Page loading... Please wait.
6|1|112 - ख्यत्यात्‌ परस्य
॥ तस्मै पाणिनये नमः ॥
6|1|112
SK 255
ख्यत्यात्‌ परस्य   🔊
सूत्रच्छेदः
ख्य-त्यात् (पञ्चम्येकवचनम्) , परस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
ङसि-ङसोः  6|1|110 (सप्तमीद्विवचनम्) , उत्  6|1|111 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72
सम्पूर्णसूत्रम्
ख्य-त्यात् परस्य ङसि-ङसोः अतः उत् |
सूत्रार्थः
"ख्य" / "त्य" इत्यस्मात् परस्य ङसिँ/ङस् प्रत्ययस्य अकारस्य उकारादेशः भवति ।
अस्मिन् सूत्रे निर्दिष्टः "ख्य" शब्दः "खि" / "खी" इत्यस्मात् यणादेशं कृत्वा निर्मितः अस्ति । तथैव, अत्र निर्दिष्टः "त्य" शब्दः "ति" / "ती" इत्यस्मात् यणादेशं कृत्वा निर्मितः अस्ति । अत्र अस्य सूत्रस्य प्रयोगे यणादेशेन निर्मितस्य एव ख्य / त्य इत्यस्य ग्रहणम् करणीयम् । "मुख्य" / "अपत्य" एतादृशेभ्यः शब्देभ्यः परस्य ङसिँ/ङस्-प्रत्यययोः विषये अस्य सूत्रस्य प्रसक्तिः न भवति ।

इत्युक्ते, यदि प्रातिपदिकम् "खि" / "खी" / "ति" / "ती" शब्दान्तम् अस्ति, तथा च, ङसिँ / ङस्-प्रत्यये परे तस्य यणादेशं कृत्वा ख्य् / त्य् इति भविष्यति , तर्हि एव अस्य सूत्रस्य प्रयोगः करणीयः, नान्यथा ।
यथा -

1. सखि + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ सखि + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [इको यणचि 6|1|77 इति यणादेशः]
→ सख्य् उस् [ख्यत्यात्‌ परस्य 6|1|112 इति अकारस्य उकारः]
→ सख्युः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

2. पति+ ङस् [षष्ठ्येकवचनस्य प्रत्ययः]
→ पति+ अस् [इत्संज्ञालोपः]
→ पत्य् अस् [इको यणचि 6|1|77 इति यणादेशः]
→ पत्य उस् [ख्यत्यात्‌ परस्य 6|1|112 इति अकारस्य उकारः]
→ पत्युः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

3) खी-वर्णान्तः ईकारान्तपुँल्लिङ्गः "सखी" शब्दः अपि अत्र उदाहरणस्वरूपेण दीयते । अस्य शब्दस्य सिद्धिं आदौ पश्यामः -
अ) "ख" इत्युक्ते आकाशः । "खेन सह वर्तति सः" अस्मिन् अर्थे तेन सहेति तुल्ययोगे 2|2|28 इत्यनेन बहुव्रीहिसमासं कृत्वा वोपसर्जनस्य 6|3|82 इत्यनेन सह-इत्यस्य "स" आदेशः भवति, अतः "सख" इति प्रातिपदिकम् सिद्ध्यति ।
आ) अस्मात् प्रातिपदिकात् "सखम् आत्मानम् इच्छति" अस्मिन् अर्थे सुपः आत्मनः क्यच् 3|1|8 इत्यनेन क्यच्-प्रत्ययं कृत्वा "सख + य" इति स्थिते क्यचि च 7|4|33 इत्यनेन अङ्गस्य ईकारादेशं कृत्वा सनाद्यन्ताः धातवः 3|1|32 इत्यनेन "सखीय" इति औपदेशिकः धातुः सिद्ध्यति ।
(इ) अग्रे अस्य क्विप् च 3|2|76 इत्यनेन क्विप्-प्रत्यये कृते "सखीय + क्विप्" इति स्थिते अतो लोपः 6|4|48 इत्यनेन यकारात् परस्य अकारस्य लोपः, तथा लुप्त-अकारस्य न पदान्तद्विर्वचनवरेयलोप... 1|1|58 इत्यनेन स्थानिवद्भावस्य अभावे लोपो व्योर्वलि 6|1|66 इत्यनेन प्रत्ययस्य वकारे परे यकारस्य लोपः जायते । क्विप्-प्रत्ययस्य तु पूर्णरूपेण लोपः भवति, अतः केवलम् "सखी" इति प्रातिपदिकम् सिद्ध्यति । "यः सखम् आत्मानम् इच्छति सः" इत्यर्थः ।
अग्रे सखीशब्दस्य षष्ठ्येकवचनस्य रूपस्य प्रक्रिया इयम् वर्तते -
सखी + ङस् [षष्ठ्येकवचनस्य प्रत्ययः]
→ सखी + अस् [इत्संज्ञालोपः]
→ सख्य् अस् [इको यणचि 6|1|77 इति यणादेशः]
→ सख्य् उस् [ख्यत्यात्‌ परस्य 6|1|112 इति अकारस्य उकारः]
→ सख्युः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

