Page loading... Please wait.
5|4|83 - अनुगवमायामे
॥ तस्मै पाणिनये नमः ॥
5|4|83
SK 951
अनुगवमायामे   🔊
सूत्रच्छेदः
अनुगवम् (प्रथमैकवचनम्) , आयामे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समासान्ताः  5|4|68 वा  4|1|82
सम्पूर्णसूत्रम्
अनुगवम् आयामे (निपात्यते)
सूत्रार्थः
"अनुगवम्" इति अच्-प्रत्ययान्तशब्दः "आयामः" अस्मिन् अर्थे निपात्यते ।
"आयामः" (length, distance) अस्मिन् अर्थे "अनुगवम्" इति अच्-प्रत्ययान्तशब्दः अनेन सूत्रेण निपात्यते । एकस्याः गोः या व्याप्तिः (length of one cow) तादृशः आयामः "एकम् अनुगवम्" इति उच्यते।

अत्र "अनु" इति पूर्वपदम्, "गो" इति उत्तरपदम् तथा "अच्" इति समासान्तप्रत्ययः भवति । यथा -
अनु + गो + अच् [यस्य चायामः 2|1|16 इति अव्ययीभावसमासः]
→ अनु + ग् + अव् + अच् [एचोऽयवायावः 6|1|78 इति अवादेशः । अत्र गो-शब्दः पदसंज्ञकः नास्ति अतः अवङ् स्फोटायनस्य 6|1|123 इत्यस्य प्रसक्तिः न विद्यते इति स्मर्तव्यम् ।]
→ अनुगव

यथा - अनुगवम् यानम् । A vehicle whose length is same as length of a cow.

"आयाम" इत्येतम् अर्थं विहाय अन्येषु अर्थेषु अस्य शब्दस्य प्रयोगः भवति । यथा - "गवां पश्चात् अनुगु" । अत्र अच्-प्रत्ययः न भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयमे ऽभिधेये। अनुगवम् यानम्। यस्य चायामः 2|1|16 इति समासः। आयमे इति किम्? गवां पश्चदनुगु।
`आयामेऽभिधेये` इति। आयामः=दैष्र्यम्। मत्वर्थीयाकारान्तश्चायम्। आयामे चेत्यभिदेय इत्यर्थः। अन्यताऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यानम्ायामः। `अनुगवं यानम्` इति। गावो यथा तथा यानमायातमित्यर्थः। `गवां पश्चात्` इति। `अव्ययं विभक्ति` 2|1|6 इत्यादिनाव्ययीभावः पश्चादर्थे च। पूर्ववद्गोशब्दस्य ह्यस्वः। अनुशब्दात्प्रत्यये विधातव्ये यदनुगवमिति निपातनं तत्प्रसिद्ध्युपसंग्रहार्थम्। तेन यद्गवा बाह्रं गोभिश्च तुल्यामामं तत्रैव भवति, नान्यत्र॥
आयामेऽभिधेय इति। प्रवृत्तिनमितमायामः, तद्वति तु पर्यवसानम्। मत्वर्थीयाकारान्तो वा आयामशब्दः, आयामवत्यभिधेय इत्यर्थः; अन्यथाऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यस्य चायाम इति समास इति। ननु तत्र लक्षणेनेति वर्तते ? सत्यम्; इहापि बाह्यं यानं प्रति गवामस्त्येव लक्षणभावः। अनुगुशब्दात्प्रत्ययेऽभिधातव्ये निपातनाश्रयणं प्रसिद्ध्युपसंग्रहार्थम्, तेन यद्गवां बाह्यं तत्रैव भवति ॥
सिद्धान्तकौमुदी
एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । यस्य चायामः (कौमुदी-670) इति समासः ॥
अनुगवमायामे - अनुगवमायामे । एतदिति । अनुगवमित्येतदित्यर्थः । अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवंयानामिति । अनुगोशब्दादचि अवादेश इति भावः । यस्य चेति । "यस्य चायामः" इत्यव्ययीभावसमासः । तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.