Page loading... Please wait.
6|1|158 - अनुदात्तं पदमेकवर्जम्‌
॥ तस्मै पाणिनये नमः ॥
6|1|158
SK 3650
अनुदात्तं पदमेकवर्जम्‌   🔊
सूत्रच्छेदः
अनुदात्तम् (प्रथमैकवचनम्) , पदम् (प्रथमैकवचनम्) , एकवर्जम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
अनुदात्तम् पदम् एकवर्जम्
सूत्रार्थः
पदम् एकवर्जम् अनुदात्तम् भवति ।
इदम् परिभाषासूत्रम् स्वरनिर्णयस्य प्रमुखम् विधिम् पाठयति । पदे यदि कश्चन स्वरः स्वरितः / उदात्तः वा विधीयते, तर्हि तं स्वरं वहाय पदे विद्यमानाः अन्ये स्वराः अनुदात्ताः भवन्ति, इति अस्य सूत्रस्य आशयः ।

उदाहरणात् पूर्वम् बिन्दुत्रयम् स्मर्तव्यम् -

1. शब्दे यदि द्वौ वा अधिकाः स्वराः उदात्ता / स्वरिताः विद्यन्ते, तर्हि तत्र कस्य स्वरस्य उदात्तत्वम् / स्वरितत्वम् बलवत्तमम् अस्ति अस्मिन् विषये एकः सामान्यः नियमः उक्तः अस्ति - यः स्वरः प्रक्रियायाम् अन्ते उदात्तत्वं / स्वरितत्वं प्राप्नोति, तस्य उदात्तत्वं / स्वरितत्वं तादृशमेव संस्थाप्य अन्ये उदात्त/स्वरितस्वराः वर्तमान-परिभाषया अनुदात्ताः भवन्ति । अयमेव विधिः "सतिशिष्टस्वरस्य नियमः" नाम्ना ज्ञायते (यस्य उदात्तत्वम् / स्वरितत्वम् अवशिष्यते, सः शिष्टस्वरः अस्ति इति नाम । तस्य निर्धारणम् येन विधिना क्रियते, सः सतिशिष्टस्वरविधिः - इति आशयः)।

2. सतिशिष्टस्वरस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम् । इत्युक्ते, विकरणप्रत्ययः यद्यपि प्रक्रियायाः अन्ते विधीयते, तथापि सः सतिशिष्टनियमेन बलवान् न भवति - इति ।अस्य वार्त्तिकस्य प्रयोगः अधः द्वितीये उदारहणे कृतः अस्ति ।

3. त्रिपाद्याम् उदात्तादनुदात्तस्य स्वरितः 8|4|66 इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण उदात्तस्वरात् परः विद्यमानः अनुदात्तस्वरः स्वरितः जायते । अयं स्वरितस्वरः उदात्तस्वरस्य आश्रयेण जायते, अतः अतम् "आश्रितः स्वरः" अस्ति इत्युच्यते । तथा च, इदम् सूत्रम् प्रक्रियायाः अन्ते प्रयुज्यते, अस्य कार्यम् च वर्तमानसूत्रार्थम् असिद्धम् अस्ति, अतः अस्य सूत्रस्य प्रयोगात् अनन्तरम् पुनः वर्तमानपरिभाषा न प्रसज्यते ।

उदाहरणद्वयं पश्यामः -

1. "गोपाय" इति भ्वादिगणस्य धातुः । गुप्-धातोः "आय" इति सनादिप्रत्ययं कृत्वा अग्रे सनाद्यन्ताः धातवः 3|1|32 इत्यनेन अस्य धातुसंज्ञा भवति । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् अस्ति "गोपायति" इति । अस्य रूपस्य प्रक्रिया तथा तस्याम् स्वरसञ्चारः इत्थं भवति -

गुप् [धातोः 6|1|162 इति उकारस्य उदात्तत्वम्]
→ गुप् + आय [गुपूधूपविच्छिपणिपनिभ्य आयः 3|1|28 इति "आय" इति सनादिप्रत्ययः । आद्युदात्तश्च 3|1|3 इत्यनेन अस्य प्रत्ययस्य आदिस्वरः उदात्तः भवति । यकारोत्तरः अकारः तु औत्सर्गिकतया उदात्तः अस्ति ।]
→ गोप् + आय [पुगन्तलघूपधस्य च 7|3|86 इति उपधास्वरस्य गुणादेशः]
→ गोपाय [वर्णमेलनम् । अग्रे सनाद्यन्ताः धातवः 3|1|32 इत्यनेन "गोपाय" इत्यस्य धातुसंज्ञा, अतः यकारोत्तरः अकारः धातोः 6|1|162 इति उदात्तः जायते ।]
→ गोपाय + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ गोपाय + ति॒प् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झि 3|4|78 इति तिप्-प्रत्ययः । अनुदात्तौ सुप्पितौ 3|1|4 इति तकारोत्तरः इकारः अनुदात्तः भवति ।]
→ गोपाय + श॒प् + ति॒प् [कर्तरि शप् 3|1|68 इति शप्-विकरणप्रत्ययः । अनुदात्तौ सुप्पितौ 3|1|4 इति शकारोत्तरः अकारः अनुदात्तः भवति ।]
→ गोपाय + अ॒ + ति॒ [इत्संज्ञालोपः]
