Page loading... Please wait.
6|1|114 - हशि च
॥ तस्मै पाणिनये नमः ॥
6|1|114
SK 166
हशि च   🔊
सूत्रच्छेदः
हशि (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
उत्  6|1|111 (प्रथमैकवचनम्) , अप्लुतात्  6|1|113 (पञ्चम्येकवचनम्) , रोः  6|1|113 (षष्ठ्येकवचनम्) , अतः  6|1|113 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
अप्लुतात् अतः रोः उत् हशि
सूत्रार्थः
अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति
हश्-अस्मिन् प्रत्याहारे सर्वाणि मृदुव्यञ्जनानि समाविष्टानि सन्ति । इत्युक्ते, वर्गतृतीय-चतुर्थ-पञ्चमाः, अन्तस्थाः तथा हकारः । अकारात्-परस्य रूँ-वर्णस्य हश्-वर्णे परे अनेन सूत्रेण उत्वं भवति । यथा -

राम + सुँ + गच्छति
→ राम + रुँ + गच्छति [ससजुषोः रुः 8|2|66 इति रुत्वम् ।]
→ राम + उ + गच्छति [हशि च 6|1|113 इति रुँ-इत्यस्य उत्वादेशः ।]
→ रामो गच्छति [आद्गुणः 6|1|87 इति गुण-एकादेशः]

ज्ञातव्यम् -

1. अस्याम् प्रक्रियायाम् त्रिपाद्याः सूत्रात् अनन्तरम् हशि च 6|1|114 इत्यस्य प्रयोगः कृतः अस्ति । एतत् असिद्धाधिकारस्य उल्लङ्घनम् नास्ति, यतः हशि च 6|1|114 अस्य सूत्रस्य प्रसक्तिः केवलं त्रिपाद्याः अनन्तरम् एव भवितुम् शक्नोति - रुँत्वविधायकानि सूत्राणि केवलं त्रिपाद्यामेव वर्तन्ते । अतः यदि अत्र असिद्धाधिकारस्य प्रयोगं कुर्मः तर्हि हशि च 6|1|114 अस्य सूत्रस्य अवकाशः एव विनश्येत् । एतत् मा भूत्, अतः अतो हशि च 6|1|114 अस्य प्रयोगः त्रिपाद्याः अनन्तरम् भवितुम् अर्हति ।

अतः स्मर्तव्यम् - यदि कस्यचन सूत्रस्य केवलं त्रिपाद्याः अनन्तरम् एव प्रयोगः भवितुं शक्यते, तर्हि तत् सूत्रम् त्रिपाद्याः कृते असिद्धम् नास्ति ।

2. अनेन सूत्रेण केवलं रुँ-इत्यस्यैव उत्वम् भवति, सामान्य-रेफस्य न । यथा - पुनर् + गच्छति = पुनर्गच्छति ।

3. भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यस्य एतत् सूत्रम् अपवादः अस्ति । भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यनेन अकारात् परस्य रुँ-इत्यस्य अश्-वर्णे परे यकारादेशः भवति । तस्य अपवादत्वेन हश्-वर्णे परे अनेन सूत्रेण उत्वं विधीयते ।

4. अस्मिन् सूत्रे "अतः" इत्यत्र तपरकरणम् कृतम् अस्ति । अतः आकारस्य उपस्थितौ अयम् उत्वम् न भवति । यथा -
देव + जस् + गच्छन्ति = देवा गच्छन्ति । अत्र भो भगो अघोऽपूर्वस्य योऽशि 8|3|17 इत्यनेन यत्वं कृत्वा लोपः शाकल्यस्य 8|3|19 इत्यनेन यकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति ।

5.
प्रश्नः - सूत्रेऽस्मिन् "अप्लुतात् अकारात्" इति किमर्थम् उक्तम् अस्ति?
उत्तरम् - यतः अप्लुत-अकारात् परस्य रुँ-इत्यस्य, रूत्वम् मा भूत् । यथा - सुस्रोत3 सुँ + गच्छति = सुस्रोत3ः गच्छति । अत्र रुँ-इत्यस्य उत्वम् न भवति ।

उपप्रश्नः - परन्तु "अतः" इति तपरकरणं कृतम् अस्ति । अतः एतत् सूत्रम् केवलं ह्रस्व-अकारस्य विषये अस्ति एतत् स्पष्टं स्यात् खलु?
उत्तरम् - प्लुत-निर्माणम् केवलं त्रिपाद्याः सूत्रैः एव भवितुं शक्यते । तपरकरणस्य तपरस्तत्कालस्य 1|1|70 एतत् सूत्रम् तु सपादसप्ताध्याय्याम् अस्ति । अतः त्रिपाद्याः निर्मितः प्लुतस्वरः "अतः" इत्यनेन द्रष्टुम् न शक्यते । अतएव अस्मिन् सूत्रे "अप्लुतात् अतः" एतादृशम् प्लुतग्रहणम् क्रियते । प्लुत-शब्दस्य साक्षात् ग्रहणेन यद्यपि प्लुतस्वरः त्रिपाद्याः निर्मीयते, तथापि सः अत्र दृश्यमानः अस्ति एतत् ज्ञायते ।
One-line meaning in English
A रुँ letter that follows an अप्लुत-ह्रस्व-अकार and is also followed by a हश् letter is converted to an उकार.
काशिकावृत्तिः
हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति। पुरुषो याति। पुरुषो हसति। पुरुषो ददाति।
पूर्वत्रातीत्यनुवृत्तेर्हश्युत्त्वमप्राप्तमेवानेन विधीयते। चकारः `अप्लुतात्? 6|1|109 इत्यस्यानुकर्षणार्थः। तेनेह न भवति--सुरुआओता 3 वेहीति॥
अप्लुतादित्येव--सुस्रोता3 देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोतरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ॥
सिद्धान्तकौमुदी
अप्लुतादतः परस्य रोरुः स्याद्धशि । शिवो वन्द्यः । रोरित्युकारानुबन्धग्रहणान्नेह । प्रातरत्र । भ्रातर्गच्छ । देवास् इह इति स्थिते । रुत्वम् ॥
हशि च - हशि च ।अतो रोरप्लुता॑दिति पदत्रयमनुवर्तते ।ऋत उ॑दित्यतउ॑दिति च । तदाह-अप्लुतादिति । शिवो वन्द्य इति । शिवस् वन्द्य इति स्थिते सस्य रुः । तस्याऽत्परकत्वाभावात्पूर्वसूत्रेण उत्वं न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छत्यत्र रेफस्य अतो रोरिति हशि चेति च उत्वं कुतो न स्यादित्यत आह — रोरित्यनुकारेति । उकारोऽनुबन्ध इद्यस्य स उकारानुबन्धः, तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र उत्वं न भवति । प्रातरिति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धिः सुः,ऋतो ङि सर्वनामस्थानयोः॑ इति ऋकारस्य गुणोऽकारो रपरः, हल्ङ्यादिना सुलोपः । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वं न भवतीत्यर्थः । अथ देवा इहेति रूपं दर्शयितुमाह — देवास् इह इति स्थिते रुत्वमिति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
तथा। शिवो वन्द्यः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.