Page loading... Please wait.
6|1|102 - प्रथमयोः पूर्वसवर्णः
॥ तस्मै पाणिनये नमः ॥
6|1|102
SK 164
प्रथमयोः पूर्वसवर्णः   🔊
सूत्रच्छेदः
प्रथमयोः (सप्तमीद्विवचनम्) , पूर्वसवर्णः (प्रथमैकवचनम्)
अनुवृत्तिः
अचि  6|1|77 (सप्तम्येकवचनम्) , दीर्घः  6|1|101 (प्रथमैकवचनम्) , अकः  6|1|101 (पञ्चम्येकवचनम्)
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
अकः प्रथमयोः अचि पूर्वपरयोः एकः पूर्वसवर्णः दीर्घः
सूत्रार्थः
अक्-वर्णात् प्रथमा-द्वितीयायाः अजादि प्रत्ययः अस्ति चेत् पूर्वपरयोः एकः पूर्वसवर्णदीर्घः भवति ।
स्वौजस्... 4|1|2 अनेन सूत्रेण विहिताः प्रथमाद्वितीयाविभक्तेः प्रत्ययाः एते - सुँ, औ, जस्, अम्, औट्, शस् । एतेषु जस् / शस् इत्येतयोः जकारशकारयोः इत्संज्ञा लोपश्च जायते , अतः सुँ-प्रत्ययं विहाय अन्ये सर्वे अजादयः सन्ति । एतेषु कश्चन प्रत्ययः यदि अक्-वर्णान्तशब्दात् आगच्छति, तर्हि पूर्वपरयोः एकः पूर्वसवर्णदीर्घादेशः भवति । यथा -

1) मुनि + औ / औट् [प्रथमाद्विवचनम्]
→ मुनी [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घः ईकारः]

2) बाल + जस् [प्रथमाबहुवचनस्य प्रत्ययः]
→ बाल + अस् [चुटू 1|3|7 इति जकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ बालास् [अकः सवर्णे दीर्घः 6|1|101 इत्यनेन सवर्णदीर्घे प्राप्ते अपवादत्वेन अतो गुणे 6|1|97 इत्यनेन पररूप-एकादेशे प्राप्ते विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घः आकारः]
→ बालारुँ [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ बालाः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

3) साधू + औट् [द्वितीयाद्विवचनम्]
→ साधू [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घः ईकारः]

4) "अम्" प्रत्यये परे अमि पूर्वः 6|1|107 इत्यनेन अपवादत्वेन पूर्वरूपं भवति, अतः अस्य सूत्रस्य प्रसक्तिः अम्-प्रत्यये परे न वर्तते ।

5) मति + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ मति + अस् [लशक्वतद्धिते 1|3|7 इति शकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ मतीस् [इको यणचि 6|1|77 इत्यनेन यणादेशे प्राप्ते विप्रतिषेधेन प्रथमयोः पूर्वसवर्णः 6|1|102 इति पूर्वसवर्णदीर्घः ईकारः]
→ मतीरुँ [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ मतीः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् -
1. अतो गुणे 6|1|97 इति सूत्रम् अकः सवर्णे दीर्घः 6|1|101 इत्यस्यैव बाधकः अस्ति, प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यस्य न । अस्य स्पष्टीकरणम् पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् अनया परिभाषया लभ्यते । "पुरस्तात्" इत्युक्ते "उत्सर्गसूत्रात् प्राक्" । अतः अस्याः परिभाषायाः अर्थः अयम् - अपवादसूत्रम् तस्मात् अनन्तरस्य केवलं एकस्य सूत्रस्य एव अपवादरूपेण कार्यं करोति, तदनन्तरं विद्यमानानाम् सूत्राणाम् अपवादरूपेण कार्यं न करोति । (अपवादसूत्रात् पूर्वं विद्यमानानाम् तु अनेकानाम् सूत्राणाम् अपवादरूपेण कार्यं कर्तुं शक्नोति) ।
अतः अत्र अतो गुणे 6|1|97 एतत् सूत्रम् केवलं अकः सवर्णे दीर्घः 6|1|101 इत्यस्यैव अपवादरूपेण कार्यं करोति, प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यस्य न । अतः "शिव + एहि" इत्यत्र परत्वात् ओमाङोश्च 6|1|95 इत्यस्यैव प्रयोगः भवति ।
2. अस्मिन् सूत्रे "प्रथमा" शब्दस्य सप्तमी-द्विवचनम् प्रयुक्तम् अस्ति । अतः अत्र प्रथमा-द्वितीयाविभक्त्योः ग्रहणम् भवति ।
3. वर्तमानसूत्रस्य प्रसक्तिः अक्-वर्णस्य विषये - इत्युक्ते - अ, इ, उ, ऋ, ऌ वर्णानां विषये एव भवति । अन्येषाम् स्वराणाम् विषये न । यथा - गो-शब्दस्य रूपेषु अस्य सूत्रस्य प्रयोगः न भवति ।
One-line meaning in English
When a letter from the अक् प्रत्याहार is followed by an अजादि प्रत्यय of प्रथमा or द्वितीया विभक्ति, then पूर्व and the पर letters are replaced by a single पूर्वसवर्णदीर्घ.
