Page loading... Please wait.
6|1|14 - बन्धुनि बहुव्रीहौ
॥ तस्मै पाणिनये नमः ॥
6|1|14
SK 1005
बन्धुनि बहुव्रीहौ   🔊
सूत्रच्छेदः
बन्धुनि (सप्तम्येकवचनम्) , बहुव्रीहौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्यङः संप्रसारणम् इति अनुवर्तते। बन्धुशब्दे उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणम् भवति। कारीषगन्ध्या बन्धुः अस्य कारीषगन्धीबन्धुः। कौमुदगन्धीबन्धुः। बहुव्रीहौ इति किम्? कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः। अत्र अपि पूर्ववदेव। परमकारीषगन्धीबन्धुः इत्यत्र भवति। अतिकारीषगन्ध्याबन्धुः इति च न भवति, तथा कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः इति। बन्धुनि इति नपुंसकालिङ्गनिर्देशः शब्दरूपापेक्षया, पुंलिङ्गाभिधेयस् तु अयं बन्धुशब्दः। मातच् मातृकमातृषु। ष्यङः सम्प्रसारणं भवति विभाषया बहुव्रीहावेव। कारीषगन्ध्या माता अस्य इत्येवं बहुव्रीहौ कृते एतस्मादेव उपसङ्ख्यानात् पक्षे मतृशब्दस्य मातजादेशः। तत्र चित्करनसमर्थ्याद् बहुव्रीहिस्वरम् अन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेन उपादानात् नद्यृतश्च 5|4|153 इति कबपि विकल्प्यते। कारीषगन्धीमातः, कारीषगन्ध्यमातः, कारीषगन्धीमातृकः, कारिषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता।
`बन्धुनीति नपुंसकनिर्देशः` इत्यादि। बन्धुनीति शब्दरूपापेक्षया नपुंसकलिङ्गन निर्देशः कृत इत्यर्थः। किं पुनः कारणमेवं व्याख्यायते? इत्याह--`पुलिङ्गाभिधेयोऽयम्` इत्यादि। ननु बन्धाविति पुलिङ्गेनैव निर्देशः कस्मान्न कृतः/ पर्यायेषु मा भूत्। एवं हि क्रियमाणेऽर्थप्रधानोऽयं निर्देश इत्यादिः स्यात्, ततश्च पर्यायेष्वपि प्रसज्येत। अर्थप्रधाने निर्देशे स्वरूपपरिभाषा नोपतिष्ठत इत्युक्तम्। `मातच्` इत्यादि। ननु च मातजिति शब्दरूपं नास्त्येव, न ह्रस्य स्वतन्त्रस्य क्वचित्? प्रयोगो लभ्यते, कथं तत्र सम्प्रसारणं कर्त्तं शक्यम्? इत्यत आह `अस्मादेव` इत्यादि। `तत्र` इत्यादि। यदि च `बहुव्रीहौ प्रकृत्या पूर्वपदम्` 6|2|1 इति बहुव्रीहिस्वरः स्यात्, चित्करणमनर्थकं स्यात्। तस्मान्मा भूत्? तस्यानर्थक्यमिति चित्कारणसामथ्र्याम्? बहुव्रीहिस्वर` `चितः` 6|1|157 इत्यन्तोदात्तत्वं विधीयमानं बाधते। ननु च मातृशब्दो बहुव्रीहावुत्तरपदं न सम्भवत्येव, `नद्युतश्च` 5|4|153 इति नित्यं कपा भवितव्यम्, तत्? कथं तत्रोत्तरपदे बहुव्रीहौ ष्यङः सम्प्रसारणमुपपद्यते? इत्याह--`मातृमातृकयोश्च` इत्यादि। यदि च नित्यं कप्? स्यात्? मातृमातृकयोर्भेदेनोपादानं न कुर्यात्, कृतञ्च। तस्माद्भेदेनोपादानात्? कब्? विकल्पेन क्रियते, न केवलं मातजादेश इत्यपिशब्दस्यार्थः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्बहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धु । बहुव्रीहाविति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः क्लीबनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ ।मातज्मातृकमातृषु वा (वार्तिकम्) ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः नद्युतश्च (कौमुदी-833) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसामर्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते ॥
बन्धुनि बहुव्रीहौ - बन्धुनि बहुव्रीहौ । कारीषगन्धीबन्धुरिति । तत्र पत्युत्तरपदत्वाऽभावात्तत्पुरुषत्वाऽभावाच्च पूर्वेण न प्राप्तिः । मातञ्मातृकमातृषु वेति । वार्तिकमिदम् । मातच्, मातृक, मातृ-एषु परेषु ष्यङः संप्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति — कारीषगन्धीमातः, कारीषगन्ध्यामात इति । मातृशब्दस्य मातजादेशः । अदन्तमेतत् । मातृके उदाहरति — कारीषगन्धीमातृकः कारीषगन्ध्यामातृक इति ।नद्यृतश्चे॑ति कप् । मातृशब्दे उदाहरति — कारीषगन्धीमाता, कारीषगन्ध्यामातेति । शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं,नद्यृतश्चे॑ति नित्यविधानात्पाक्षिककप्च दुर्लभ इत्यत आह — अत एवेति । बहुव्रीहावेवेदमिति ।बन्धुनि बहुव्रीहौ इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः ।मात॑जिति चित्करणं स्वरार्थमित्याह — चित्त्वसामथ्र्यादिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
बन्धुनि बहुव्रीहौ (245) (उपसंख्यानभाष्यम्) मातज्मातृकमातृषु ष्यङ् प्रसार्यो विभाषया ।। मातच् ‐ - कारीषगन्ध्या माताऽस्य कारीषगन्धीमातः, कारीषगन्ध्यामातः । मातच् ।। मातृक ‐ - कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । मातृक ।। मातृ ‐ - कारीषगन्धीमाता, कारीषगन्ध्यामाता ।।