Page loading... Please wait.
5|4|67 - मद्रात्‌ परिवापणे
॥ तस्मै पाणिनये नमः ॥
5|4|67
SK 2138
मद्रात्‌ परिवापणे  
सूत्रच्छेदः
मद्रात् (पञ्चम्येकवचनम्) , परिवापणे (सप्तम्येकवचनम्)
अनुवृत्तिः
डाच्  5|4|57 (प्रथमैकवचनम्) , कृञः  5|4|58 (पञ्चमीबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 वा  4|1|82
सम्पूर्णसूत्रम्
मद्रात् परिवापणे कृञः डाच्
सूत्रार्थः
कृ-धातोः योगे विद्यमानात् "मद्र" शब्दात् "परिवापण" अस्मिन् सन्दर्भे स्वार्थे डाच्-प्रत्ययः भवति ।
"परिवापणम्" (= मुण्डनम्, removing all the hairs from the head) इत्यस्मिन् सन्दर्भे प्रयुक्तः यः "मद्र" (= मङ्गलम्, भद्रम्, auspicious ) शब्दः , सः यदा "कृ" धातोः योगे प्रयुज्यते तदा तस्मात् स्वार्थे डाच्-प्रत्ययः भवति ।

यथा - मद्रम् परिवापणम् करोति इत्येव = मद्रा करोति । प्रक्रिया इयम् -

मद्र + डाच्
→ मद्र् + आ [टेः 6|4|143 इति टिलोपः]
→ मद्रा

यत्र "मुण्डनम्" इति अर्थः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - मद्रम् कार्यम् करोति ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - भद्राच्चेति वक्तव्यम् । "भद्र" शब्दात् अपि अस्मिन्नेव विषये डाच्-प्रत्ययः भवति इत्यर्थः । यथा - भद्रम् परिवापणम् करोति इत्येव = भद्राकरोति (माङ्गल्यार्थम् मुण्डनं करोति इत्याशयः) ।

ज्ञातव्यम् -
1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1|4|61 इत्यनेन "निपात" तथा "गति" द्वेऽपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1|1|37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः "अव्यय"संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा "गतिसंज्ञा"कारणात् कुगतिप्रादयः 2|2|18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - "मद्राकृत्य", "मद्राकृतः" - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषाम् उच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र "मद्रा करोति" एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1|4|80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः "मद्रा करोति" इत्येव वक्तव्यम्, न हि "करोति मद्रा" इति ।

2. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4|1|82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितम् अस्ति, अतः अनेन सूत्रेण उक्तः "डाच्" प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - "मद्रम् करोति" इति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृञः इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मण्डनं करोति मद्राकरोति। भद्राच् च इति वक्तव्यम्। भद्राकरोति नापितः कुमारम्। परिवापणे इति किम्? भद्रं करोति।
`मद्राकरोति` इति। मङ्गलपूर्वं मुण्डनं करोतीत्यर्थः। `भद्राच्चेति वक्तव्यम्` इति। भद्रशब्दाच्च डाज्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`समयाच्च यापनायाम्` 5|4|60 इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन भद्रादपि भविष्यतीति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥भद्राच्चेति वक्तव्यम् (वार्तिकम्) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥। इति तद्धिताधिकारे स्वार्थिकप्रकरणम्‌ ।
मद्रात् परिवापणे - मद्रात्परिवापणे ।डा॑जिचि शेषः । मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणंमुण्डनमिति । "केशान्वपते" इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोप्ति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः । **** इति बालमनोरमायाम् तद्धितप्रक्रिया । ****अथ तद्धितेषु रक्ताद्यर्थकाः । — — — — — — — — — -
मद्रात् परिवापणे - परिवापणमिति । कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युडिति हरदत्त्#H । कर्मव्यापारः — -फलं, तस्य कर्मनिष्ठत्वात् । तथा च फलमात्रवाचिन इत्यर्थः फलित इत्याहुः । माङ्गल्यमुण्डनेनेति । चौलदीक्षादौ ।भद्राच्चेति वक्तव्यम् । भद्राच्चेति । भद्रादित्यर्थग्रहणमिति व्याख्याने तु मङ्गलादिभ्योऽपि स्यादिति बोध्यम् ।इति तत्वबोधिन्यां तद्धितप्रक्रिया ।अथ तनादयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मद्रात् परिवापणे (2344) (उपसंख्यानभाष्यम्) भद्राच्चेति वक्तव्यम्। भद्राकरोति।।