Page loading... Please wait.
6|1|109 - एङः पदान्तादति
॥ तस्मै पाणिनये नमः ॥
6|1|109
SK 86
एङः पदान्तादति   🔊
सूत्रच्छेदः
एङः (पञ्चम्येकवचनम्) , पदान्तात् (पञ्चम्येकवचनम्) , अति (सप्तम्येकवचनम्)
अनुवृत्तिः
पूर्वः  6|1|107 (प्रथमैकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
पदान्तात् एङः अति पूर्वः
सूत्रार्थः
पदान्त-एङ्-वर्णात् ह्रस्व-अकारे परे पूर्वपरयोः एकः पूर्व-एकादेशः भवति ।
पदान्ते विद्यमानात् एकारात् / ओकारात् परः यदि ह्रस्वः अकारः आगच्छति, तर्हि पूर्वपरयोः उभयोः एकः पूर्वरूपः एकादेशः भवति । अयमेव पूर्वरूपसन्धिः ।

यथा - वने + अस्मिन् = वनेऽस्मिन् । विष्णो अव = विष्णोऽव ।

इदम् सूत्रम् एचोऽयवायावः 6|1|78 अस्य अपवादरूपेण आगच्छति ।

ज्ञातव्यम् -
1. यदि एकारः ओकारः वा पदान्ते न विद्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, "चि" धातोः ल्युट्-प्रत्यये कृते "चि + अन" इति स्थिते, सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन गुणे कृते "चे + अन" अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः "चे" इति पदम् नास्ति । अतः अत्र एचोऽयवायावः 6|1|78 इत्यनेन अयादेशे कृते "चयन" इत्येव रूपं सिद्ध्यति ।

2. अत्र लेखनसमये पूर्वरूपं दर्शयितुम् अवग्रहचिह्नस्य (ऽ) यः प्रयोगः भवति सः केवलं स्पष्टतायै अस्ति । अनेन चिह्नेन अत्र उच्चारणस्य कोऽपि भेदः न जायते । वस्तुतः तु, व्याकरणशास्त्रे अष्टाध्याय्यां वा अवग्रहचिह्नस्य विषये कोऽपि नियमः सूत्राणि वा न सन्ति । व्याकरणशास्त्रम् केवलम् उच्चारणस्य तथा शब्दनिर्माणस्य विषये एव नियमान् पाठयति, लेखनविषये न । अतः अत्र अवग्रहचिह्नम् विना "वने + अस्मिन् = वनेस्मिन्" एतादृशम् अपि लेखितुं शक्यते ।
One-line meaning in English
If a पदान्त ए / ओ letter is followed by a ह्रस्व अकार, then the पूर्व and पर letter are combined to form a पूर्वरूप एकादेश.
काशिकावृत्तिः
एङ् यः पदान्तः तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकाद्शो भवति। अग्ने ऽत्र। वायो ऽत्र। अयवादेशयोरयम् अपवादः। एङः इति किम्। दध्यत्र। मध्वत्र। पदान्तातिति किम्? चयनम्। लवनम्। अति इति इम्। वायो इति। भानो इति। वायविति। भानविति। तपरकरणम् इति किम्? वायवायाहि।
`अग्नेऽत्र` इति। `सम्बुद्धौ च` 7|3|106 इति गुणः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥
एङः पदान्तादति - एङः पदान्तादति । "अमि पूर्व" इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतं । तदाह — पदान्तादित्यादिना । हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः । विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः ।
एङः पदान्तादति - एङः पदान्तादति । अयवोरपवादः ।ङसिङसोश्चे॑त्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टप्रतिपत्तये इहैव कृतमिति मनोरमायां स्थितम् । केचित्तुपदान्ता॑दित्येतदिहाप्यावश्यकमेव, अन्यथाऽपदान्तादपि स्यात् ।ङसिङसोश्चे॑ति सूत्रं तुसुप्सम्बन्धिन्यति परतः पूर्वरूपं चेन्ङसिङसोरेवाऽति परे॑ इति नियमार्तं स्यात् । तत्फलं तु हरयः, गुरवः, इः स्मृतो यैस्ते स्मृतय इत्यादौ पूर्वरूपाऽप्रवृत्तिरित्याहुः । एङः किम् । दध्यत्र । पदान्तात्किम् , चयनम् । लवणम् । अचिनवम् । अति किम् , हरयिह । विष्णविह । तपरः किम् , वायवायाहि ।
लघुसिद्धान्तकौमुदी
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.