदव्रजहलन्तस्याचः` 7|2|3 इति वृद्धिः, `षढोः कः सि` 8|2|41 इति कत्वम्। `वृद्धिरमिकृते भवति` इति। अथ प्रागेव वृद्धिः कस्मान्न भवति? इत्याह--`पूर्वन्तु बाध्यते` इति। यथैव हि विशेषविहितत्वादमागमेन सामान्यविहितो गुणो बाध्यते, तथा वृद्धिरपि सामान्यविहितैवामागमे कृते पश्चात्? पुनःप्रसह्गविज्ञानात्? सिद्धमिति सापि भवति। गुणस्त्वमागमे कृते न भवति; निमित्तस्य विहितत्वात्। न ह्रमागमे कृत उपधा लघ्वी गुणभाविन्युपपद्यते। अथेह कस्मान्न भवति--रज्जुसृङ्भ्याम्, देवदृग्भ्यामिति; सत्यपि धात्वधिकारे `क्विबन्ता धातुत्वं न जहति (व्या।प।132) इति भ्याम्प्रत्ययमकितमाश्रित्यामागमः प्राप्नोति? इत्यत आह--`धातोः` इत्यादि॥
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वातस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु ठ्क्विन्प्रत्ययस्य कुःऽ इति कुत्वमित्च्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति, ठ्क्विनः कुऽ इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ॥
सिद्धान्तकौमुदी
अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥
सृजिदृशोर्झल्यमकिति - इडभावपक्षे "अनुदात्तस्य" इति अमागमविकल्पे प्राप्ते — सृजिदृशोः । अम्-अकिति इति च्छेदः । नित्यार्थमिदम् । दद्रष्ठेति । ददृश् थ इति स्थिते इडभावपक्षे अमागमे ऋकारस्य यणि व्रश्चादिना शस्य षत्वे थस्य ष्टुत्वेन ठ इति भावः । इट्पक्षे त्वाह — ददर्शिथेति । अझलादित्वादम् नेति भावः । द्रष्टेति । तासि अमागमे शस्य षत्वे तकारस्य ष्टुत्वेन टकार इति भावः । द्रक्ष्यतीति । अमागमे शस्य षत्वेषढो॑रिति कत्वे सस्य ष इति भावः । पश्यतु । अपश्यत् । पश्येत् । आशीर्लिङि आह — दृश्यादिति । अझलादित्वादम् नेति भावः । लुङि विशेषमाह — इरित्त्वादङ् वेति । अत्र अङ्पक्षे गुणनिषेधे प्राप्ते —
सृजिदृशोर्झल्यमकिति - झलि किम् । ससर्ज । ददर्श । अकितीति किम् । सृष्टः । सृष्टवान् । दृष्टः । दृष्टवान् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सृजिदृशोर्झल्यमकिति (2495) (अमागमाधिकरणम्) (6063 उपसंख्यानवार्तिकम् ।। 1 ।।) - अमि सङ्ग्रहणम् - अमि सङ्ग्रहणं कर्तव्यम् । किमिदं सङिति ? प्रत्याहारग्रहणम् । क्व सन्निविष्टानां प्रत्याहारः ? सनः प्रभृति आमहिङो ङकारात् ।। किं प्रयोजनम् ? (6064 उपसंख्यानफलबोधकवार्तिकम् ।। 2 ।।) - क्विप्प्रतिषेधार्थम् - क्विबन्तस्य मा भूत् । रज्जुसृड्भ्याम्, रज्जुसृडि्भः, देवदृग्भ्याम्, देवदृग्भिः ।। (6065 उपसंख्यानानर्थक्यबोधकवार्तिकम् ।। 3 ।।) - उक्तं वा - किमुक्तम् ? धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानात्सिद्धमिति ।।