Page loading... Please wait.
6|1|39 - वश्चास्यान्यतरस्याम् किति
॥ तस्मै पाणिनये नमः ॥
6|1|39
SK 2414
वश्चास्यान्यतरस्याम् किति   🔊
सूत्रच्छेदः
वः (प्रथमैकवचनम्) , च (अव्ययम्) , अस्य (षष्ठ्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्) , किति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। किति इति किम्? उवाय। उवयिथ।
Text Unavailable. Please use feedback link below to provide the text if you have.
अस्यग्रहणेन वयो यकारः प्रतिनिर्द्दिश्यते, अन्यथादेशाकारस्योच्चारणार्थत्वे प्रमाणाभावाद्वय एवायं सर्वादेशः सम्भाव्येत। अस्यग्रहणे तु सति यद्यष्यकारवानादेशः तथाप्यतो लोपेन सिद्धमिष्टम्। वश्चास्यग्रहणं शक्यमकर्तुम्। कथम्? ठन्यतरस्यां किति वेञःऽ इति सूत्रं कर्तव्यम्, लिटीत्येव, किति लिटि परतो वेञः सम्प्रसारणं न भवत्यन्यतरस्याम्--ववतुः, ववुः; सम्प्रसारणपक्षे उपङदेशे सति द्विर्वचनम्, सवर्णदीर्घत्वम्--ऊचतुः, ऊचुः; ठ्वेञो वयिःऽ --ऊयतुः ऊयुरिति। कथं ववौ, वविथ? ठ्ल्यपि चऽ इति चकारेण लिडनुकृष्यते, तत्पिति नित्यनिषेधार्थं भविष्यति ॥
सिद्धान्तकौमुदी
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
वश्चास्यान्यतरस्याम् किति - वश्चास्या । "लिटि वयो यः" इत्यनुवर्तते । तदाह — वयोयस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह — वयेस्तासावभावात्थलि नित्यमिडिति । वयेर्लिटएव विहितत्वेन तासावभवात्अचस्तास्व॑दिति "उपदेशेऽत्वतः" इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः ।यस्तासावस्ति नित्याऽनिट् चे॑ति भाष्यम् । ऊयथुः- ऊवथुः ऊय-ऊव । उवाय, उवय, ऊयिव-ऊविव, ऊयिम — ऊविम । ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह — स्थानिवद्भावेनेति । ऊये ऊवे इति ।वश्चास्यान्यतरस्या॑मिति वत्वविकल्पः । वत्वाऽभावे "लिटि वयो यः" इति यकारस्य संप्रसारणनिषेधः । वकारस्यग्रहिज्ये॑ति,वचिस्वपी॑ति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे । ऊये उयिवहे ऊयिमहे । क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाऽभावे इति । यजादित्वात्लिटभ्यासस्ये॑तिवचिस्वपी॑ति च संप्रसारणे प्राप्ते सती॑ति शेषः ।
वश्चास्यान्यतरस्याम् किति - वश्चास्या.॒अस्ये॑त्यनेनवयो यः॑ इति परामृश्यते । तदाह — वयो यस्येति ।वो वा किती॑त्येव सुवचं, लिटि वयो यः॑ इति प्रकृतत्वात् ।उपदेशेऽत्वतः॑ इति निषेधमाशङ्क्याह — - वयस्तासावभावादिति । ननु स्थानिनस्तासौ विद्यमानत्वात् स्थानिवद्भावेन तासौ विद्यमानत्वं सुलभमिति चेत् । अत्राहुः — - शास्त्रीयकार्ये हि स्थानिवद्भावो न तु लौकिके ।अचस्तास्व॑दिति निषेधस्य शास्त्रीयत्वेऽपि सोऽत्र नातिदिश्यते,अच॑ इत्युक्तेरल्विधित्वादिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वश्चास्यान्यतरस्यां किति (2476) (वश्चास्यग्रहणप्रत्याख्यानभाष्यम्) वश्चास्यग्रहणं शक्यमकर्तुम् । अन्यतरस्यां किति वेञ्ञो न संप्रसारणं भवतीत्येव सिद्धम् । कथम् ? प्रसारणे कृत उवङादेशे च द्विर्वचनं सवर्णदीर्घत्वम् । तेन सिद्धम् ‐ - ववतुः, ववुः, उवतुः, उवुः । वयेरपि नित्यं यकारस्य प्रतिषेधः संप्रसारणस्य, उयतुः, उयुः । त्रैशब्दं चेह साध्यम्, तच्चैवं सति सिद्धं भवति ।। यद्येवं ‐ - ववौ, वविथेति न सिद्ध्यति । ल्यपि च 6|1|41 इत्यनेन चकारेण लिडप्यनुकृष्यते । तस्मिन्नित्ये प्रसारणप्रतिषेधे प्राप्ते इयं किति विभाषाऽऽरभ्यते ।। इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम् ।।