Page loading... Please wait.
6|1|150 - विष्किरः शकुनिर्विकरो वा
॥ तस्मै पाणिनये नमः ॥
6|1|150
SK 1065
विष्किरः शकुनिर्विकरो वा   🔊
सूत्रच्छेदः
विष्किरः (प्रथमैकवचनम्) , शकुनौ (सप्तम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 सुट्कात्पूर्वः  6|1|135
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विष्किरः इति किरतेः विपूर्वस्य इगुपधज्ञाप्रीकिरः कः 3|1|135 इति कप्रत्यये विहिते सुट् निपात्यते शुकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर् भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणम् इह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत्।
ननु च `विष्किरः शकुनौ वा` इत्येतावतैव सुङ्विक्लपः सिद्धः, तत्र किमर्थं विकिरग्रहणम्? इत्यत आह--`शकुनावेव विकिरशब्दस्य प्रयोगो यथा स्यादन्यत्र मा भूदित्येवमर्थं विकिराग्रहणम्` (इति)॥
विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा ठ्विष्किरः शकुनौ वाऽ इत्येतावत् सूत्रम् ॥
सिद्धान्तकौमुदी
पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥
कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः) - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः ।
कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः) - कातीरमिति ।ईषदर्थे॑ इति कोः कादेशः ।
लघुसिद्धान्तकौमुदी
हलः परस्य तद्धितयकारस्योपधाभूतस्य सोप ईति परे। गार्गी॥
महाभाष्यम्
विष्किरः शकुनौ वा (2583) (6255 उपसंख्यानवार्तिकम् ।। 1 ।।) - विष्किरः शकुनौ विकिरो वा - विष्किरः शकुनौ विकिरो वेति वक्तव्यम् । शकुनौ वेत्युच्यमाने शकुनौ वा स्यादन्यत्रापि नित्यम् ।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । न वावचनेन शकुनिरभिसंबध्यते । किं तर्हि ? निपातनमभिसंबध्यते ‐ - विष्किर इत्येतन्निपातनं शकुनौ वा निपात्यत इति ।।