→ गोपाय + ति॒ [ यकारोत्तर-अकारः तथा विकरणप्रत्ययस्य अकारः - द्वयोः अतो गुणे 6|1|97 इति एकः पररूपः एकादेशः अकारः ।एकादेश उदात्तेनोदात्तः 8|2|5 इति सः उदात्तः जायते। ]
→ गोपायति॒ [सुप्तिङन्तं पदम् 1|4|14 इति पदसंज्ञा ।]
→ गो॒पा॒यति॒ ["गोपायति॒" अस्मिन् पदे त्रयः उदात्तस्वराः सन्ति, एकः च अनुदात्तः स्वरः अस्ति । अतः अनुदात्तं पदमेकवर्जम्‌ 6|1|158 इत्यनेन एकं उदात्तस्वरं वर्जयित्वा अन्यौ द्वौ स्वरौ अनुदात्तौ जायेते । अत्र त्रिषु स्वरेषु यकारोत्तरः अकारः सतिशिष्टनियमेन बलवत्तमम् अस्ति, अतः तं विहाय अन्यौ स्वरौ अनुदात्तौ भवतः ।]
→ गो॒पा॒यति॑ [ उदात्तादनुदात्तस्य स्वरितः 8|4|66 इति तकारोत्तरः इकारः आश्रित-स्वरितत्वं प्राप्नोति ।]

एतादृशं गुप्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् "गो॒पा॒यति॑" इति जायते ।


2. "ज्ञा" इति क्र्यादिगणस्य धातुः । अस्य धातोः परस्मैपदस्य लट्लकारस्य द्विवचनस्य रूपम् "जानीतः" इति भवति । अस्य रूपस्य सिद्धिः तथा अस्यां स्वरसञ्चारः इत्थम् भवति -
ज्ञा॑ [क्र्यादिगणस्य धातुः । धातौ विद्यमानः आकारः मूलरूपेण स्वरितः अस्ति, येन धातुः उभयपदं स्वीकरोति ।]
→ ज्ञा [धातौ विद्यमानः आकारः प्रक्रियायाः आरम्भे धातोः 6|1|162 इत्यनेन उदात्तः जायते ।]
→ ज्ञा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ ज्ञा + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् तिप्तस्.. 3|4|78 इति "तस्" प्रत्ययः । तकारोत्तरः आकारः आद्युदात्तश्च 3|1|3 इति उदात्तः भवति ।]
→ ज्ञा + श्ना + तस् [क्र्यादिभ्यः श्ना 3|1|81 इति श्ना विकरणप्रत्ययः । अस्य आकारः आद्युदात्तश्च 3|1|3 इति उदात्तः भवति ।]
→ जा + ना + तस् [ज्ञाजनोर्जा 7|3|79 इति शित्-प्रत्यये परे "ज्ञा" इत्यस्य "जा" आदेशः भवति ।]
→ जा + नी + तस् [ई हल्यघोः 6|4|133 इति विकरणस्य आकारस्य ईकारः]
→ जानीतस् [सुप्तिङन्तं पदम् 1|4|14 इति पदसंज्ञा]
→ जा॒नी॒तस् [अत्र वस्तुतः श्ना-प्रत्ययस्य आकारः प्रक्रियायाम् अन्ते उदात्तत्वं स्वीकरोति । अतः सतिशिष्टनियमेन तस्यैव उदात्तत्वं विधीयेत, अन्ये स्वराः अनुदात्ताः भवेयुः । परन्तु अयम् विकरणस्वरः अस्ति, अतः सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम् अनेन वार्त्तिकेन अस्य उदात्तत्वं बलवान् न भवति, अतः तं बाधित्वा प्रक्रियायाम् तस्मात् पूर्वसोपाने उदात्तत्वं येन प्राप्तम्, सः "तस्" प्रत्ययस्य स्वरः उदात्तत्वं हरते, अन्ये स्वराः च अनुदात्ताः भवन्ति ।]
→ जा॒नी॒तः [ससजुषो रुँः 8|2|66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8|3|14 इति विसर्गः]

एतादृशं ज्ञा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् "जा॒नी॒तः" इति भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिभाषा इयम् स्वरविधिविषया। यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदम् एकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कम् अनुदात्तम्। कः पुनरेको वर्ज्यते? यस्य असौ स्वरो विधीयते। वक्ष्यति धातोः 6|1|162 अन्तः उदात्तो भवति। गोपायति। धूपायति। धातोरन्त्यम् अचं वर्जयित्वा परिशिष्टम् अनुदात्तं भवति। धातुस्वरं श्नाश्वरो बाधते। लुनाति। पुनाति। श्नाश्वरं तस्स्वरः। लुनीतः। पुनीतः। तस्स्वरमांस्वरः। लुनीतस्तराम्। पुनीतस्तराम्। आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च। पृथक्ष्वरनिवृत्त्यर्थम् एकवर्जं पदस्वरः। आगमस्य चितुरनुडुहोरामुदात्तः 7|1|98। चत्वारः। अनड्वाहः। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः गोपायति। धूपायति। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य कर्तव्यम्। हर्तव्यम्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर् व्यावस्था सतिशिष्टेन च। यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति। तथा हि गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते। विकरणस्वरस् तु सतिशिष्टो ऽपि सार्वधातुकस्वरं न बाधते। लुनीतः इति तस एव स्वरो भवति। विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्। अतिस्रः इत्यत्र तिसृभ्यो जसः 6|1|166 इति सतिशिष्टो ऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते। विभक्तिनिमित्तस्वराच् च नञ्स्वरो बलीयानिति वक्तव्यम्। अचत्वारः, अनन्ड्वाहः इति। यस्य विभक्तिर् निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते। पदग्रहनं किम्? देवदत्त गामभ्याज शुक्लाम् इति वाक्ये हि प्रतिपदं स्वरःपृथग् भवति। परिमाणार्थं च इदं पदग्रहणम् पदाधिकारस्य निवृत्तिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालेम् एव शिष्टस्य अनुदात्तत्वं भवति। तथा च कुवल्या विकारः कौवलम् इत्यत्र अनुदात्तादिलक्षणो ऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दौ आद्युदात्तौ।
`एकवर्जम्` इति। एकं वर्जयित्वेत्यर्थः। `द्वितीयायाञ्च` 3|4|53 इति णमुल्प्रत्ययः। यद्ययमधिकारार्थः स्यात्, तत्? षाष्ठिक एव स्वरः सङ्गृहीतः स्यात्। ये त्वन्ये स्वराः `समानोदरे शयित ओ चोदात्तः` 4|4|107 , `अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः` 7|1|75 इत्येवमादयः सप्ताध्याय्याम्, ते न संगृहीता स्युः। परिभाषायां त्वस्यां तेऽपि संगृहीता भवन्ति। सा ह्रेकदेशे स्थितापि सकलं शास्त्रमभिज्वलयति, यथा वेश्म प्रदीप इवेत्यालोच्याह--`परिभाषेयम्` इति। विध्यङ्गशेषभूता चेयम्। परिभाषा हि कार्यवाक्यानां शेषभावगता। यस्य पदादयवस्य स्वरित उदात्तो वा विधीयते तत्र शेषमनुदात्तं भवति। `स्वरविधिविषया` इति। स्वरविधिर्विषयोऽस्या इति विग्रहः। `यत्रान्यः` इति। अनुदात्तापेक्षमन्यत्वम्। `तत्रानुदात्तं पदम्` इति। ननु च `नीचैरनुदात्तः` 1|2|30 इत्यनुदात्तशब्दो विशिष्टगुणेऽवसङ्गीतः, तत्राज्झललक्षणञ्च पदम्, पदशब्दस्यार्थस्तत्? कथमत्र सामानाधिकरण्यम्? नैष दोषः; अनुदात्ताच्कमनुदात्तं पदमिहाभिमतम्, तेन पद एवानुदात्तशब्दो वत्र्तते। कथम्? मत्वर्थीयाकारान्तत्वात्। अनुदात्ता अस्य सन्तीत्यनुदात्तम्। अर्श आदेराकृतिगणत्वादत्राच्। एकवर्जमित्युक्तम्, स त्वेको न ज्ञायते यो वर्जनीयः, तस्याभिव्यक्तये पृच्छति--`कः पुनः` इत्यादि। यस्य चोदात्तः स्वरतो वा विधीयते स एवाको वज्र्यते। यदि ह्रसावपि न वज्र्यते तस्य तत्? स्वरविधानमन्रथकं स्यात्। `गोपायति, धूपायति` इति। `गुपू रक्षणे` (धातुपाठः-395) `धीप सन्तापे` (धातुपाठः-396) `गुपूधूप` 3|1|28 इत्यादिनाऽ‌ऽयपरत्ययान्तस्य `सनाद्यन्ता धातवः 3|1|32 इति धातुसंज्ञा, `धातोः` 6|1|156 इति धातोश्चान्तोदात्तत्वम्, आयप्रत्ययान्तस्यान्त्ययकाराकारस्य धातुस्वरत्वम्। `धातुस्वरं श्नास्वरो बाधते` इति। सतिशिष्टस्वरत्वात्, सतिशिष्टसय वलीयस्त्वात्। तथा ह्रु कतम्--`सतिशिष्टस्वरो बलीयानिति वक्तव्यम्`। (वा।