Page loading... Please wait.
6|1|133 - स्यश्छन्दसि बहुलम्
॥ तस्मै पाणिनये नमः ॥
6|1|133
SK 3526
स्यश्छन्दसि बहुलम्   🔊
सूत्रच्छेदः
स्यः (षष्ठ्यर्थे प्रथमा) छन्दसि (सप्तम्येकवचनम्) , बहुलम् (प्रथमैकवचनम्)
अनुवृत्तिः
हलि  6|1|132 (सप्तम्येकवचनम्) , सुलोपः  6|1|132 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
स्यः छन्दसि हलि बहुलं सुलोपः
सूत्रार्थः
वेदानां विषये - त्यद्-शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यस्य हलि परे बहुलं लोपः भवति ।
"त्यद् + सुँ" इत्यस्य अग्रे हल्-वर्णः आगच्छति चेत् वेदेषु सुँ-प्रत्ययस्य बहुलम् (इत्युक्ते, केषुचन स्थलेषु) लोपः कृतः दृश्यते । लोपे कृते "त्य" इति रूपम् जायते । लोपाभावे तु "त्यः" इति विसर्गान्तं रूपं लभ्यते ।

उदाहरणानि
1. "उत स्य वाजी क्षिपणिं" - (ऋग्वेदः 4.40.4) - अत्र "त्यद् + सुँ + वाजि" इत्यत्र स्य-इत्यस्मात् परस्य सुँ-प्रत्ययस्य लोपः कृतः अस्ति । प्रक्रिया इयम् -
त्यद् + सुँ + वाजी
त्य अ + सुँ + वाजी [त्यदादीनामः 7|2|102] इति दकारस्य अकारः]
→ त्य + सुँ + वाजी [अतो गुणे 6|1|97 इति गुण-एकादेशः पररूपः अकारः]
→ स्य + सुँ + वाजी [तदोः सः सावनन्त्ययोः 7|2|106 इति तकारस्य सकारः]
→ स्य + वाजी [स्यश्छन्दसि बहुलम् 6|1|133 इति सुँलोपः]
→ स्य वाजी

2. "यत्र स्यो निपतेत्" एतादृशेषु वाक्येषु स्यश्छन्दसि बहुलम् 6|1|133 इत्यननैव अयं लोपः न कृतः अपि दृश्यते । अत्र सुँ-प्रत्ययस्य ससजुषो रुँः [8।2।66]] इत्यनेन रूँत्वे कृते हशि च 6|1|114 इत्यनेन तस्य उकारादेशं कृत्वा आद्गुणः 6|1|87 इति गुण-एकादेशं कृत्वा "स्यो निपतेत्" इति रूपं सिद्ध्यति ।
One-line meaning in English
In the वेदाः, the सुँ-प्रत्यस्य attached to the प्रथमा-एकवचन of the word त्यद् might or might not be removed when followed by a हल्.
काशिकावृत्तिः
स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति। उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। एष स्य ते पवत इन्द्र सोमः। न च भवति, यत्र स्यो निपतेत्।
Text Unavailable. Please use feedback link below to provide the text if you have.
स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम् ठ्सुपां सुलुक्ऽ इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठयाः। उदाहरणे सत्वादि पूर्ववत् ॥
सिद्धान्तकौमुदी
स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम्? गवि॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.