Page loading... Please wait.
6|1|129 - अप्लुतवदुपस्थिते
॥ तस्मै पाणिनये नमः ॥
6|1|129
SK 98
अप्लुतवदुपस्थिते   🔊
सूत्रच्छेदः
अप्लुतवत् (अव्ययम्) , उपस्थिते (सप्तम्येकवचनम्)
अनुवृत्तिः
प्लुतः  6|1|125 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
प्लुतः अवस्थिते अप्लुतवत्
सूत्रार्थः
अवैदिके "इति" शब्दे परे प्लुतः अप्लुतवत् भवति ।
"उपस्थितः" इत्युक्ते अवैदिकवाङ्मये प्रयुज्यमानः "इति" शब्दः । अस्मिन् शब्दे परे प्लुतस्वरः "अप्लुतवत्" कार्यं करोति ।

यथा - "सुश्लोक3 इति" इत्यत्र ककारात् परः अकारः प्लुतः अस्ति, अतः प्लुतप्रगृह्या अचि नित्यम् 6|1|125 इत्यनेन प्रकृतिभावः जायते । परन्तु वर्तमानसूत्रेण अयं प्लुतः अप्लुतवत् कार्यम् करोति, अतः संहितायाः विवक्षायाम् आद्गुणः 6|1|87 इत्यनेन गुण-एकादेशे कृते "सुश्लोकेति "इति जायते ।

अत्र एतत् स्मर्तव्यम् यत् अस्मिन् सूत्रे "अप्लुतवत्" इति उक्तम् अस्ति, "अप्लुतम्" इति न । इत्युक्ते, अनेन सूत्रेण प्लुत-स्वरे परिवर्तनं कृत्वा तस्य ह्रस्व/दीर्घविधानं न क्रियते - प्लुत-स्वरः प्लुतः एव तिष्ठति, केवलं कार्यम् सः अप्लुत-स्वरवत् करोति । अतः यदि अस्य प्लुतस्य उच्चारणं करणीयम्, तर्हि त्रिमात्रिकमेव करणीयम् । यथा - "अग्नी3 इति" इत्यत्र यद्यपि प्लुतः अप्लुतवत् कार्यं करोति, तथापि "अग्नी" शब्दः प्रगृह्यः अस्ति अतः प्लुतप्रगृह्या अचि नित्यम् 6|1|125 इत्यनेन प्रकृतिभावः एव जायते । अतः अत्र सन्धिः न भवति, "अग्नी3 इति" इत्येव तिष्ठति । अत्र अस्य उच्चारणम् प्लुतवत् एव करणीयम् ।
One-line meaning in English
When followed by an अवैदिक "इति" word, a प्लुत behaves as if it is not प्लुत.
काशिकावृत्तिः
उपस्थितं नाम अनार्षः अतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपे ऽवस्थाप्यते। तस्मिन् परतः प्लुतः अप्लुतवद् भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोक3 इति सुश्लोकेति। सुमङ्गल3 इति सुमङ्गलेति। वत्करणं किम्? अप्लुत इति उच्यमाने प्लुत एव प्रतिषिद्यते। तत्र को दोषः? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्, अग्नी3 इति, वायू3 इति।
ऋषौ=वेदे भव आर्षः, तस्मादन्यो लौकिकोऽनार्षः। `समुदायात्` इति। वाक्यादित्यर्थः। कुत एतत? पदरहितस्य वक्यस्याप्रयोगात्। वाक्यस्य च समुदयात्मकत्वात्। `अवच्छिद्य` इति। पृथक्? कृत्वेत्यर्थः। `स्वरूपे व्यवस्थाप्यते` [स्वरूपेऽवस्थाप्यते--काशिका] इति। शब्दपदात्मकतायां व्यवस्थाप्यत इत्यर्थः। `अप्लुतवत्` इति। अप्लुतेन तुल्यं वत्र्तत इत्यप्लुतवत्। येन साधम्र्येणाप्लुतवद्भवति तद्दर्शयितुमाह--`प्लुतकार्यम्` इत्यादि। तदनेन प्लुतकार्यस्यार्थं प्रतिषेधः, न तु प्लुतस्येति दर्शितं भवति। `सुश्लोका 3` इति। `दूराद्धूते च` 8|2|84 इति प्लुतः। `सुश्लोका` इति। प्लुतकार्यस्याकरणादेकादेशो भवत्येव। ननु चैकादेशेनापि न भवितव्यम्, तस्यापि प्लुतकार्यत्वात्? नैतदस्ति; एवं हि वचनस्य वैयथ्र्यं स्यात्। तस्मात्? प्लुतसंशब्दनेनैव प्लुतस्य यत्कार्यं विहितं तस्यैव प्रतिषेधः, न सर्वस्य