6.1.174) इति। `लुनाति, पुनाति` इति। `प्वादीनां ह्यस्वः` 7|3|80 इति ह्यस्वः। श्नाप्रत्ययसय च प्रत्ययस्वरेणाद्युदात्तत्वम्। `श्नास्वरम्` इति। बाधत इति सम्बध्यते। ननु परत्वात्? तिबादिषु कृतेषु विकरणैर्भवितव्यम्, अतः सति सार्वधातुकस्वरे श्नास्वरस्य शिष्यमाणत्वात्? तस्य सतिशिष्टत्वम्; एवञ्च श्नास्वरेणैव बाधा युक्ता ततस्वरस्य? एवं मन्यते यत्? `तास्यनुदात्तेन्ङिदुपदेश` 6|1|180 इत्यादिना तासेः परस्य लसार्वधातुकत्वं शास्ति तज्ज्ञापयति--शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरेण बाध्यत इति। `लुनीतः, पुनीतः` इति। `ई हल्यधोः 6|4|113 इतीत्वम्। `तस्स्वरमाम्स्वरः` इति। बाधत इति सम्बन्धः। बाधकत्वे तस्य हेतुः सतिशिष्टत्वमेव। `लुनीतस्तराम्` इति। `तिङ्श्च` 5|3|56 इति तसन्तात्तरप्, तदन्तात्? `किमेतिङ्व्यय` 5|4|11 इत्यादिनाऽ‌ऽमुप्रत्ययः। किमर्थं पुनरयमेकवर्जपदस्वरो विधीयते? इत्याह--`आगमस्य` इत्यादि। आगमादीनां पृथक्? स्वरो मा मुदित्येवमर्थमेकं वर्जयित्वा पदानुदात्त्वं विधीयते। `आगमस्वरः प्रकृतिस्वरं वाधते` इति। सत्यस्मिन्नेकवर्जं पदं स्वरे। असति तवस्मिन्? परकृतेरागमस्य च पृथगेव स्वरः स्यात्। `चत्वारः` इति। प्रकृतिस्वरः पुनराद्युदात्तत्वम्। तथा हि `चतेरुरन` (द।उ।8।78) इत्युरन्प्रत्ययान्तश्चतुःशब्दो व्युत्पाद्यत इति स नित्स्वरेणाद्युदात्तो भवति। `अनङ्वाहः` इति। अनुडुहोऽप्येवं व्युत्पत्तिः क्रियते। `अन प्राणने` (धातुपाठः-1070) अस्मात्? `सर्वधातुभ्योऽसुन्` (द।उ।9।49) इत्यसुन्प्रत्ययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? `उश्चानसः` (द।उ।9।49) इत्यसुन्परतययान्तत्वादनःशब्दो नित्स्वरेणाद्युदात्तः। अनो बहतोत्यनसि वहेः क्विप्? `उश्चानसः` (द।उ।9।107) इत्यनस्युपपदे वहेर्धातोः क्विप्, अनश्चोकारादेशः। वहेर्यजादित्वात्? सम्प्रसारणम्, उपपदसमासः, `तत्पुरुषे तुल्यार्थ` 6|2|2 इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। तस्मादनुडुहोऽप्येवं व्युत्पादितस्य स्यादाद्युदात्तत्वम्। विकारः=आदेशः। `अनङ्स्वरः प्रकृते` इति। दध्यसथिशब्दावाद्युदात्तौ। तथा हि `असु क्षेपणे` (धातुपाठः-1209) `असिसञ्जिभ्यां क्थिन्` (द।उ।1।10) इति क्थिन्प्रत्ययान्तत्वान्नित्स्वरेणास्थिशब्द आद्युदात्तः। दधिशब्दोऽपि किन्प्रत्ययान्तत्वादाद्युदात्त एव। धाधातोः `आदृगमहनजनः किकिनौ लिट्? च` 3|2|171 इति किन्प्रत्ययः, तत्र द्विर्वचने कृत आकारलोपे च दधीति भवति। `अस्थिदधि` 7|1|75 इत्यादिनाऽनङि कृते तस्य यः स्वरः स च कत्र्तवयः, तस्याप्यसत्यस्मिन्नस्थिदधिशब्दयोरनङश्च प्रथगेवोदात्तत्वं तु स्यात्। अस्मस्तु सत्यनङ एव भवति। `प्रकृतेः` इत्यादि। `गोपायति, धूपायति` इति। अत्र प्रकृतेर्गुपेर्धूपेश्च `धातोः` 6|1|156 इत्यन्तोदात्त्त्वे आयप्रत्ययादेरप्याकारस्य प्रत्ययाद्युदात्तत्वम्। गोपायधूपायशब्दयोरपि `सनाद्यन्ता धातवः` 3|1|32 इति धातुसंज्ञायां कृतायाम्? `धातोः` 6|1|156 इत्यन्तोदात्तमेव प्राप्नोति। एवं पृथक्? स्वरप्रसंगे यकाराकारस्यैव धातुस्वरो भवति, न गुपिधूप्योः, नापि प्रत्ययाकारस्य। `कत्र्तव्यम्` इति। धातोरन्तोदात्तत्वे प्रत्ययस्याद्युदात्तत्वे च प्राप्ते प्रत्ययाद्युदात्तत्वमेव भवति, न तु धातुस्वरः। अथानियमेनैकस्वरस्य वर्जयमानता कस्मान्न भवति, न ह्रत्र सूत्रे कश्चिद्व्यवस्थाहेतुरुपात्तः, न च विना व्यवस्थाहेतुना सा लभ्यते? इत्याह--`परनित्यान्तरङ्ग` इत्यादि। यत्र परादिस्वराः प्राप्नुवन्ति, तद्विपक्षाश्च, तत्र परादीनां बलीयस्त्वात्? तत एव वर्जयं न, इतरे तु निवर्त्त्यन्ते। यत्र तु परनित्यान्तरङ्गापवादेऽपि क्वचिदिष्टं न सिध्यति, तत्र सतिशिष्टेन व्यवस्था भवति, तस्य हि वलीयसत्वमुक्तम्। अतः सतिशिष्टेतरस्वरप्राप्तौ सतिशिष्ट एव वज्र्यते, मेतरः। कथं पुनः सतिशिष्टे न व्यवस्था? इत्यत आह--`यो हि` इत्यादि। कथमेतज्ज्ञायते? इत्याह--`तथा हि` इत्यादि। `गोपायति` इति। अत्रायप्रत्ययस्य प्रत्ययस्वरेणाद्युदात्तत्वम्। स च स्वरो धातुस्वरस्यापवादोऽपि सन्नायप्रत्ययान्तस्य धातुसंज्ञायां कृतायां पुनस्तेन धातुस्वरेण सतिशिष्टेन बाध्यते। `कार्ष्णोत्तरासङ्गपुत्रः` इति। बहुव्रीहिं कृत्वा तत्पुरुषः कत्र्तव्यः। `बहुव्रीहिस्वरः` इति। `बहुव्रीहौ प्रकृत्या` 6|2|1 इत्यादिनोक्तः। पूर्वकं ज्ञापकं चेतस कृत्वाऽ‌ऽह--`विकरणस्वरस्तु` इत्यादि। `विभक्तिस्वरात्` इत्यादि। `निपाता आद्युदात्ताः` (फि।