Page loading... Please wait.
6|1|25 - प्रतेश्च
॥ तस्मै पाणिनये नमः ॥
6|1|25
SK 3022
प्रतेश्च   🔊
सूत्रच्छेदः
प्रतेः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
श्यः इति वर्तते। प्रतेरुत्तरस्य श्यायतेर् निष्ठायां परतः सम्प्रसरणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्याम् अन्यत्र अपि यथा स्यातिति सूत्रारम्भः।
Text Unavailable. Please use feedback link below to provide the text if you have.
सेयमुभयत्र विभाषेति। द्रवमूर्तिविषये पूर्वेण प्राप्तेऽन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्, न ठ्विभाषाब्यवाभ्याम्ऽ इत्येवोच्येत, तत्राहपूर्वग्रहणस्येत्यादि। क्रियमाणेऽपि पूर्वग्रहणे कस्मादेवात्र न भवति? इत्याह--न किलेति। किलशब्दसूचितामरुचि दर्शयति-योऽत्रेति। मा भून्महासमुदायोऽभ्यवपूर्वः, अवान्तरसमुदायस्त्वभ्यवपूर्वोऽप्यस्ति, तदाश्रयो विकल्पः प्राप्नोति। यत्नान्तरमास्थेयमिति। विभाषाग्रहणं व्यवस्थितविभाषार्थमाश्रयणीयमित्यर्थः। पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यमिति। तत्पुनरभिसंशीनम्, अभिसंश्यानम्, अवसंशीनम्, अवसंश्यानमित्यत्रापि विकल्पप्रवृत्तिरेव। तच्च पूर्वग्रहणे क्रियमाणे यथा लभ्यते तथा ठ्स्त्यः प्रपूर्वस्यऽ इत्यत्र व्याख्यातम् ॥
सिद्धान्तकौमुदी
प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥
प्रतेश्च - प्रतेश्च । द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम् । प्रतिशीन इति । प्रतिगत इत्यर्थः । अत्र "श्योऽस्पर्शे" इति नत्वम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.