काशिकावृत्तिः
अकः इति दीर्घः इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद् द्वितीया ऽपि प्रथमा इति उक्ता। तस्यां प्रथमायां द्वितीयायां च विभक्तौ अचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घः एकादेशो भवति। अग्नी। वायू। वृक्षाः। प्लक्षाः। वृक्षान्। प्लक्षान्। अतो गुणे 6|1|97 इति यदकारे पररूपं ततकः सवर्णे दीर्घत्वम् एव बाधते, न तु पूर्वसवर्नदीर्घत्वम्, पुरस्तादपवाद अनन्तरान् विधीन् बाधन्ते न उत्तरातिति। अचि इत्येव, वृक्षः। प्लक्षः। अकः इत्येव, नावौ। पूर्वसवर्नग्रहणं किम्? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत्। दीर्घग्रहणं किम्? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम्।
प्रथमशब्दोऽयं सन्निवेशविशेषापेक्षेऽभिधेये वत्र्तते। परेष्वभिसमीक्षितेषु यस्मात्पूर्वो नास्ति स प्रथमशब्दाभिधेयः। इह च `प्रथमयोः` इति सामान्येन निर्देशान्न ज्ञायते--कयोः प्रथमयोरिवं ग्रहणमित्यतस्तत्परिज्ञानायाह--`प्रथमाशब्दः` इत्यादि। प्रथमशब्दोऽयमिह शास्त्रे विभक्तिविशेष रूढः, सुपां यदाद्यं त्रिकं तत्र प्रसिद्धः। तथा हि--`सपूर्वयोः प्रथमयोर्विभाषा` 8|1|26 , `सप्तमीपञ्चमीप्रथमाभ्यः` 5|3|27 इत्येवमादिषु निर्देशेषु प्रथमाशब्देन स एव विभक्तिविशेषो निर्दिष्टः। तस्माद्रूढिशब्दत्वादिह प्रथमाशब्दो विभक्तिविशेषे वत्र्तत इति विज्ञायते। ननु च स्त्रीलिङ्गो यः प्रथमाशब्दः स इह शास्त्रे विभक्तिविशेषे रूढः, अस्य च स्त्रीलिङ्गतैव सन्दिग्धा? नैतदस्ति; प्रथमशब्दोपादानादेव स्त्रीलिङ्गोऽयमुपात्त इत्यवसीयते। यदि हि पुंल्लिङ्गस्येदमुपादानं स्यादेयं सति प्रत्ययग्रहणेव स्यात्। यदि च प्रत्ययग्रहणमभीष्टं स्यात्? तदौजसोरित्येवं ब्राऊयात्। न चैवमुच्यमाने द्वितीयासम्बन्धिनोऽप्यौकारस्य ग्रहणप्रसङ्गः; इह जसा साहचर्यात्? प्रथमासम्बन्धिन एवौकारस्य ग्रहणं विज्ञास्यते। तस्मात्? स्त्रीलिङ्गस्येदं ग्रहममित्यसन्दिग्धमेतत्। ननु च यदि प्रथमाशब्दोऽयमिह शास्त्रे विभक्तिविशेषे रूढः, एवं सति विभक्तिविशेष एक इत्येकवचनेनैव भवितव्यम्, तत्? कथं प्रथमयोरिति द्विवचनम्? इत्यत आह--`तत्साहचर्यात्` इत्यादि। तेन प्रथमाख्येन विभक्तिविशेषेण साहचर्याद्द्वितीयापि विभक्तिः प्रथमेत्युक्ता, ततश्च द्वित्वाद्द्विवचनमेव न्याय्यम्। तदेतेन प्रथमयोरिति विभक्त्योरिदं गरहणं न प्रतद्यययोरिति दर्शयति। `वृक्षाः `लक्षाः` इति। कथमिदमुदाह्मतम्? यावता `अतो गुणे` 6|1|97 इत्यनेन पररूपेणात्र भवितव्यम्? तद्धि नाप्रापते वभक्त्यन्तर आरभ्यमाणं यथाऽकः सवर्णे दीर्घत्वं बाधते, तथा `प्रथमयोः पूर्वसवर्णः` इति दीर्घत्वमपि बाधेत? इत्यत आह--`अतो गुणे` इत्यादि। अत्रैवोपपत्तिमाह--`पुरस्तात्` इत्यादि। इतिकरणो हेतौ। यस्मात्? `पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।