सू।4।80) इति नञुदात्तः। तत्र तत्पुरुष समासे कृते `तत्पुरेषे तुल्यार्थं` 6|2|2 इत्यदिवा प्रकृतस्वरादुदात्तत्वमेव भवति। यदा तु नञ्स्वराद्विभक्तिसवरः प्राप्नोति नञ्स्वरश्चेष्यते, तस्माद्विभक्तिस्वरो `बलीयानिति वक्तव्यम्। बलीयस्त्वे सति किं भवति? इत्याह--`अतिस्तर इत्यत्र` इत्यादि। `तिसृब्यो जसः` 6|1|160 इत्यनेन विभक्तेरुदात्तत्वं विधीयते। तद्बलीयस्त्वात्? सतिशिष्टमपि नञ्सवरेण बाध्यते। विभक्तस्वरस्य तु--तिरुआः, त्रिसृष्वित्येषोऽवकाशः। `विभक्तिनिमित्तस्वराच्च` इत्यादि। विभक्तिर्निमित्तं यस्य स स्वरो विभक्तिनिमित्तस्वरः। `यस्य विभक्तिर्निमित्तमामः` इति। आमो विभक्तिनिमित्तत्वं, `पथमथोः सर्वनामस्थाने` 6|1|193 इत्यतः सर्वनामस्थानग्रहणानुवृत्तेः। तस्य `यदुदात्तत्वम्` इत्यादिना बलीयस्त्वस्य फलं दर्शयति। विभक्तिनिमित्तस्वरस्य--चत्वारः, अनङ्वाह इतत्येषोऽवकाशः। `वाक्ये हि` इत्यादि। देवदत्तशब्द आमन्त्रितस्वरेणाद्युदात्तत्वम्, गोशब्दो हि प्रातिपदिकस्वरेणान्तोदात्तः, तस्य `औतोऽम्शसोः` 6|1|90 इत्याकारोऽपि स्थानिवद्भावेनोदात्त एव। तथा विभक्त्या सहैकादेशेऽपि `एकादेश उदात्तेनोदात्तः` 8|2|5 इति वचनात्। अभिशब्दोऽन्तोदात्तः, तस्य `निपाता आद्युदात्ताः` (फि।सू।4।80), `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्याद्युदात्तविधाने वर्जितत्वात्? प्रातिपदिकस्वर एव भवति। आङुपसर्गस्वरेणाद्युदात्तः। अजित्येष तु लोडन्तः `तिङ्ङतिङ` 8|1|28 इति निधातेनानुदात्तः। शुक्लशब्दो हि प्रातिपदिकस्वरेणान्तोदात्त इति तस्य `एकादेश उदात्तेनोदात्तः` 8|2|5 इति टापा सहैकादेशे कृतेऽन्तोदात्त एव भवति। एवममिपूरवत्वे कृते वेदितव्यम्। तदेवं पदग्रहणाद्वाक्य एकैकस्मिन्? पदे पृथगेव स्वरो भवति। यद्यनुदात्तं पदमेकवर्जं भवति, एवं सति यावत्? पदसंज्ञा न भवति तावदेकं वर्जयित्वा परिशिष्टस्यानुदात्तत्वेन भवितव्यम्, ततश्च कुवल्या विकारः, कौवलमित्यत्र `अनुदात्तादेश्च` 4|2|139 इत्येनेनाञ्प्रत्ययो न स्यात्। यत कुवलशब्दोयं `ग्रामदीनाञ्च` (फि।सू।2।38) इत्याद्युदात्तः, गौरादित्वान्ङीषि विहतेऽपि पदव्यपदेशाभावादाद्युदात्तत्वं न परित्यजतीत्याह--`परिमाणार्थं चेदम्` इत्यादि। पदमत्र गौणमभिप्रेतम्? न मुख्यम्; अन्यथा पदाधिकारे सति पुनः पदग्रहणमनर्थकं स्यात्। तस्मादुत्तरकालं यस्य पदसंज्ञा भविष्यति, तदिह पदमभिप्रेतमिति वेदितव्यम्। असति पदग्रहणे न ज्ञायते--कियतामचामनुदात्तत्वं भवतीति। पदग्रहणे तु सत्येकस्मिन्? पदे यावन्तोऽचस्तावतामनुदात्तत्वं भवतीत्येषोऽर्थो ज्ञायते, तस्मात्? परमाणार्थमिति। नतु सुबन्तस्य तिङ्न्तस्य वा प्रतिपादनार्थम्। तेन प्रागेव पदव्यदैशादनुदात्तत्वेन भवितव्यमिति न भवति पूर्वोक्तदोषप्रसङ्गः। स्यादेतत्--यद्यपि पदमित्यनेन मुख्यं पदं न प्रत्याय्यते, तथापि पदाधिकारेण तदिह सन्निधाप्यत इति तदवस्थ एव स दोषः? इत्यत आह--`पदाधिकारस्य निवृतिंत करोति` इति। एतत्? पदग्रहणं गौणमर्थं प्रतिपादयन्? मुख्यपदधिकारं निवत्र्तयति। तेन किमिष्टं भवति? इत्याह--`तेन` इत्यादि। `तथा च` इति। एवं च सतीत्यर्थः प्रागेव पदवयपदेशात् स्वरविधानतुल्यकालमेव परिशिष्टतस्यानुदात्तत्वं भवतीति। अमुमेवार्थं द्रढयितमाह--`गर्भिणी` इत्यादि। गर्भोऽस्या अस्तीतीनिः, `ऋन्नेभ्यो ङीप्` 4|1|5 इति ङीप्। गर्भशब्दोऽयं कुवलशब्दवदाद्युदात्तः। तत्र यदीनिप्रत्ययस्योदात्तत्वसमकालमेवानुदात्तत्वं भवति ततो गर्भिणीशब्दस्यानुदाततादित्वात्? `अनुदाततादेरञ्? 