Page loading... Please wait.
6|1|100 - नित्यमाम्रेडिते डाचि
॥ तस्मै पाणिनये नमः ॥
6|1|100
SK 0
नित्यमाम्रेडिते डाचि   🔊
सूत्रच्छेदः
नित्यम् (अव्ययम्) , आम्रेडिते (सप्तम्येकवचनम्) , डाचि (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
संहितायाम्  6|1|72 एकः पूर्वपरयोः  6|1|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अव्यक्तानुकरणस्य, अतः, अन्त्यस्य इति च अनुवर्तते। डाच्परं यदम्रेदितं तस्मिन् पूर्वस्य अव्यक्तानुकरनस्य अच्छब्दस्य यो ऽन्त्यः तकारः तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपम् एकदेशो भवति। पटपटा करोति। दमदमा करोति। पटदित्यस्मातव्यक्तानुकरणातिति डाचि विहिते डाचि बहुलम् इति द्विर्वचनम्, तच् च टिलोपात् पूर्वम् एव इष्यते।
Text Unavailable. Please use feedback link below to provide the text if you have.
वार्तिकमेवेदम्। वृत्तिकृता सूत्ररूपेण पठितम्। डाचि विवक्षित इति। ठाशंसायां भूतवच्चऽ इति भविष्यति क्तः, विधित्सित इत्यर्थः। अन्यथा कडाजेव न स्यात्; द्व्यजवरार्धत्वाभावात्। तथा च डाज्विधावुक्तम्--ठ्यस्य च द्विर्वचने द्व्यजवरार्द्धता ततः प्रत्ययःऽ इति, अष्टमे च वक्ष्यतिडाचीति विषयसप्तमीति। डाचि विधित्सित एव द्विर्वचनं क्रियत इत्यत्र प्रयोजनान्तरमाह--तच्चेति। ह्यर्थे चः, तद्धि द्विर्वचनं टिलोपात्पूर्वमिष्यते। एवं च पूर्वं सिद्धयति, यदि डाचिविधित्सित एव द्विर्वचनं भवति, नान्यथा। यदि हि परभूते द्विर्वचनं स्यात्, ततोऽन्तरङ्गत्वात्पूर्वं टिलोपे कृते टकारान्तस्य द्विर्वचने पटपटेति न सिद्ध्येत्। यद्वा--डाचि विहिते उत्पन्ने इत्यर्थः। ननु चोक्तम्--डाजेव न स्यादिति? नैष दोषः; ठ्द्व्यजवरार्द्धात्ऽ इति भाविव्यपदेशोऽयम्। यस्य द्व्यजवरार्द्धता भविष्यति द्विर्वचने कृते तस्मादित्यर्थः। यदि डाचि विहितं द्विर्वचनं परत्वाट्टिलोपप्रसङ्ग इत्युक्तम् ? तत्राह--तच्चेत्यादि। ठ्डाचि बहुलम्ऽ इति बहुलग्रहणाद् द्विर्वचने कृते टिलोप इत्यर्थः ॥
सिद्धान्तकौमुदी
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.