प।9) इति तस्मात्? `अतो गुणे` 6|1|97 पररूपम्? `अकः सवर्णे दीरघः` 6|1|97 दीर्घत्वं बाधते; तस्यैव तदनन्तरत्वात्। `प्रथमयोः पूर्वसवर्मः` इति दीर्घत्वं तु न बाध्यते; विपर्ययात्। `अग्नी इत्यत्र` इत्यादि। असति पूर्वगरहणे अग्नी इतयत्र पर्वपरसमुदयः स्थानी, तस्य चान्तरतमो दीर्घ आदेशो नास्तीत्यवयवान्तरतमो यस्तेन भवितव्यम्। अवयवौ चात्र द्वौ--पूर्वः, परश्चेति; तत्र च पूर्वस्यैव भवितव्यमिति नियमो न लभ्यते, नियमकरणाभावादिति तयोः पर्यायेण भवन्नादेशः पक्षे परसवर्णो वा स्यात्। अतस्तन्निवृत्यर्थं पूर्वग्रहणम्। सवर्णग्रहणं तु विप्रतिषेधनिरासार्थम्। असति हि तस्मिन्? दीर्घ इत्यनुवत्र्तमानेऽग्नी इत्यत्र विप्रतिषिद्धित्वमापद्येत यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि पूर्वो न दीर्घः; अथ दीर्घो न पूर्वः। यदि च पूर्वशब्देन पूर्वाकृतिरुच्येत्, दीर्घादनुवृत्तेः पूर्वस्येति षष्ठी वा क्रियेत। तथा च सवर्णग्रहणं शक्यमकत्र्तम्। क्रियमाणं वा तत्? सुखप्रतिपत्यर्थ वेदितव्यम्। `दीर्घग्रहणं त्रिमात्रे स्थानिनि` इत्यादि। अग्नि औ+इति स्थिते, असति दीर्घग्रहण एकादेशः क्रियमाणः स्थानिन आन्तरतम्यात्? त्रिमात्रः प्राप्नोति; स्थानिनस्त्रिमात्रकत्वात्। तथा हि--अग्निशब्दस्येकार एकमात्रः औकारो द्विमात्र इत्येतत्समुदायात्मकश्चात्र स्थानी। तस्मात्? त्रिमात्रे स्थानिन्यन्तरतमस्त्रिमात्र आदेशो मा भूदित्येवमर्थं दीर्घग्रहणम्। दीर्घग्रहणे हि सति तेनादेशे विशिष्यमाणे त्रिमात्रस्यादेशप्रसङ्गो न भवति; द्विमात्रस्यैव दीर्घसंज्ञाविधानात्॥
प्रथमाशब्दो विभक्तिविशेषे रूढ इति। सुपामाद्यत्रिके ठ्सपूर्वायाः प्रथमायाःऽ,ठ्सप्तमीपञ्चमीप्रथमाभ्यःऽ इत्यादौ तस्यैव ग्रहणात्। ननु च स्त्रीलिङ्गः प्रथमाशब्दस्तत्र रूढः, न चास्य स्त्रीलिङ्गत्वे प्रमाणमस्ति, प्रत्युत प्रथमशब्दस्तिङं त्रिकद्वयेऽस्मिन्नेव शास्त्रे संज्ञात्वेन विनियुक्तं इति तस्यैव ग्रहणं युक्तम्; ततश्च पचति, पचतः, पचन्ति, पचते, पचेते, पचन्ते, चकार, चक्रतुः, चक्रुः; चक्रे, चक्राते, चक्रिरे--इत्यादौ यथाप्राप्तविध्यन्तरबाधेनायं विधिर्युक्तः। किञ्चैव सति मुख्येऽपि प्रथमशब्दे ठ्प्रथमयोःऽ इति द्विवचनमुपपद्यते, आत्मनेपदपरस्मैपदभेदेन प्रथमस्य भेदात्? उच्यते; एवं सति द्विवचननिर्देशोऽनर्थकः; ठ्लुटः प्रथमस्यऽ इत्यादिवत्सिद्धत्वात्। यद्वा--ठ्वा सुप्यापिशलेःऽ इत्यतः सुपीत्यनुवर्तयिष्यते, तेन सुप एव प्रथमस्य