4|2|44 इत्यञ्? प्राप्नोतीति तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। तस्य तूत्तरकालं पदसंज्ञायामुपजातायामवशिष्टस्यानुदात्तत्वं स्यात्। एवं सति गर्भिणी शब्द आद्युदात्तः स्यात्। ततश्चाणो बाधनार्त भिक्षादिषु न पठएत, पठते च। तस्मात्? ततो विज्ञायते--प्रागेव पदव्यपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यभिप्रायः। किं पुनः कारणं लब्धायां पदसंज्ञायामवशिष्टस्यानुदात्त्त्वे विधीयमाने कुवलशब्दावञ्? न सिध्यति, कथञ्च गर्भिणीशब्दस्यानुदात्तादिलक्षमस्याञो बाधनार्थो भिक्षादिषु पाठः प्रागेव पदवयपदेशात्? स्वरविधिसमकालमेवावशिष्टस्यानुदात्तत्वं भवतीत्यस्यार्थस्य ज्ञापकः? इत्याह--`कुवलगर्भशब्दौ` इत्यादि। आद्युदात्त्त्वे ह्रनयोर्यदि पदसंज्ञायां सत्यामवशिष्टस्यानुदात्तत्वं स्यात्, कुवलीशब्दस्य च स्यात्? ततश्च कुवलीशब्दाद्विकारेऽर्थेऽञ्? न स्यात्। गर्भिणीशब्दस्याद्युदात्तत्वादञ्? प्राप्नोति, ततस्तद्बाधनर्थं भिक्षादिषु न पठएत, पठते च, तस्मादवसीयते--प्रागेव पदव्यपदेशादवशिष्टस्यानुदात्तत्वं भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
॥ अथ स्वरप्रकरणम्‌ ॥

परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः--(कौमुदी-2304) इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ ।सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् (वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनुदात्तं पदमेकवर्जम् (2595) (सूत्रार्थनिर्णायकभाष्यम्) किमनुदात्तानि पदानि भवन्ति एकं पदं वर्जयित्वा ? नेत्याह । पदे येषामुदात्तप्रसङ्गस्तेऽनुदात्ता भवन्ति एकमचं वर्जयित्वा ।। (न्यासे न्यूनत्वाक्षेपभाष्यम्) स तर्हि तथा निर्देशः कर्तव्यः ‐ - अनुदात्ताः पदे, अनुदात्ताः पदस्येति वा ।। (समाधानभाष्यम्) न कर्तव्यः । अनुदात्तं पदमेकवर्जम् इत्येव सिद्धम् । कथम् ? मतुब्लोपोऽत्र द्रष्टव्यः । तद्यथा ‐ - पुष्पका एषां ते पुष्पकाः, कालका एषां ते कालका इति । अथवा ‐ - अकारो मत्वर्थीयः । तद्यथा ‐ - तुन्दः, घाट इति ।। (सूत्राक्षेपभाष्यम्) किमर्थं पुनरिदमुच्यते ? (सूत्रप्रयोजने श्लोकभाष्यम्) आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्स्वरनिवृत्त्यर्थमेकवर्ज पदस्वरः ।। आगमस्य ‐ - चतुरनडुहोरामुदात्तः 7|1|98 । चत्वारः, अनड्वाहः । विकारस्य ‐ - अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 । अस्थ्ना, दध्ना । प्रकृतेः ‐ - गोपायति, धूपायति । प्रत्ययस्य च ‐ - -कर्तव्यम्, तैत्तिरीयः । एतेषां पदे युगपत्स्वरः प्राप्नोति । इष्यते चैक एव स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यनुदात्तं पदमेकवर्जम् । एवमर्थमिदमुच्यते ।। (सूत्राक्षेपभाष्यम्) नैतदस्ति प्रयोजनम् । (सूत्रप्रयोजनसाधकज्ञापकश्लोकभाष्यम्) यौगपद्यं तवै सिद्धम् यदयं तवै चान्तश्च युगपत् 6|2|51 इति सिद्धे यौगपद्ये यौगपद्यं शास्ति तज्ज्ञापयत्याचार्यः ‐ - न युगपत्स्वरो भवतीति ।। (प्रत्याक्षेपभाष्यम्) पर्यायस्तर्हि प्राप्नोति । (प्रत्याक्षेपसमाधानश्लोकभाष्यम्) पर्यायो रिक्तशासनात् । यदयं रिक्ते विभाषा 6|1|208 इति सिद्धे पर्याये पर्यायं शास्ति तज्ज्ञापयत्याचार्यः ‐ - न पर्यायो भवतीति ।। (प्रयोजनाक्षेपश्लोकभाष्यम्) उदात्ते ज्ञापकं त्वेतत् एतदुदात्ते ज्ञापकं स्यात् ।। (प्रयोजनसाधकश्लोकभाष्यम्) स्वरितेन समाविशेत् ।। स्वरितेन समावेशः प्राप्नोति । स्वरितेऽप्युदात्तोऽस्ति । तस्मान्नार्थोऽनेन योगेन ।। (वार्तिकावतरणभाष्यम्) आरभ्यमाणेऽप्येतस्मिन्योगे ‐ - (6257 सूत्रस्यानुदात्तत्वविधायकत्वे दोषवार्तिकम् ।। 