Page loading... Please wait.
5|4|91 - राजाहस्सखिभ्यष्टच्‌
॥ तस्मै पाणिनये नमः ॥
5|4|91
SK 788
राजाहस्सखिभ्यष्टच्‌  
सूत्रच्छेदः
राजा-अहन्-सखिभ्यः (पञ्चमीबहुवचनम्) , टच् (प्रथमैकवचनम्)
अनुवृत्तिः
तत्पुरुषस्य  5|4|86 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
तत्पुरुषस्य राजा-अहन्-सखिभ्यः टच्
सूत्रार्थः
यस्य तत्पुरुषसमास्य उत्तरपदरूपेण "राजन्", "अहन्" उत "सखि" एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
यस्य तत्पुरुषसमासस्य उत्तरपदम् राजन्, अहन्, सखि - एतेषु किञ्चन विद्यते तस्मात् "टच्" इति समासान्तप्रत्ययः भवति ।

उदाहरणानि -

1. महान् च असौ राजा [सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 2|1|61 इति तत्पुरुषसमासः]
→ महत् + राजन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ महा + राजन् + अ [आन्महतः समानाधिकरणजातीययोः 6|3|46 इति महत्-शब्दस्य तकारस्य आकारादेशः]
→ महा + राज् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ महाराज

एवमेव - मद्राणां राजा - मद्रराजः, परमश्चासौ राजा परमराजः - एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।


2. उत्तमम् च तद् अहः[सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः 2|1|61 इति तत्पुरुषसमासः]
→ उत्तम + अहन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ उत्तमाहन् + अ [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ उत्तमाह् + अ [अह्नष्टखोरेव 6|4|145 इति टिलोपः]
→ उत्तमाह [रात्राह्नाहाः पुंसि 2|4|29 इत्यनेन पुंस्त्वम्]

विशेषः - यस्मिन् समस्तपदे "सर्व" शब्दः, "सङ्ख्यात"शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च "अहन्" शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच्-प्रत्यये प्राप्ते अह्नोऽह्न एतेभ्यः 5|4|88 इत्यनेन अहन्-शब्दस्य अह्न-आदेशः भवति । यथा - सर्वम् अहः सर्वाह्णः । सङ्ख्यातम् अहः सङ्ख्याताह्नः । अह्नः पूर्वम् पूर्वाह्णः । द्वयोः अह्नोः भवः द्व्यह्नः - आदयः ।

3. कृष्णस्य सखा [षष्ठी 2|2|8 इति षष्ठीतत्पुरुषः]
→ कृष्ण + सखि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः]
→ कृष्ण + सख् + अ [यस्येति च 6|4|148 इति टिलोपः]
→ कृष्णसख

एवमेव - परमश्चासौ सखा परमसखः इत्यपि सिद्ध्यति ।

विशेषः - टच्-प्रत्याहारे टकारस्य ग्रहणम् टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्-प्रत्ययविधानार्थम् अस्ति । यथा -
अतिक्रान्ता राजानम् (gone beyond / exceeded the king) [अत्यादयः क्रान्ताद्यर्थे इत्यनेन वार्त्तिकेन तत्पुरुषसमासः]
→ अति + राजन् + टच् [वर्तमानसूत्रेण समासान्तः टच् प्रत्ययः]
→ अति + राज् + अ [नस्तद्धिते 6|4|144 इति टिलोपः]
→ अति + राज् + अ + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. 4|1|15 इत्यनेन ङीप्]
→ अति + राज् + अ + ई [इत्संज्ञालोपः]
→ अति + राज् + ई [यस्येति च 6|4|148 इति टिलोपः]
→ अतिराजी

एवमेव "अतिक्रान्ता सखायम्" सा अतिसखी - इत्यपि सिद्ध्यति ।

स्मर्तव्यम् - समासान्तप्रकरणस्य विषये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषा न स्वीकर्तव्या इति परिभाषेन्दुशेखरे नागेशः स्पष्टीकरोति । अतः अस्मिन् सूत्रे निर्दिष्टेन "राजन्" शब्देन "राज्ञी" शब्दस्य ग्रहणम् न क्रियते । इत्युक्ते, "मद्राणाम् राज्ञी" इत्यत्र "मद्रराज्ञी" इत्येव समासान्तशब्दः सिद्ध्यति, अत्र टच्-प्रत्ययः न विधीयते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
राजनहन् सखि इत्येवम् अन्तात् प्रातिपदिकात् टच् प्रत्ययो भवति। महाराजः। मद्रराजः। परमाहः। उत्तमाहः। राज्ञः सखा राजसखः। ब्राह्मणसखः। इह कस्मान् न भवति, मद्राणाम् राज्ञी मद्रराज्ञी? लिङ्गविशिष्टपरिभाषया प्राप्नोति? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद् ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य इदं ग्रहणम् इति।
`परमाहः, उत्तमाहः` इति `सन्महत्` 2|1|60 इत्यादिना कर्मधारयः। `मद्रराजः` इति। षष्ठीतत्पुरुषः। कथं पुना राजशब्दग्रहणे राज्ञीशब्दस्य प्राप्नोति? इत्यत आह--`लिङ्गविष्टिपरिभाषया` इत्यीदि। `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इत्येवा लिङ्गविशिष्टपरिभाषा। `लध्वक्षरस्य` इति। सवर्णदीर्घोऽर्थः प्रयोजनं यस्य प्रथमप्रयोगसर्य स तथोक्तः। अत्रह लध्वक्षरं पूर्व निपततीति सख्युरह्नो वा पूर्वानिपाते प्राप्ते योऽहशब्दस्य परनिपातः स राजशब्दस्य सवर्णदीर्धार्थः। प्रयोगस्तु क्वचिन्नैतज्ज्ञापयति--अकारवत एव राजशब्दाट्टज्? भवति। ईकारान्तान्न, ईकारस्याकारेण सवर्णदोर्घान्तस्या सम्भवात्॥
इह कस्मादिति। किं च स्याद्यद्यत्र टच् स्यात् ? ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ङीपि निवृते टचि टिलापे सति टित्वान्ङीपि मद्रराजीति स्यात्, भद्ररार्ज्ञीति चेप्यते। तस्मादत्र टचोऽनुत्पत्तिवक्तव्येति भावः। टचश्चित्करणमन्तोदातार्थम्; अन्यथा प्रययस्य समासेकदशत्वाद्विधुरः, प्रधुर इत्यादाविव प्रत्ययस्वरोऽव्ययपूर्वपदप्रकृतिस्वरेण बाध्येत ॥
सिद्धान्तकौमुदी
एतदन्तात्तत्पुरुषाट्टच् स्यात् । परमराजः । अतिराजी । कृष्णसखः ॥
राजाऽहस्सखिभ्यष्टच् - राजाहःसखिभ्यष्टच् ।तत्पुरुषस्याङ्गुलेः॑ इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतं "राजाहःसखिभ्यः" इत्यनेन विशेष्यते । तदन्तविधिः । तदाह — एतदन्तादिति । परमराज इति । परमश्चासौ राजा चेति विग्रहः । "अत्यादयः" इति समासः । टचि टिलोपः । कृष्णसख इति । कृष्णस्य सखेति विग्रहः । समासान्तष्टच् ।यस्येति चे॑ति इकारलोपः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
एतदन्तात्तत्पुरुषाट्टच् स्यात्। परमराजः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.