Page loading... Please wait.
6|1|163 - चितः
॥ तस्मै पाणिनये नमः ॥
6|1|163
SK 3710
चितः   🔊
सूत्रच्छेदः
चितः (षष्ठ्येकवचनम्)
अनुवृत्तिः
उदात्तः  6|1|159 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
चितः उदात्तः
सूत्रार्थः
चित्-प्रत्ययान्त-समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।
यस्मिन् प्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः "चित्" प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति । यथा -

1. भञ्जभासमिदो घुरच् 3|2|161 इत्यनेन "भास" धातोः "घुरच्" अयं कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे "भास + घुरच् → भा॒सु॒र" इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।

2. लटः शतृशानचौ अप्रथमासमानाधिकरणे 3|2|124 इत्यनेन आत्मनेपदिभ्यः धातुभ्यः "शानच्" अयम् कृत्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे "पच + शानच् → प॒च॒मा॒न" इति शब्दः सिद्ध्यति । अस्य शब्दस्य अन्तिमः स्वरः वर्तमानसूत्रेण उदात्तसंज्ञकः भवति ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "चितः" अयम् शब्दः येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "चित्-प्रत्ययः यस्य अन्ते अस्ति सः" अस्मिन् अर्थे प्रयुक्तः अस्ति । अतः अत्र प्रकृति-प्रत्यययोः मेलनेन यस्य पदस्य निर्माणम् भवति, तस्य निर्देशः क्रियते । अलोऽन्त्यस्य 1|1|52 इत्यनेन अस्य शब्दस्य अन्तिमस्वरः उदात्तः भवति ।

2. अनेन सूत्रेण "पदस्य" अन्तिमस्वरस्य उदात्तत्वम् न दीयते, अपितु प्रकृति-प्रत्यययोः समुदायस्य अन्ते विद्यमानस्य स्वरस्य उदात्तत्वं दीयते, एतत् स्मर्तव्यम् । यथा, उरच्-प्रत्ययान्तस्य "भासुर" शब्दस्य अन्तिमः स्वरः (इत्युक्ते रेफोत्तरः अकारः) अनेन सूत्रेण इत्संज्ञकः भवति ।
One-line meaning in English
The word ending in चित्-प्रत्यय becomes अन्तोदात्त.
काशिकावृत्तिः
चितो ऽन्त उदात्तो भवति। भञ्जभासमिदो घुरच् 3|2|161 भङ्गुरम्। भासुरम्। मेदुरम्। आगस्त्यकौण्डिनययोरगस्तिकुण्डिनच् 2|4|70। कुण्डिनाः। चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते। बहुपटुः। उच्चकैः।
`भङगुरम्` इत्यादौ प्रत्ययस्वरस्यापवादोऽन्तोदात्तत्वं विधीयते। `कुण्डिनाः` इति। अत्र तु स्थानिवद्भावः स्वरस्य। कुण्डिनोशब्दस्यायमादेशः, स च प्रतययस्वरेण मध्योदात्त इति तदादेशोऽपि मध्योदात्त एव सात्। कुण्डमस्यास्तीतीनिः, तदन्तात्? स्त्रियां `ऋन्नेभ्यो ङीप्` 4|1|5 इती ङीप्। कुण्डिन्या अपत्यानि बहुनीति गर्गादित्वात्? यञ्? 4|1|105 , तस्य बहुषु लुक्। परिशिष्टस्य कुण्डिनजादेशः। `चिति प्रतयये` इत्यादि। कथं पुनः प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं लभ्यते? यथा लभ्यते तथाख्यायते--इह चित इति समुदायसम्बन्धेऽवयवादेषा षष्ठी। चितोऽवयवस्य सम्बन्धी यः समुदायः तस्यान्तोदात्तत्वं भवतीत्यर्थः। अथ वा चित इति मत्वर्थीयाच्प्रत्ययान्तमेतत्--चिदस्यास्तीति चितः, तस्यान्तोदात्तत्वं भवतीत्यर्थः। तेन प्रकृतिप्रत्ययसमुदायस्यान्तोदात्तत्वं सिध्यति। यदि तर्हि चित इति मत्वर्थीयाकारप्रत्ययान्तमेतत्, तर्हि सुब्व्यत्ययेन षष्ठ्याः प्रसङ्गे प्रथमा भविष्यति। `बहुपटवः` इति। ईषदसमाप्ताः पटव इति `विभावा सुपो बहुच्? पुरस्तात्तु` 5|3|68 इति बहुच्। `उच्चकैः` इति। `अव्ययसर्वनाम्नामकच्? प्राक्टेः 5|3|72 इत्यकच्॥
भङ्गुरमिति। ठ्चजोः कु घिण्यतोःऽ इति कुत्वम्। कुण्डिना इति। कुण्कडशब्दान्मत्वर्थीय इनिः, स्त्रियां ङीप्, कुण्डिनीशब्दो मध्योदातः, कुण्डिन्या अपत्यानि बहूनि, गर्गादियञो बहुषु लुक्, परिशिष्टस्य कुण्डिनजादेशः। चिति प्रत्यये इति। ननु च नात्र चितीति प्रत्ययग्रहणं कुण्कडिनजादेरपि ग्रहणात् ? तस्मादयमत्रार्थः---यत्र चित्प्रत्ययस्तत्र समुदायस्येष्यत इति। कथं पुनरेतल्लभयते? चित इत्यवयवादेषा षष्ठी, न कार्यिणः, चितोऽवयवस्य सम्बन्धी यः समुदायः स कार्या। अथ वा--चिदस्यास्तीति चितः, अर्शाअदेराकृतिगणत्वादच् प्रत्ययः, षष्ठ।ल्र्थे प्रथमा, तेन चिद्वतः समुदायस्येत्यर्थः। अत्र च लिङ्गम्-अकः चित्करणम्, अन्यथा तस्यैकाच्त्वादनर्थकं तत्स्यात्। कुण्कडिनजादेर्व्यपदेशिवद्भावेन चिद्वत्वम् ॥
सिद्धान्तकौमुदी
अन्त उदात्तः स्यात् ॥ ।चितः सप्रकृतेर्बह्वकजर्थम् (वार्तिकम्) ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
चितः (2600) (6283 उपसंख्यानवार्तिकम् ।। 1 ।।) - चितः सप्रकृतेर्बह्वकजर्थम् - चितः सप्रकृतेरिति वक्तव्यम् । किं प्रयोजनम् ? बह्वकजर्थम् । बहुजर्थमकजर्थं च । बहुजर्थं तावत् ‐ - बहुभुक्तम्, बहुकृतम् । अकजर्थम् ‐ - सर्वकैः, विश्वकैः, उच्चकैः, नीचकैः, सर्वके, विश्वके ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा ‐ - पुष्पका एषां ते पुष्पकाः, कालका एषां ते कालकाः ।। अथवाऽकारो मत्वर्थीयः । तद्यथा ‐ - तुन्दः, घाट इति । पूर्वसूत्रनिर्देशश्च ‐ - चित्वान् ‐ - चित इति ।।