Page loading... Please wait.
6|1|21 - चायः की
॥ तस्मै पाणिनये नमः ॥
6|1|21
SK 2647
चायः की   🔊
सूत्रच्छेदः
चायः (षष्ठ्येकवचनम्) , की (लुप्तप्रथमान्तनिर्देशः)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यगि इति वर्तते। चायृ पूजानिशामनयोः इत्येतस्य धातोः यगि परतः की इत्ययम् आदेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः।
अथ किमर्थं दीर्घोच्चारणम्, यावता ह्यस्वादेशेऽपि `अकृत्सार्वधातुकयोः` 7|4|25 इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह--`दीर्घोच्चारणम्` इत्यादि। कथं पुनः `यङि च` 7|4|30 इत्युच्यमाने आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन स्यात्। अथापि `न लुमताङ्गस्य` 1|1|63 इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्!`चेकीतः` इति। तसन्तमेतत्। `यङोऽचि च` 2|4|74 इति यङो लुक्॥
कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि ठकृत्सार्वधातुकयोःऽ इति दीर्घस्य सिद्धत्वात्? तत्राह--दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन। ठ्न लुमताङ्गस्यऽ? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च ठ्सम्प्रसारणाश्रयं च कार्यं बलवत्ऽ इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ॥
सिद्धान्तकौमुदी
चेकीयते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.