4) ती-वर्णान्तशब्दस्य उदाहरणम् एतादृशम् - "लू" धातोः क्त-प्रत्यये परे ल्वादिभ्यः 8|2|34 इत्यनेन तकारस्य नकारे कृते "लून" इति रूपं सिद्ध्यति । अस्मात् अपि सख-शब्दवदेव उपरिनिर्दिष्टां प्रक्रियां कृत्वा "लूनी" इति शब्दः सिद्ध्यति । यद्यपि अस्मिन् शब्दे "नी" इति अस्ति, तथापि अत्र तकारात् निर्मितः नकारः त्रिपाद्या निर्मितः अस्तीति कारणात् सपादसप्ताध्याय्या न दृश्यते । अतः वर्तमानसूत्रस्य दृष्ट्या अत्र "लूती" इत्येव प्रातिपदिकम् अस्ति । अयं ईकारान्तपुँल्लिङ्गशब्दः । अस्य पञ्चम्येकवचनस्य प्रक्रिया इयम् -
लूती + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]
→ लूती + अस् [इत्संज्ञालोपः]
→ लूत्य् अस् [इको यणचि 6|1|77 इति यणादेशः]
→ लूत्य् उस् [ख्यत्यात्‌ परस्य 6|1|112 इति अकारस्य उकारः]
→ लून्य् उस् [ ल्वादिभ्यः 8|2|34 इति निष्ठातकारस्य नकारः]
→ लूत्युः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् -

1. यदि पति-शब्दः समासे अस्ति (यथा भूपति, गजपति आदयः) तर्हि पतिः समास एव 1|4|8 इत्यनेन तस्य घि-संज्ञा भवति । अस्याम् अवस्थायाम् वार्णादङ्गम् बलीयः इत्यया परिभाषया परत्वात् च घेर्ङिति 7|3|111 इत्यनेन ङसिँ/ङस् प्रत्यये परे अङ्गस्य गुणः भवति । अत्र यणादेशः नैव विधीयते, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

2. शेषो घ्यसखि 1|4|7 इत्यनेन केवल-सखि-शब्दस्यैव घिसंज्ञा निषिध्यते, सुसखि / राजसखि - एतादृशानाम् शब्दानाम् न । अतः समासस्य अन्ते विद्यमानस्य सखि-शब्दस्य घिसंज्ञा भवत्येव । अतः तत्रापि वार्णादङ्गम् बलीयः इत्यया परिभाषया परत्वात् च घेर्ङिति 7|3|111 इत्यनेन ङसिँ/ङस् प्रत्यये परे यणादेशं बाधित्वा अङ्गस्य गुणः भवति, अतः वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।

3. यद्यपि अस्मिन् सूत्रे द्वौ स्थानिनौ द्वौ निमित्तौ स्तः, तथापि अत्र यथासङ्ख्यमनुदेशः समानाम् 1|3|10 इत्यस्य प्रयोगः न करणीयः, यतः अत्र अनुदेशः (=आदेशविधिः) एकः एव अस्ति, द्वौ न ।

4. अस्मिन् सूत्रे षष्ठ्यन्तं पदम् नास्ति । अतः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् अनया परिभाषया अत्र सप्तमीनिर्दिष्टम् पदम् स्थानिनम् दर्शयति ।