ग्रहणम्, लिङ्गाच्च, किं लिङ्गम्? ठ्दीर्घाज्जसि चऽ ठ्तस्माच्छसो नः पुंसिऽ इति। अत एवल लिङ्गात्सुपामप्यादितः प्रथमयोर्द्वयोर्ग्रहणं भवति, अचीत्यधिकाराच्च, न हि सुरजादिः। सुरपि कुण्डं तिष्ठतीत्यदावजादिः ? नात्रायं विधिः प्राप्नोति, कारणम् ? अमि पूर्वत्वेन बाध्यते। तस्मात् स्त्रीलिङ्गस्य ग्रहणमिति स्थितम्। तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्तेति। द्विवचनं चात्र प्रमाणम्। ननु सकृच्छ्4%अतः शब्दो मुख्यवृत्तिरेव वा भवति, जघन्यवृत्तिरेव वा, न पुनरुभयवृत्ति ? प्रथणाद्वितीयासमुदाये जघन्यवृत्तिरेवायम्, स च समुदाय उद्भूतावयवभेद इति द्विवचनोपपतिः, यथा--च्छत्रिणो गच्छन्तीति। वृक्षाः, प्लक्षा इति। नन्वत्रापि ठतो गुणेऽ इति पररूपेण भवितव्यम्, नाप्राप्ते विध्यन्तरे तस्यारम्भात्। स्यादेतत्--प्रथमयोरित्येतदपि दीर्घत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणम् अग्नी इत्यादौ यथा बाधते, तथा पररूपमपि बाधिष्यते इति? तत्र, स्वरसन्धिषु गुणयावुत्सर्गौ, वृद्धिः सवर्णदीर्घत्वं पूर्वसवर्णादेशश्च तयोरपवादा इति द्वितीयकक्षाप्राप्ताः, पररूपं तु तृतीयकक्षाप्राप्तमिति तदेव प्राप्नोति। एवं तर्हि योगविभागः करिष्यते--प्रथमयोरिति, अकः सवर्ण इत्येव, तेन वृक्षा इत्यादौ पररूपं बाधित्वा प्रथमयोरकः सवर्णो दीर्घत्वं भविष्यति; यथैव तर्हि योगविभागः पररूपं बाधते, तथा वृक्षमित्यादावमि पूर्वमपि बाधेत, तस्य त्वग्निमित्यादिरवकाशः? नैष दोषःः; ठमि पूर्वःऽ इत्यत्रामीति योगविभागेन प्राप्तं दीर्घत्वमपि न भवतीत्यर्थः। एवमपि ठ्तस्माच्छसो नः पुंसिऽ इत्यत्र तच्छब्देनानन्तरो दीर्घः परमृश्यते, एतान् गाश्चरतो बलीवर्द्दान्पस्य इत्यत्र ठौतोम्शसोःऽ इत्येकादेशान्मा भूदिति, ततः किम् ? योगविबागे क्रियमाणे अग्नीन्, वायुनित्यादावेव नत्वं स्यात्, न तु वृक्षानित्यादौ यत्र प्रथमयोरिति योगविभागाद् दीर्घो विधीयते ? अयमप्यदोषः; तस्मादित्यनेनाक्स्थानिको दीर्घः परामृश्यते, नानन्तरः, नापि दीर्घमात्रम्, एतच्चाक इत्यनुवृतेर्लभ्यते। मा भूद्वा योगविभागः---प्रथमयोरिति। ननु चोक्तम्--वृक्षा इत्यादौ पररूपप्रसङ्ग इति? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति--न जस्सासोः पररूपं भवतीति, यदयं ठ्नादिचिऽ इतीज्ग्रहणं करोति; अन्यथा अवर्णान्तस्य नास्त्येव दीर्घप्रसङ्ग इतिक किमिज्ग्रहणेन? केवलोतरार्थे हि तस्मिंस्तत्रैव कर्तव्यं स्यात्। यद्वा--ठ्दीर्घाच्छसिऽ इत्येव ब्रूयात्, किमर्थमिदम्? नीयमार्थम्---दीर्घाच्छस्येवेति। तेन जस्शसोर्न भविष्यति। वृत्तिकारस्तु यथोक्ते परिहारे प्रतिपतिगौरवप्रसङगन्यायतः परिहारमाहातो गुण इति यदकारे पररूपमित्यादि। न्यायं दर्शति--पुरस्तुदिति। इतिकरणो हेतौ ॥ अग्नी इत्यत्रेति। असति हि पूर्वग्रहणे पूर्वसमुदायस्य स्थानिनोऽन्तरतमस्य दीर्घस्याभावादवयवान्तरतमो भवन् पूर्वस्यैवेति नियमकारणाभावात्परसवर्णोऽपि स्यात्, ततस्तन्निवृत्यर्थम्। पूर्वग्रहणं तु विप्रतिषेधनिराकरणार्थम्; अन्यथा अग्नी इत्यत्र विप्रतिषिद्धमापद्यते। कथम्? ठ्दीर्घःऽ इति वर्तते, यदि पूर्वो न दीर्घः, यदि दीर्घो न पूर्वः। ननु दीर्घग्रहणानुवृत्तिसामर्थ्यात् पूर्वशब्देन पूर्वाकृतिर्ग्रहीप्यते ? कथं पुनः सामर्थ्यम्, यावता यत्र पूर्वव्यक्तिर्दीर्घभूता--कुमारीः पश्य, भस्त्राः पश्येत्यादौ तत्रैव यथा स्यात्, अग्नी इत्यादौ मा भूदित्येवमर्था दीर्घानुवृत्तिः स्यात्? यद्येतावत्प्रयोजनं स्याद्-ठ्दीर्घाच्छसि पूर्वोऽमि चऽ इति ब्रूयात्; यतस्तु वलु प्रथमयोरित्यारभ्यते ततो ज्ञायते--न केवलं कुमारीः पश्येत्यादौ दीर्घस्यैव प्रथमयोरित्यनेन दीर्घो विधित्सितः, किं तर्हि? अग्नी इत्यादावपीति, तच्चाकृतिविवक्षायामुपपद्यते ? सत्यम्; तदेव सवर्णग्रहणेनापि विस्पष्टीक्रियते--त्रिमात्रे स्तानिनि त्रिमात्रादेशनिवृत्यर्थमिति। आन्तरतस्यात् त्रिमात्र एव प्राप्नोति। यत्र प्लुताप्लुतप्रसङ्गः स एव ठ्प्लुतश्च विषये स्मृतःऽ इत्यस्य विषयः, इह तु प्लुतस्यैव प्रसङ्ग इति नायमस्य विषयः ॥
सिद्धान्तकौमुदी
अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते ॥
प्रथमयोः पूर्वसवर्णः - शिव उ अच्र्य इति स्थिते-प्रथमयोः । "अकः सवर्णे" इत्यतोऽक इति, इको यणचीत्यतोऽचीति चानुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । प्रथमयोरित्यवयवषष्ठी । प्रथमाद्वितीये सुब्विभक्ती विवक्षिते । तदाह — अकः प्रथमेत्यादिना । इति प्राप्त इति । शिव — उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे आकारे प्राप्त इत्यर्थः ।
प्रथमयोः पूर्वसवर्णः - प्रथमयोः । अत्र प्रथमाशब्दः प्रथमाद्वितीययोः समुदाये गौणः, द्विवचनं तु समुदाय्यपेक्षया ।इको यणची॑त्यतोऽचीतिअकः सवर्णे दीर्घः॑ इत्यतो॑ऽको दीर्घ॑इतिएकः पूर्वपरयो॑रिति सूत्रं चानुवर्तते इत्याशयेन व्याचष्टे — अकः प्रथमाद्वितीययोरचीत्यादिना । अचि किम् । रामः । अकः किम् गावौ, नावौ । प्रथमयोः किम् । वृक्षे, प्लक्षे । यद्यपीदंनादिची॑त्यनेनैव सिध्यति, तथापिहरी॑ इत्यत्रेवहर्यो॑रित्यत्रापि पूर्वसवर्णदीर्घः स्यत् । तद्वारणायप्रथमयो॑रित्युक्तमिति दिक् । पूर्वग्र्रहणं किम् ।अग्नी॑इत्यत्र पक्षे परसवर्णो मा भूत् । दीर्घग्रहणं किम् । त्रिमात्रे स्थानिनि त्रिमात्रो मा भूत् ।आद्गुण॑ इति । अपवादे निषिद्धे पुनरुत्सर्गस्य स्थिति॑रिति न्यायादिति भावः । अत्रभिद्योध्द्यौ नदे॑तौ स॑दित्यादि लिङ्गम् ।
