Page loading... Please wait.
6|1|176 - ह्रस्वनुड्भ्यां मतुप्‌
॥ तस्मै पाणिनये नमः ॥
6|1|176
SK 3722
ह्रस्वनुड्भ्यां मतुप्‌   🔊
सूत्रच्छेदः
ह्रस्व-नुड्भ्याम् (पञ्चमीद्विवचनम्) , मतुप् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्तोदात्तातित्येव। ह्रस्वान्तादन्तोदात्तान् नुटश्च परो मतुबुदात्तो भवति। अग्निमात्। वायुमान्। कर्तृमान्। हर्तृमान्। नुटः खल्वपि अक्षण्वता। शीर्षण्वता। अन्तोदात्तातित्येव, वसुमान्। वसुशब्द आद्युदात्तः, तस्मान् मतुबनुदात्त एव भवति। अत्र च स्वरविधौ व्यञ्जनम् अविद्यमानवतित्येषा परिभाषा न अश्रीयते नुड्ग्रहणात्, तेन मरुत्वानित्यत्र न भवति। रेशब्दाच् च मतुप उदात्तत्त्वं वक्तव्यम्। आरेवान्। त्रेश्च प्रतिषेधो वक्तव्यः। त्रिवतीर्याज्यानुवाक्या भवति इति।
पित्वान्मतुपोऽनुदात्तत्वे प्राप्तेऽयं विधिरारभ्यते। `अक्षण्वता` इति। अक्षमस्यास्तीति मतुप्, `छन्दस्यपि दृश्यते` 7|1|76 इत्यनङ्, `अनो नुट्` 8|2|13 इति नुडागमः, पूर्वसय नकारस्य `नलोपः प्रातिपदिकान्तस्य` 8|2|7 इति लोपः। `शीर्षण्वता` इति। शीर्षन्निति `शीर्षञ्शब्दः` शीर्षश्चन्दसि` 6|1|59 इति निपातितः। `वसुशब्द आद्युदात्तः` इति। स हि `भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः` (द।उ।1।92) इति वर्तमाने `धान्ये नित्` (द।उ।1।94) इत्यतो निद्ग्रहणे `शृस्वृस्विहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च` (द।उ।1।95) इति व्युत्पाद्यते। तेन नित्स्वरेणाद्युदात्तो भवति। अथेह कस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति, मरुच्छब्दोऽपि `मृग्रेरुतिः (द।उ।6।1) इत्युतिप्रत्ययान्तत्वात्? प्रत्ययस्वरेणान्तोदात्त इत्यस्त्यत्र प्राप्तिः, अतो नकारेम व्यवधानान्न भवतीति चेत्? न; तस्य लुप्तत्वात्। अथापि स्वरसिद्धौ नलोपस्यासिद्धत्वम्? एवमपि `स्वरविधौ व्यञ्जनमविद्यमानवत्` (व्या।पा।37) इति नास्ति व्यवधानम्? इत्यत आह--`स्वरिविधौ` इत्यादि। कथं पुनज्र्ञायते--नाश्रीयत इति? नुङ्ग्रहणात्। नुडागमो ह्रयं मतुप एव भक्त इति तद्ग्रहणेनैव गृह्रते। यद्येषा परिभाषाऽ‌ऽश्रीयेत, तदा नकारस्य व्यञ्जनस्याविद्यमानत्वाद्? ह्यस्वादित्येव सिध्यति नुङ्ग्रहणं न कुर्यात्, कृतं च। ततो ज्ञायते--नेयमिह परिभाषाश्रीयत इति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। उत्तरत्रापि वक्तव्यशब्दस्यायमेवार्थः। व्याख्यानं तु पूर्ववद्बहुलग्रहणानुवृत्तिमाश्रित्य कत्र्तव्यम्॥
अक्षण्वतेति। ठ्च्छन्दस्यपि दृश्यतेऽ इत्यनङ्, ठनो नुट्ऽ इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति। ठ्शीर्षञ्च्छन्दसिऽ इति निपातितः। वसुशब्द्र आद्यौदात इति। वसेरुप्रत्ययः, ठ्धान्ये नित्ऽ इत्यधिकारे। अथेहकस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि ठ्मृग्रोरुतिःऽ इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदातः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह--अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्यौक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्तत इति कर्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम्--ठत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्ततेऽ इति। रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि ठ्रर्येर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्। त्रिवतीरिति। ठ्च्छन्दसीरःऽ इति वत्वम्, ठ्वा च्छन्दसिऽ इति पूर्वसवर्णदीर्घः ॥
सिद्धान्तकौमुदी
ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि माँउदनिमाँइयर्ति (यो अ॑ब्दि॒माँउ॑दनि॒माँइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवाँइद्रेवतः (रे॒वाँइद्रे॒वतः॒) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ह्रस्वनुड्भ्यां मतुप् (2613) (6297 उपसंख्यानवार्तिकम् ।। 1 ।।) - मतुबुदात्तत्वे रेग्रहणम् - मतुबुदात्तत्वे रेग्रहणं कर्तव्यम् । आरेवानेतु नो विशः ।। (6298 उपसंख्यानवार्तिकम् ।। 2 ।।) - त्रिप्रतिषेधश्च - त्रेश्च प्रतिषेधो वक्तव्यः । त्रिवतीर्याज्यानुवाक्या भवन्ति ।।