Page loading... Please wait.
6|1|56 - बिभेतेर्हेतुभये
॥ तस्मै पाणिनये नमः ॥
6|1|56
SK 2593
बिभेतेर्हेतुभये   🔊
सूत्रच्छेदः
बिभेतेः (षष्ठ्येकवचनम्) , हेतुभये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
णौ इति वर्तते, विभाषा इति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः, तद्भयम् हेतुभयम्। तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। भीस्म्योर् हेतुभये 1|3|38 इत्यात्मनेपदम्। भियो हेतुभये षुक् 7|3|40। स च आत्त्वपक्षे न भवति। लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक् विधीयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर् देवदत्तात्।
`हतुभये` इति। `पञ्चमी भयेन` 2|1|36 इति पञ्चमीसमासोऽयमित्याह--`ततो यद्भयम्` इति। किं पुनस्ततो भयम्? इत्याह--`स यस्य भयस्य` इत्यादि। अथात्त्वपक्षे षुगागमः कस्मान्न भवति? अस्ति ह्रत्रापि प्राप्तिः--`एकदेशविकृतमनन्यवद्भवति` (व्या।प।16) इत्यत आह--`स च` इत्यादि। `भियो हेतुभये षुक्` 7|3|40 इत्यत्र हि भी+ई इ त ईकारेण प्रश्लिष्टस्य निर्देशः कृतः--ईकारान्तस्यैव षुग्? यथा स्यात्, आकारान्तस्य मा भूदीति। तथा लियो ग्रहणम्, तस्याप्यात्त्वपक्षे `लीलोर्नुक्लुकावन्यतरस्यां स्नेहविपातने` 7|3|39 इति नुग्न भवति। ईकारप्रश्लेषनिर्देशादेवेति प्रसङ्गेन व्युत्पादितम्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥
बिभेतेर्हेतुभये - बिभेतेर्हेतुभये । "आदेच उपदेशे" इत्यत एच इति,आदिति चानुवर्तते । "वभाषा लीयते" रित्यतो विभाषेति,चिस्फुरो॑रित्यतो णाविति च । हेतुभयं - प्रयोजकाद्भयम् । तदाह — बिभेतेरेच इत्यादिना ।
बिभेतेर्हेतुभये - बिभेतेर्हेतुभये । हेतुः — प्रयोजकः । इहआदेच उपदेशे॑ इत्यत एच आदित्यनुवर्तते,विभाषा लीयते॑रित्यतो विभाषा,चिस्फुरो॑रित्यतो णाविति च । तदाह — बिभेतेरेच इत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बिभेतेर्हेतुभये (2493) (पदकृत्यभाष्यम्) हेतुभय इति किमर्थम् ? कुञ्ञ्चिकयैनं भाययति, अहिनैनं भाययति ।। (आक्षेपभाष्यम्) हेतुभये इत्युच्यमानेऽप्यत्र प्राप्नोति । एतदपि हेतुभयम् ।। (समाधानभाष्यम्) हेतुभय इति नैवं विज्ञायते ‐ - हेतोर्भयम् ‐ - हेतुभयम्, हेतुभय इति । कथं तर्हि ? हेतुरेव भयम् ‐ - हेतुभयम्, हेतुभय इति । यदि स एव हेतुर्भयं भवतीति ।।