लघुसिद्धान्तकौमुदी
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥
महाभाष्यम्
प्रथमयोः पूर्वसवर्णः (2539) (दीर्घाधिकरणम्) (प्रथमपदार्थे पक्षद्वयोपस्थापकम्भाष्यम्) प्रथमयोरित्युच्यते, कयोरिदं प्रथमयोर्ग्रहणम् ? किं विभक्त्योः आहोस्वित् प्रत्ययोः ? (सिद्धान्तदर्शनभाष्यम्) विभक्त्योरित्याह । कथं ज्ञायते ? अचीति वर्तते । न चाजादी प्रथमौ प्रत्ययौ स्तः ।। (आक्षेपभाष्यम्) ननु चैवं विज्ञायते ‐ - अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमौ ‐ - इति ।। (सिद्धान्तभाष्यम्) यत्तर्हि तस्माच्छसो नः पुंसि (103) इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यः विभक्त्योर्ग्रहणमिति ।। अथवा ‐ - सुपीति वर्तते ।। (अमिपूर्वः इति सूत्रप्रयोजनभाष्यम्) अथ किमर्थं पूर्वसवर्णदीर्घः, अमिपूर्वत्वं चोच्यते, न प्रथमयोः पूर्वसवर्णः इत्येव सिद्धम् ? न सिध्यति । प्रथमयोः पूर्वसवर्ण इत्युच्यमानेऽम्यपि दीर्घः प्राप्नोति ‐ - वृक्षम्, प्लक्षम् । नैष दोषः । यत् पूर्वस्मिन् योगे दीर्घग्रहणं तदुत्तरत्र निवृत्तम् । एवमपि इदमपि पूर्वसवर्णग्रहणं क्रियते तेनाम्यपि पूर्वसवर्णः प्रसज्येत ‐ - वृक्षम्, प्लक्षम्, द्विमात्रः प्राप्नोति । नैष दोषः । सवर्णग्रहणं न करिष्यते । यदि सवर्णग्रहणं न क्रियते, कुतो व्यवस्था ? आन्तर्यतः । यद्येवम् ‐ - अग्नी, वायू ‐ - त्रिमात्रः प्राप्नोति । वृक्षम्, प्लक्षम् ‐ - द्विमात्रः । तस्मात्सवर्णग्रहणं कर्तव्यम्, तस्मिंश्च क्रियमाणे दीर्घग्रहणमनुर्वत्यम्, तस्मिन्ननुवर्तमाने अमि पूर्वः इत्यपि वक्तव्यम् ।। (योगविभागप्रयोजनभाष्यम्) अथ किमर्थं पृथगुच्यते, नेहैवोच्येत ‐ - प्रथमयोः पूर्वसवर्णोऽमि च इति ? यदि प्रथमयोः पूर्वसवर्णदीर्घो भवति, अमि चेत्युच्यते, तेनाम्यपि दीर्घः प्रसज्येत ‐ - वृक्षम्, प्लक्षम् । नैष दोषः । दीर्घग्रहणं निवर्तयिष्यते । एवमपि पूर्वसवर्णः प्रसज्येत । सवर्णग्रहणं न करिष्यते । यदि सवर्णग्रहणं न क्रियते, पूर्वस्मिन् योगे विप्रतिषिद्धम् ‐ - यदि पूर्वः, न दीर्घः । अथ दीर्घः, न पूर्वः । पूर्वो दीर्घश्चेति विप्रतिषिद्धम् । तस्मादुभयमारब्धव्यम्, पृथक् च वक्तव्यम् ।। (6200 योगविभागे पूर्वपक्षवार्तिकम् ।। 1 ।।) - प्रथमयोरिति योगविभागः सवर्णदीर्घार्थः - प्रथमयोः इति योगविभागः कर्तव्यः प्रथमयोरकः सवर्णदीर्घो भवति । ततः पूर्वसवर्णः, पूर्वसवर्णदीर्घो भवत्यकः प्रथमयोरिति ।। किमर्थो योगविभागः ? सवर्णदीर्घार्थः । सवर्णदीर्घत्वं यथा स्यात् ‐ - वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् ।। (6201 योगविभागसमर्थकवार्तिकम् ।। 