5. यदि ङसिँ / ङस्-प्रत्यययोः परयोः यणादेशः न भवति, नो चेत् यणादेशस्य निमित्तम् ङसिँ / ङस् प्रत्ययः नास्ति अपितु अन्यत् किमपि विद्यते, तत्र वर्तमानसूत्रस्य प्रसक्तिः अपि न विद्यते । यथा, ईकारान्तस्त्रीलिङ्गवाचिनः "सखी" शब्दस्य पञ्चमी-षष्ठी-एकवचनस्य रूपयोः आण्नद्याः 7|3|112 इत्यनेन आडागमं कृत्वा "सखी + आट् + ङसिँ/ङस्" इति स्थिते "खी" इत्यस्य यणादेशः "आट्" इत्यनेन भवति, न हि "ङसिँ/ ङस्" इत्यनेन । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः अन्ते "सख्याः" इत्येव रूपं सिद्ध्यति । एवमेव "मति" शब्दस्य पञ्चम्येकवचनस्य प्रक्रियायाम् घेर्ङिति 7|3|111 इत्यनेन ङसिँ/ङस् प्रत्यये परे अङ्गस्य गुणः भवति, यणादेशः तु नैव विधीयते । अतः तत्रापि वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
One-line meaning in English
The अकार of the ङसिँ/ङस् प्रत्यय following a "ख्य" / "त्य" is converted to उकार.
काशिकावृत्तिः
ङसिङसोः इति वर्तते, उतिति च। ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्य उदाहरणम् सह खेन वर्तते इति सखः, तम् इच्छति इति क्यच् सखीयति। सख यतेः क्विप् सखीः, तस्य ङसिङसोः सख्युः इति। तीशब्दस्य अपि लूनम् इच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति। लून्युः स्वम्। निष्ठानत्वं पूर्वत्रासिद्धम् 8|2|1 इत्यसिद्धम्। विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छति इति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते, न तदन्तस्य।
`ख्यत्यादिति खिशब्दखीशब्दयोस्तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणम्` इति। यमादेशे कृते तुल्यं रूपमिति विशेषाभावात्। अथ कस्मादत्राकारान्तयोरेव ख्यशब्दत्यशब्दयोरिदं ग्रहणं न भवति? केवलस्य ख्यशब्दस्य त्यशब्दस्यासम्भवादिति चेत्? न; यदि केवलौ न स्तः, तदन्तानां तर्हि मुख्यगोसंख्यादीनामपत्य गार्हपत्यादीनाञ्च ग्रहणमस्तु? नैतदस्ति; एवं हि--`सख्युरसम्बुद्धौ` 7|1|92 , `पत्युर्नो यज्ञसंयोगे` 4|1|33 इति निर्देशौ नोपपद्येयाताम्। `सह खेन वत्र्तत इति सखः` इति। `तेन सहेति तुल्ययोगे` 2|2|28 इति बहुव्रीहिः, `वोपसर्जनस्य` 6|3|81 इति सहस्य सभावः। `सखीयति` इति। `क्यचि च` 7|4|33 इतीत्त्वम्। `सखीः` इति। क्विप्? `अतो लोपः` 6|4|48 इत्यकारलोपः `लोपो व्योरवलि` 6|1|64 इति यकारस्य च। `लुनम्` इति। `ल्वादिभ्य` 8|2|44 इति निष्ठानत्वम्। ननु च नायं तीशब्दः, तत्कथं तस्योदमुदाहरणमित्यत आह--`निष्ठानत्वम्` इत्यादि। अथेह कस्मान्न भवति--अतसखेरागच्छति, सेनापतेरागच्छतीति, असति ह्रत्रापि खिशब्दः तिशब्दश्च? इत्यत आह--`विकृतनिर्देशात्` इत्यादि। योऽयं ख्यत्यादित्यागन्तुकेनाकारेम यणादेशं कृत्वा विकृतनिर्देशः कृतस्तस्यैतदेव प्रयोजनम्--यत्र यणादेशः, तत्रैव यथा स्यात्। न चात्र यणादेशोऽस्ति, अतो न भवति, अन्यथा हि विकृतनिर्देशोऽनर्थकः स्यात्। ननु च लध्वर्थः स्यात्, अन्यथा हि `खितिखीतीभ्यः` इत्युच्यमाने गौरवं स्यात्? एवं मन्यते--यदि यतर यण्? न भवति, तत्रापि भवितव्यम्, तदा खीतीभ्यामित्येवं ब्राऊयात्। न चैवमुच्यमाने ह्यस्वन्ताभ्यान्न प्राप्नोति; खिशब्दात्? `सख्युर्यः`, 5|1|126 तिशब्दात्? `पत्युर्नो यज्ञसंयोगे` 4|1|33 इति निर्देशाभ्यामेव सिद्धेः अत्र हि सखिपतिशब्दयोग्र्रहणम्, न सखीपतीशब्दयोः। न हीह पतीशब्दस्य यज्ञेन संयोगोऽस्ति, नापि `सह खेन वत्र्तते` इत्यादिना प्रकारेम व्युत्पादितो यः सखीशब्दस्तत उत्पन्नो यः प्रत्ययः स प्रकृत्यर्थाभिधाने समर्थो भवति; यतोऽभिधानलक्षणा हि कृत्तद्धितसमासा भवन्ति। तस्माद्विकृतनिर्देशस्य पूर्वोक्तमेव प्रयोजनमिति। अथ स यणादेशोऽतर कस्मान्न भवति यस्मिन्? सत्युत्त्वेन भवितव्यम्? `घेङिति` 7|3|111 इति गुणेन बाधितत्वादिति चेत्? न; `शेषो ध्यसखिः 1|4|7 इति धिसंज्ञाप्रतिषेधादिति चेत्यत आह--`सखीशब्दस्य` इत्यादि। अत्र च `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति` (व्या।प।89) इति प्रतिषेधो हेतुः।परस्येति किमर्थम्? पूर्वपरयोर्मा भूत्। इतश्चारभ्य पूर्वपरयोरित्येतन्नानुवत्र्तते॥
खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्तिनोर्ग्रहणं न भवति, ठ्सख्युर्यःऽ ठ्पत्युर्नोऽ ठापत्यस्य चऽ इत्यादिर्निर्द्देशात्। सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्वाभावात् ठ्लोपो व्योर्वलिऽ इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति; ठ्क्वौ लुप्तं न स्यानिवत्ऽ इति स्थानिवत्वनिषेधात्। विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह--विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा--शोभनः सखा अतिसखा, ठ्न पूजनात्ऽ इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति, ठ्घेङितिऽ इति गुणेन बाधितत्वादिति चेत्? न; ठ्शेषो घ्यसखिऽ इति घिसंज्ञाप्रतिषेधादित्यत आह--सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ॥
सिद्धान्तकौमुदी
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात् । सख्युः ॥
ख्यत्यात् परस्य - ख्यत्यात्परस्य ।खिखी॑-त्यनयोः, ति-ती॑त्यनयोश्च कृतयणादेशयोः "ख्य" "त्य" इति निर्देशः । यकारादकार उच्चारणार्थः ।एङः पदान्ता॑दित्यतोऽतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात्षष्ठन्ततया विपरिणम्यते ।ङसिङसोश्चे॑त्योङसिङसो॑रित्यनुवर्तते । अवयवषष्ठएषा । ततश्च "ङसिङसोरवयवस्य अत" इति लभ्यते ।ऋत् उ॑दित्यत, उदित्यनुवर्तते । "एकः पूर्वपरयोः" इति तु निवृत्तम्,पर॑ग्रहणसामथ्र्यात् । अन्यथाख्यत्या॑दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन । तदाह — खितिशब्दाभ्यामित्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ ।
ख्यत्यात् परस्य - ख्यत्यात् । पञ्चमीनिर्देशादेव॒परस्ये॑ति लब्धे॒परस्ये॑ति ग्रहणमेकः पूर्वपरयोरिति नवृत्तमिह तु नाधिक्रियते इहि ध्वननार्थम् । ख्यश्च त्यश्चेति समाहारद्वन्द्वे ख्यत्यं, तत्र खिखीशब्दयोः कृतयणादेशयोरनुकरणंख्य॑इति । एवं तितीशब्दयोस्त्येति । उभयत्राप्यकार उच्चाणार्थौ न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदं,सख्युर्यः॒॑पत्युर्नः,॒॑सङ्ख्यायाः संवत्सरसङ्ख्यस्य च॑,आपत्यस्य चे॑ त्यादिनिर्देशादित्यभिप्रेत्याहखितिशब्दाभ्यामित्यादि । एवं च यत्र यण्प्रवृत्तिः तत्रैवोत्त्वं न त्वतिसखेरित्यादौ । न चैवं यणा निर्देशस्योक्तप्रयोजनत्वाद्भस्वान्तयोरेव ग्रहणं स्यान्न तु दीर्घन्तयोरिति शङ्क्यम् । निर्देशस्य ह्यस्वदीर्घसाधारणत्वाच्छास्त्रस्य बहुविषयत्वसंभवे तत्सङ्कोचस्याऽन्याय्यत्वाच्चेति भावः ।
लघुसिद्धान्तकौमुदी
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥
महाभाष्यम्
ख्यत्यात्परस्य (2549) (ख्यत्यात्पदार्थबोधकभाष्यम्) किमिदं ख्यत्यादिति ? सखिपत्योर्विकृतग्रहणम् । किं पुनः कारणं विकृतयोः सखिपत्योर्ग्रहणं क्रियते, न सखिपतिभ्यामित्येवोच्येत ? (विकृतनिर्देशप्रयोजनभाष्यम्) नैवं शक्यम् । गरीयांश्चैव निर्देशः स्यात् । इह च प्रसज्येत ‐ - अतिसखेरागच्छति, अतिसखेः स्वम् । इह च न स्यात् ‐ - सखीयतेरप्रत्ययः ‐ - सख्युः, पत्युः । लूनीयतेरप्रत्ययः ‐ - लून्युः, पून्युः ।।