1 ।।) - अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् - अनुदात्ते विप्रतिषेधो नोपपद्यते । पठिष्यति ह्याचार्यो विप्रतिषेधम् ‐ - जे दीर्घाद्वह्वचः इति, स विप्रतिषेधो नोपपद्यते । किं कारणम् ? एकस्मिन् युगपत्संभवात् । असति खलु सम्भवे विप्रतिषेधो भवति, अस्ति च सम्भवो यदुभयं स्यात् । कथं सम्भवः ? यदाऽनुदात्तं पदमेकवर्जमित्युच्यते। तदिह नास्ति। किं कारणम्? नानेनोदात्तत्वं प्रतिषिध्यते । किं तर्हि ? अनुदात्तत्वमनेन क्रियते, अस्ति च सम्भवो यदुभयोश्चोदात्तत्वं स्यात्, अन्येषां चानुदात्तत्वम् ।। (अस्याधिकारत्वमाश्रित्य दोषनिवारकभाष्यम्) यदि पुनरयमधिकारो विज्ञायते । किं कृतं भवति ? अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योग उपतिष्ठते । जे दीर्घान्तस्यादिरुदात्तो भवति, उपस्थितमिदं भवति ‐ - अनुदात्तं पदमेकवर्जमिति । अन्त्यात्पूर्वं बह्वचः 6|2|83, उपस्थितमिदं भवति ‐ - अनुदात्तं पदमेकवर्जमिति । तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति परेण भविष्यति, परत्वात् ।। (अधिकारत्वे दोषभाष्यम्) नैवं शक्यम् । एवमपि षाष्ठिक एव स्वरः संगृहीतः स्यात्, येऽन्ये सप्ताध्याय्यां स्वरास्ते न संगृहीताः स्युः ‐ - समानोदरे शयित ओ चोदात्तः 4|4|108 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः 7|1|75 इति ।। (6258 न्यासान्तरेण दोषनिवारकवार्तिकम् ।। 2 ।।) - सिद्धं त्वेकाननुदात्तत्वात् - सिद्धमेतत् । कथम् ? एकाननुदात्तत्वात् । एकाननुदात्तं पदं भवतीति वक्तव्यम् । किमिदमेकाननुदात्तत्वादिति ? न उदात्तः ‐ - अनुदात्तः, न अनुदात्तः ‐ - अननुदात्तः । एकः ‐ - अननुदात्तोऽस्मिंस्तदिदमेकाननुदात्तम् । एकाननुदात्तत्वादिति । सिद्ध्यति । सूत्रं तर्हि भिद्यते ।। (परिभाषात्वस्वीकारेण न्यासान्तरनिवारकभाष्यम्) यथान्यासमेवास्तु । ननु चोक्तम् ‐ - अनुदात्ते विप्रतिषेधानुपपत्तिरेकस्मिन् युगपत्संभवात् इति । नैष दोषः । परिभाषेयम् । किं कृतं भवति ? कार्यकालं संज्ञापरिभाषम् । यत्र कार्यं तत्रोपस्थितमिदं द्रष्टव्यम् । जे दीर्घान्तस्यादिरुदात्तो भवतीत्युपस्थितमिदं भवति ‐ - अनुदात्तं पदमेकवर्जम् इति । अन्त्यात्पूर्वं बह्वचः इत्युपस्थितमिदं भवति ‐ - अनुदात्तं पदमेकवर्जम् इति । तत्र पूर्वेणास्तु र्वज्यमानता परेण वेति ‐ - परेण भविष्यति, परत्वात् ।। अथवा नेदं पारिभाषिकानुदात्तस्य ग्रहणम् । किं तर्हि ? अन्वर्थग्रहणम् । अविद्यमानोदात्तम् ‐ - अनुदात्तमिति ।। (6259 आक्षेपवार्तिकम् ।। 3 ।।) - एकवर्जमिति चाप्रसिद्धिः सन्देहात् - एकवर्जमिति चाप्रसिद्धिः । कुतः ? सन्देहात् । न ज्ञायते क एको वर्जयितव्य इति ।। (6260 समाधानवार्तिकम् ।। 4 ।।) - सिद्धं तु यस्मिन्ननुदात्त उदात्तवचनानर्थक्यं तद्वर्जम् - सिद्धमेतत् । कथम् ? यस्मिन्ननुदात्ते उदात्तवचनमनर्थकं स्यात्स एको वर्जयितव्यः ।। (6261 समाधानाक्षेपवार्तिकम् ।। 