2 ।।) - एकयोगे हि जश्शसोः पररूपप्रसङ्गः - एकयोगे हि सति जश्शसोः पररूप्रसज्येत ‐ - वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् ।। ननु च पूर्वसवर्णदीर्घत्वं पररूपं बाधिष्यते । नोत्सहते बाधितुम् । किं कारणम् ? (6202 योगविभागफलसमर्थकवार्तिकम् ।। 3 ।।) - आद्गुणयणादेशयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशास्तेषां पररूपं स्वरसन्धिषु - आद्गुणयणादेशावुत्सर्गौ । तयोरपवादा वृद्धिसवर्णदीर्घपूर्वसवर्णादेशाः । तेषां सर्वेषां पररूपमपवादः । तत्सर्वबाधकम्, सर्वबाधकत्वात् प्राप्नोति ।। (योगविभागसार्मथ्यबोधकभाष्यम्) अथ क्रियमाणेऽपि योगविभागे यावता पररूपमपवादः कस्मादेव न बाधते ? योगविभागोऽन्यशास्त्रनिवृत्त्यर्थः । योगविभागोऽन्यशास्त्रनिवृत्त्यर्थो विज्ञायते ।। (6203 योगविभागेऽतिप्रसङ्गापादनवार्तिकम् ।। 4 ।।) - योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः - योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गो भवति ‐ - वृक्षम्, प्लक्षम् । यथैव हि योगविभागः पररूपं बाधते, एवममिपूर्वत्मपि बाधेत ।। (6204 योगविभागेऽतिप्रसङ्गापादकवार्तिकम् ।। 5 ।।) - नकाराभावश्च तस्मादित्यनन्तरनिर्देशात् - नत्वस्य चाभावः ‐ - वृक्षान्, प्लक्षान् । किं कारणम् ? तस्मादित्यनन्तरनिर्देशात् । तस्मादित्यनेनानन्तरो योगः प्रतिनिर्दिश्यते ‐ - प्रथमयोः पूर्वसवर्णः तस्माच्छसो नः पुंसि । किं पुनः कारणं तस्मादित्यनन्तरो योगो निर्दिश्यते ? इह मा भूत् ‐ - एतान् गाश्चतुरो बलीवर्दान् पश्य ।। (वार्तिकावतरणभाष्यम्) अस्तु तर्ह्येकयोग एव । ननु चोक्तम् ‐ - एकयोगे हि जश्शसोः पररूपप्रसङ्गः इति । नैष दोषः । (6205 एकयोगत्वसमर्थकवार्तिकम् ।। 6 ।।) - इज्ग्रहणं तु ज्ञापकं पररूपाभावस्य - यदयं नादिचि (104) इतीज्ग्रहणं करोति तज्ज्ञापयत्याचार्यः ‐ - न जश्शसोः पररूपं भवतीति । कथं कृत्वा ज्ञापकम् ? इज्ग्रहणस्यैतत्प्रयोजनम् ‐ - इह मा भूत् ‐ - वृक्षाः, प्लक्षाः, वृक्षान्, प्लक्षान् । यदि च जश्शसोः पररूपं स्यात्, इज्ग्रहणमनर्थकं स्यात् । पश्यति त्वाचार्यः ‐ - न जश्शसोः पररूपं भवति ‐ - इति, तत इज्ग्रहणं करोति ।। नैतदस्ति ज्ञापकम् । उत्तरार्थमेतत्स्यात् ‐ - दीर्घाज्जसि च (105) इति चेति । यद्युत्तरार्थमेतत्स्यात्तत्रैवायमिज्ग्रहणं कुर्वीत । इहापि तर्हि क्रियमाणं यद्युत्तरार्थम्, न ज्ञापकं भवति । एवं तर्हि यद्युत्तरार्थमेतत्स्यान्नैवायमिज्ग्रहणं कुर्वीत, नापि जस्ग्रहणम् । एतावदयं ब्रूयात् ‐ - दीर्घाच्छसि