प्लृतकार्यस्य। न चैकादेश एवं विहितः। `वत्करणं किम्` इति। कार्यमात्रस्य प्रतिषेधे सति प्लुतस्य धवणं यथा स्यादित्येवमर्थं वत्करणं स्यात्। सत्यपि च कार्यमात्रस्य प्रकृतिभावस्य प्रतिषेधेनैव प्लुतश्रुत्या भवितव्यम्; एकदेशेन निवर्त्तितत्वात्। तत्? कस्मात्? प्लुतस्यैव प्रतिषेधो न क्रियत इत्यभिप्रायः। प्लुतप्रतिषेधे वक्ष्यमाणं दोषं चेतसि कृत्वाऽ‌ऽह--`प्लुत इत्युच्यमाने` इत्यादि। `तत्र को दोषः` इति। यो वत्करणे सति न भवतीति भावः। `प्रगृह्राश्रये` इत्यादि। प्रगृह्र आश्रयो यस्य तस्मिन्? प्रतिभावे सति प्रगृह्रसंज्ञको यः प्लुतस्तस्य श्रवणं न स्यात्, यदि प्लुत एव प्रतिषिध्येत। वत्करणे तु सति प्लुतकार्यस्यायं प्रतिषेधो भवति न प्लुतस्यैव। तत्र प्लुताश्रये प्रकृतिभावे प्रतिषिद्धेऽपि प्रगृह्राश्रयस्याप्रतिषिद्धत्वादसत्येकादेश एव दोषो न भवति। `अग्नी इति`। `इदूदेद्द्विवचनम्` 1|1|11 इत्यादिना प्रगृहयसंज्ञा, `गुरोरनृत` 8|2|86 इत्यादिना प्लुतः॥
ऋषिःउवेदः तत्र भव आर्षः, ततोऽन्योनार्षः, समुदायाद्वाक्यादवच्छिद्य पृथककृत्य स्वरूपेऽवस्थाप्यते। कैः? पदकारैः। पदस्येयतापरिज्ञानाय अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। तत्र येन साधर्म्येणाप्लुतवत्वम्, तद्दर्शयति--अप्लुतकार्यमिति। तत्रापि प्लुतशब्देन विहितस्य कार्यस्य प्रतिषेध इति दर्शयति--प्रकृतिभावं करोतीति। अन्यथा स्वरसन्धेरपि प्रतिषेधः स्यात्, तस्यापि प्लुकार्यत्वात्। उदाहरणेषु प्लुतकार्यपब्रतिषेधादेकादेशो भवत् प्लुतमेवोपमृद्य भवति; स्वरसन्धिप्रकरणे प्लुतस्य सिद्वत्वात्। तत्र को दोष इति। एकादेशेन निवर्त्यमानत्वात् प्लुतस्य श्रवणेन न भवितव्यमिति प्लुत एव निषिध्यताम्, किमर्थमतिदेशाश्रयणमिति प्रशनः। अग्नी3 इतीति। यत्र प्लुताश्रयोऽपि प्रकृतिभावः प्राप्नोति, प्रगृह्याश्रयोऽपि; तत्र प्लुताश्रयस्य प्रतिषेधेऽपि प्रगृह्याश्रयस्य प्रकृतिभावस्य प्रतिषेधाभावात् प्लुतस्य श्रवणं सिद्ध्यति, प्लतप्रतिषेधे तु क्रियमाणेऽत्रापि श्रवणं न स्यात् ॥
सिद्धान्तकौमुदी
उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति । अप्लुतकार्यं यणादिकं करोतीत्यर्थः । सुश्लोकेति । वत्किम् । अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत । तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् । अग्नी3 इति ॥
अप्लुतवदुपस्थिते - तदाह — उपस्थितोऽनार्ष इति । अप्सुतवद्भावस्य प्रयोजनमाह — प्लुतकार्यं प्रकृतिभावमिति ।अप्लुतकार्यं यणादिकं करोती॑ति पाठान्तरम् । सुश्लोकं३ इतीति । तैत्तिरीये "सुश्लोक३" इति प्लुतान्तो मन्त्रः पठितः । पदकालेऽवग्रहे तस्मात्परत इतिशब्दं पदकाराः पठन्ति । तत्रसुश्लोक३ इती॑ति स्थितेऽप्लुतवद्भावेन प्रकृतिभावाऽभावे सत्याद्गुणे सुश्लोकेतीति भवति । अत्रेतिशब्दः पदकारप्रक्षिप्तत्वादवैदिकः । तदेव "सुश्लोकेति" इत्युदाहरणं भाष्ये स्थितम् । पदकारास्तुसुश्लोक३ इति सुश्लोक३ इती॑त्येव अवगृह्णन्ति । तदपि संहिताया अविवक्षितत्वान्निर्वाह्रम् । संहितायामेव यणादिसन्धिविधानात् । वत्किमिति ।