5 ।।) - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वादप्रसिद्धिः स्यात् । प्रकृतिस्वरस्यावकाशः ‐ - यत्रानुदात्तः प्रत्ययः । पचति, पठति । प्रत्ययस्वरस्यावकाशः ‐ - यत्रानुदात्ता प्रकृतिः । समत्वम्, सिमत्वम् । इहोभयं प्राप्नोति ‐ - कर्तव्यम्, तैत्तिरीयः ।। (समाधानभाष्यम्) विप्रतिषेधात्प्रत्ययस्वरः । विप्रतिषेधात्प्रत्ययस्वरो भविष्यति । नैवम् । विप्रतिषेधे परमित्युच्यते । न परः प्रत्ययस्वरः । नैष दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति ।। (6262 भाष्योक्तसमाधानाक्षेपवार्तिकम् ।। 6 ।।) - विप्रतिषेधात्प्रत्ययस्वर इति चेत्काम्यायादिषु चित्करणम् - विप्रतिषेधात् प्रत्ययस्वर इति चेत्काम्यायादयश्चितः कर्तव्याः । पुत्रकाम्यति, गोपायति, ऋतीयते । नैष दोषः । प्रकृतिस्वरोऽत्र बाधको भविष्यति ।। (आक्षेपभाष्यम्) प्रकृतिस्वरे प्रत्ययस्वराभावः । कर्तव्यम् । तैत्तिरीयम् ।। (6263 समाधानवार्तिकम् ।। 7 ।।) - सिद्धं तु प्रकृतिस्वरबलीयस्त्वात्प्रत्ययस्वरभावः - सिद्धमेतत् । कथम् ? प्रकृतिस्वराद्बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः । कथम् ? प्रकृतिस्वरात् प्रत्ययस्वरो बलीयान् भवतीति वक्तव्यम् ।। (6264 उपसंख्यानवार्तिकम् ।। 8 ।।) - सति शिष्टस्वरबलीयस्त्वं च - सति शिष्टस्वरो बलीयान् भवतीति वक्तव्यम् ।। (6265 उपसंख्यानप्रयोजनवार्तिकम् ।। 9 ।।) - तच्चानेकप्रत्ययसमासार्थम् - तच्चावश्यं सति शिष्टस्वरबलीयस्त्वं वक्तव्यम् । किं प्रयोजनम् ? अनेकप्रत्ययार्थमनेकसमासार्थं च । अनेकप्रत्ययार्थं तावत् ‐ - औपगवः, प्रकृतिस्वरमण्स्वरो बाधते । औपगवत्वम्, त्वस्वरोऽण्स्वरं बाधते । औपगवत्वकम्, त्वस्वरं कस्वरो बाधते । अनेकसमासार्थम् ‐ - राजपुरुषः, राजपुरुषपुत्रः, राजपुरुषपुत्रपुरुषः ।। (सति शिष्टबलीयस्त्वाक्षेपभाष्यम्) यदि सति शिष्टस्वरबलीयस्त्वमुच्यते, स्यादिस्वरः सार्वधातुकस्वरं बाधेत । सुनुतः, धिनुतः, चिनुतः ।। (6266 समाधानवार्तिकम् ।। 10 ।।) - स्यादिस्वराप्रसङ्गश्च तासेः परस्यानुदात्तवचनात् - स्यादिस्वरस्य चाप्रसङ्गः । कुतः ? तासेः परस्यानुदात्तवचनात् । यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति तज्ज्ञापयत्याचार्यः सति शिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इति ।। (6267 प्रकारान्तरेण समाधानवार्तिकम् ।। 11 ।।) - शास्त्रपरविप्रतिषेधानियमाद्वा शब्दपरविप्रतिषेधात्सिद्धम् - अथवा शास्त्रपरविप्रतिषेधे न सर्वमिष्टं संगृहीतं भवतीति कृत्वा शब्दपरविप्रतिषेधो विज्ञास्यते । यदि शब्दपरविप्रतिषेधो भवति, काम्यादयश्चितः कर्तव्याः । पुत्र काम्यति । गोपायति । ऋतीयते । नैष दोषः । शब्दपरविप्रतिषेधो नाम स भवति यत्रोभयोर्युगपत्प्रसङ्गः, न च काम्यादिषु युगपत्प्रसङ्गः ।। (6268 बलीयस्त्वबोधकवार्तिकम् ।। 12 ।।) - विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् - विभक्तिस्वरान्नञ्ञ्स्वरो बलीयान् भवतीति वक्तव्यम् । विभक्तिस्वरस्यावकाशः ‐ - तिस्रस्तिष्ठन्ति । नञ्ञ्स्वरस्यावकाशः ‐ - अब्राह्मणः, अवृषलः । इहोभयं प्राप्नोति ‐ - अतिस्रः । नञ्ञ्स्वरो भवति ।। (6269 बलीयस्त्वबोधकवार्तिकम् ।। 13 ।।) - विभक्तिनिमित्तस्वराच्च - विभक्तिनिमित्तस्वराच्च नञ्ञ्स्वरो बलीयानिति वक्तव्यम् । विभक्तिनिमित्तस्वरस्यावकाशः ‐ - चत्वारः, अनड्वाहः । नञ्ञ्स्वरस्य स एव । इहोभयं प्राप्नोति ‐ - अचत्वारः, अननड्वाहः ।। (6270 बलीयस्त्वबोधकवार्तिकम् ।। 14 ।।) - यच्चोपपदं कृति नञ् - यच्चोपपदं कृति नञ्ञ्तस्य च स्वरो बलीयानिति वक्तव्यम् । अकरणिर्ह ते वृषल ।। (6271 बलीयस्त्वबोधकवार्तिकम् ।। 15 ।।) - सहनिर्दिष्टस्य च - सहनिर्दिष्टस्य च नञ्ञः स्वरो बलीयानिति वक्तव्यम् । अव्यथी ।।