पूर्वसवर्णो भवति ‐ - इति तन्नियमार्थं भविष्यति ‐ - दीर्घाच्छस्येव, नान्यत्रेति । सोऽयमेवं लघीयसा न्यासेन सिद्धे यदिज्ग्रहणं करोति, तज्ज्ञापयत्याचार्यः ‐ - न जश्शसोः पररूपं भवतीति ।। (योगविभागसमर्थकभाष्यम्) अथवा पुनरस्तु योगविभागः । ननु चोक्तम् ‐ - योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः ‐ - इति । नैष दोषः । अम्यपि योगविभागः करिष्यते ‐ - अमि । अमि यदुक्तं तन्न भवतीति । ततः ‐ - पूर्वः । पूर्वश्च भवत्यमिति ।। यदप्युच्यते ‐ - नकाराभावश्च तस्मादित्यनन्तरनिर्देशात् ‐ - इति । कः पुनरर्हति तस्मादित्यनेनानन्तरं योगं निर्देष्टुम् ? एवं किल प्रतिनिर्दिश्यते ‐ - तस्मात्उपूर्वसवर्णदीर्घादिति । तच्च न । एवं प्रतिनिर्दिश्यते ‐ - तस्मात्उअको दीर्घादिति । अथवा ‐ - तस्मात्उप्रथमयोर्दीर्घादिति ।। (एकयोगत्वे सिद्धान्तभाष्यम्) अथवा ‐ - पुनरस्तु अम्येकयोगः । ननु चोक्तम् ‐ - योगविभागोऽन्यशास्त्रनिवृत्त्यर्थश्चेदम्यतिप्रसङ्गः ‐ - इति । नैष दोषः । मध्येऽपवादाः पूर्वान् विधीन् बाधन्त इत्येवमयं योगविभागः पररूपं बाधिष्यते, अमि पूर्वत्वं न बाधिष्यते । यद्येतदस्ति ‐ - मध्येऽपवादाः ‐ - पुरस्तादपवादाः ‐ - इति, नार्थ एकेनापि योगविभागेन । पुरस्तादपवादा अनन्तरान् विधीन् बाधन्त इत्येवं पररूपमकः सवर्णदीर्घत्वं बाधिष्यते, प्रथमयोः पूर्वसवर्णदीर्घत्वं न बाधिष्यते ।। (प्रकारान्तरेण सिद्धान्तसाधकभाष्यम्) अथवा ‐ - सप्तमे योगविभागः करिष्यते । इदमस्ति ‐ - अतो दीर्घो यञ्ञि 7|3|101 सुपि च (102) इति । ततो वक्ष्यामि ‐ - बहुवचने । बहुवचने च अतो दीर्घो भवति । ततः ‐ - झल्येत् । एकारश्च भवति बहुवचने झलीति । इहापि तर्हि प्राप्नोति ‐ - वृक्षाणाम्, प्लक्षाणाम् । तत्र को दोषः ? दीर्घत्वे कृते ह्रस्वाश्रयो नुण्न प्राप्नोति । इदमिह संप्रधार्यम् ‐ - दीर्घत्वं क्रियतां नुडिति, किमत्र कर्तव्यम् ? परत्वाद्दीर्घत्वम् । नित्यं खल्वपि दीर्घत्वम् । कृतेऽपि नुटि प्राप्नोति, अकृतेऽपि । नित्यत्वात्परत्वाच्च दीर्घत्वे कृते ह्रस्वाश्रयो नुण्न प्राप्नोति । एवं तर्हि आत् ग्रहणमिहापि प्रकृतमनुवर्तते । क्व प्रकृतम् ? आज्जसेरसुक् 7|1|50 इति । तेन कृतेऽपि दीर्घत्वे नुट् भविष्यति । इहापि तर्हि प्राप्नोति ‐ - कीलालपाम्, शुभयाम् । आतो लोपोऽत्र बाधको भविष्यति । इदमिह संप्रधार्यम् ‐ - लोपः क्रियतां नुडिति, किमत्र कर्तव्यम् ? परत्वान्नुट् । एवं तर्हि ह्रस्वनद्यापो नुट् इत्यत्र आतो धातोः 6|4|140 इत्यातो लोपः संबन्धमनुवर्तिष्यते । इहापि तर्हि प्राप्नोति ‐ - कीलालपानाम् ब्राह्मणकुलानाम् । नपुंसकस्य नेत्यप्यनुवर्तिष्यते ।।