अप्लुत्तव॑दित्यत्र वद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः । उत्तरमाह — अप्लुत इत्यादिना । वद्ग्रहणं विहायाऽप्लुत उपस्थित इत्युक्तेप्लुतस्य स्थानेऽप्लुत एव विधीयते । अतः प्लुत एव निवर्तेत । ततश्च अग्नी३ इतीत्यत्र सम्बोधनप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्र ईकारस्त्रिमात्रो न श्रूयते । वत्करणे तु प्लुतकार्यस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते न तु प्लुतस्यापीति नोक्तदोष इत्यर्थः ।
अप्लुतवदुपस्थिते - यणादिकं करोतीति । अत्र नव्याः-॒यद्येवम्अग्नी इति ॑ विष्णू इति ॑ इत्यत्र प्रगृह्राश्रयं प्रकृतिभावं बाधित्वा परत्वादनेन यणादिकार्यं स्यात्, ततश्च वत्करणप्रयोजन यणादिकमेव स्यात्, तस्मात्प्लुतकार्यं प्रकृतिभावं न करोतीत्यर्थः॑ इति प्राचां व्याख्यैव ज्यायसी । एवं चइको यणची॑त्यत्रेग्ग्रहणस्य वैयथ्र्यशङ्रकाऽपि नास्ति । तथाहि — तत्रेग्ग्रहणाऽभावेऽपिह्यस्वस्य पिति कृति तुक्दीर्घा॑दित्यतो ह्यस्वदीर्घपदानुवृत्त्या तयोर्यण्विधानान्न व्यञ्जनस्य भविष्यति । प्लुतस्य तु प्रकृतिभावेनैव न भवितव्यमेव । योदयोऽपवादाहरय॑ इत्यादौ ।उपेन्द्रः॑कृष्णैकत्व॑मित्यादौ तुआद्गुणः॑वृद्धिरेचि॑ इति बाधके भविष्यतः । यथा सत्यपीग्ग्रहणेश्रीश॑ इत्यादौ सवर्णदीर्घत्वं बाधकम् । अतो नार्थ इग्ग्रहणेन । तथापिएहि करभोरु ३ इति॑सुतनु ३ इति॑ चिनुहि ३ अत्रे॑त्यादौअप्लुतवदुपस्थिते॑ई ३ चाक्रवर्मणस्ये॑ति प्रकृतिभावनिषेधेऽपि आभ्यां यणादिकार्याऽविधानात् प्लुतस्याऽस्य यण्न स्यात् । ह्यस्वदीर्घपदाननुवृत्तौ तु व्यञ्जनस्य स्यात् । तस्मादिग्ग्रहणं व्यर्थमिति न शक्यते शङ्कितु॑मित्याहुः । अन्ये त्विग्ग्रहणस्य प्रयोजनान्तरमप्याहुः,-इको यणेव क्वचिद्यथा स्याद्यदन्यत्प्राप्नोति तन्मा भूत् । किंचाऽन्यत् प्राप्नोति ,इकोऽसवर्णे॑ इति शाकलम् । एवं च यदुक्तंन समासे॑सिति चे॑ति, तदनेन सङ्गृहीतं भवती॑ति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अप्लुतवदुपस्थिते (2566) (उपस्थितपदार्थबोधकभाष्यम्) उपस्थिते इत्युच्यते, किमिदमुपस्थितं नाम ? अनार्ष इतिकरणः । सुश्लोका 3 इति, सुश्लोकेति ।। (पदकृत्यभाष्यम्) अथ वद्वचनं किमर्थम् ? (6236 वद्वचनप्रयोजनवार्तिकम् ।। 1 ।।) - वद्वचनं प्लुतकार्यप्रतिषेधार्थम् - वद्वचनं क्रियते प्लुतकार्यप्रतिषेधार्थम् । प्लुतकार्यं प्रतिषिध्यते, त्रिमात्रता न प्रतिषिध्यते । किं चेदानीं त्रिमात्रताया अप्रतिषेधे प्रयोजनम्, यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ? (6237 त्रिमात्रताया अप्रतिषेधे फलबोधकवार्तिकम् ।। 2 ।।) - प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् - प्लुतप्रतिषेधे हि सति प्रगृह्यस्यापि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत । अग्नी3इति । वायू3इति । किं चेदानीं तस्या अपि त्रिमात्रताया अप्रतिषेधे प्रयोजनम् ? यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् । न भवितव्यम् । किं कारणम् ? अन्येन विहितत्वात् । अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभाव उच्यते । प्रगृह्यः प्रकृत्येति ।।